________________ आधाकम्म 260 अमिधानराजेन्द्रः भाग२ आधाकम्म सम्प्रति 'परपक्खो य, सपक्खो" द्वारद्वयं व्याख्यानयन् प्रसङ्गतो निष्ठित-प्रकृतयो: स्वरूपं ताभ्वामुत्पन्नं भङ्गचतुष्टयं थाऽऽहपरपक्खो उगिहत्था, समणो समणी उ होइ उ सपक्खो। फासकुंड रद्धं वा, निट्ठियमियरं कडं सव्वं // 277 / / तस्स कडनिट्ठियमी, अन्नस्स कडंमि निष्ट्ठिये तस्स। चउभंगो इत्थभदे, चरमदुगे होइ कप्पं तु / / 178 / / इह परपक्ष:-गृहस्था:, श्रावकादय:, तेषामर्थाय कृतं साधू-नामाधाकर्म नभवति, स्वपक्ष:-श्रमणा:, साधव:, 'समणी उ' त्ति-श्रमण्यो-व्रतिन्यः, तेषामर्थाय कृतं साधूनामाधाकर्म वेदितव्यम्, तथा प्राशु (सु) कं कृतं करठ्यादिकं सचेतनं सत् साध्वर्थं निश्चेतनीकृतं यत्र स्वयमचेतनमपि तण्डु लादिकं कूरत्वेन निष्पादितं तन्निष्ठितमित्युच्यते इतरत् पुनरेकगुणद्विगुणकण्डित- तण्डुलादिकं सर्वं कृतमिति / अत्र च कृतनिष्ठितविषये तस्य साधोराय कृते निष्ठिते च तथा अन्यस्याऽप्यर्थाय कृते तस्य साधोराय निष्ठिते भक्तादौ चतुर्भङ्गिका भवति, तत्र प्रथमतृतीयभङ्गौ साक्षाद्दर्शितौ द्वितीयचतुर्थी तु हेतुगम्यौ, तौ चैवं- तस्य कृतमन्यस्य निष्ठितमन्यस्य कृतमन्यस्य निष्ठितं तत्रोपात्तयोयोर्भङ्गयो: चरमौ-अनुक्तौ पाश्चात्यौ द्वौ भङ्गौ; द्वितीयचतुर्थावित्यर्थः, प्रथमस्य हि द्वितीय: पाश्चात्यस्तृतीयस्य तु चतुर्थः, तत उपात्तप्रथमतृतीयभङ्गापेक्षया चरमौ द्वितीयचतुर्थी लभ्येते, तस्मिन् चरमद्विके भवति कल्प्यमशनादिः एतेच यद्यपि प्रागेवोक्तं तथापि विस्मरणशीलानां स्मरणाय भूयोप्युक्तमिति न कश्चिद्दोषः / उत्तं परपक्षस्वपक्षरूपं द्वारद्व्यम्। संप्रति 'चउरो' इति व्याचिख्यासुराहचउरो अइक्कम्मवइ-क्कमा य अइयार त अणायारो। निद्दरिसणं चउण्ह वि, आहाकम्मे निमंतणया // 179 / / आधाकर्मणि विषये केनाप्यभिनवेन श्राद्धेन निमन्त्रणे कृते चत्वारो दोषाः संभवन्ति, तद्यथा-अतिक्रमः 1, व्यतिक्रम: 2, अतीचारः 3, अनाचारश्च 4 / एते चत्वारोऽपि स्वयमेव सूत्रकृता व्याख्यास्यन्ते, एतेषां च चतुर्णामपि निदर्शनं- दृष्टान्तो भावनीयः, तमपि च वक्ष्यति। तत्र प्रथमत आधाकर्मनिमन्त्रणं भावयतिसालीघयगुलगोरस-नवेसु वल्लीफलेसु जाएसं। दाणे अहिणवसले, आहायकए निमंतेइ / / 10 / / शालिषु- शाल्योदनेषु तथा घृतगुडगोरसेषु साधूनाधाय षट्कायोपमर्दनेन निष्पादितेषु नयेषु च वल्लीफलेषु जातेषु / साधुनिमित्तमचित्तीकृतेषु दाने-दानविषये कोऽप्यभिनवश्राद्ध: (द्धम्)अव्युत्पन्नश्रावको निमन्त्रयते, यथा भगवन ! प्रतिगलीत यूयमस्मद्गृहे शाल्योदनादिकमिति। ततश्चआहाकम्मग्गहणे, अइक्कमाईसु वट्टए चउसु / नेउरहारिगहत्थी, चउतिगदुगएगचलणेणं // 18 // आधाकर्मग्रहणे अतिक्रमादिषु चतुर्षु दोषेषु वर्त्तते, स च यथा यथा उत्तरस्मिन्नुत्तरस्मिन् दोषे वर्तते, तथा तथा तद्दोषजनितात्पापादात्मानं महता कष्टेन ध्यावर्तयितुमीश:, अत्र दृष्टान्तमाह- 'नेउरे' त्यादि, इह नुपूरपण्डिताया: कथानकमतिप्रसिद्धत्वाद् बृहत्त्वाच न लिख्यते, किंतुधर्मोपदेशमालाविवरणादेखगन्त-व्यम्, तत्रनूपुरं- मञ्जीरंतस्य हारोहरणं श्वशुरकृतं तेन या प्रसिद्धा सा नू पुरहारिका, आगमे चान्यत्र नुपुरपण्डितेति प्रसिद्धा, तस्याः कथानकेयो हस्ती राजपत्नी संचारयन् प्रसिद्धः स नूपुरहारिको हस्ती स यथा 'चउतिगदुगएगचलणेणं' तिपश्चानुपूर्व्या योजना, एकेन द्वाभ्यां त्रिभिश्च चरणैराकाशस्थैमहतामहत्तरेण कष्टे न आत्मानं ध्यावर्तयितुमीशस्तथा आधाकर्मग्राह्यपि, इयमत्र भावना- नूपुरहारिकाकथानके राज्ञा हस्ती स्वपत्नीमिण्ठाभ्यां सह छिन्नटङ्के समारोपितः, ततोऽपि मिण्ठेन छिनटङ्कपर्वताग्रभागे व्यवस्थाप्याऽठोतनमेकं कंचिच्च- रणमाकाशे कारित:, स च तथाकारित: सन् स्तोकेनैव क्लेशन तं चरणं व्यावर्त्य तत्रैव पर्वते आत्मानंस्थापयितुं शक्नोति, एवं साधुरपि कश्चिदतिक्रमाख्यं दोषं प्राप्त: सन् स्तोकेनव शुभाध्यवसायेन तं दोषं विशोध्याऽत्मानं संयमे स्थापयितुमीश:, यथा च हस्ती चरणद्वयमठोतनमाकाशस्थं क्लेशेन व्यावर्तयितुं शक्नोति, एवं च साधुरपि व्यतिक्रमाख्यं दोषं विशिष्टेन शुभेनाध्यवसायेन विशोधयितुमीष्टे, यथा च स हस्ती चरणत्रयमाकाशस्थमेकेन केनापि पाश्चात्येन चरणेन स्थितो गुरुतरेण कष्टेन व्यावर्त्तयितुं क्षमः तथा साधुरप्यतीचारदोषं विशिष्टतरेण शुभेनाध्यवसायेन विशोधयितुं प्रभुः, यथा च स हस्ती चरणचतुष्टयमाकाशस्थितं सर्वथा नव्यावर्तयितुमीश:, किंतु-नियमतो भूमौ निपत्य विनाशमाविशति, एवं साधुरप्यनाचारे वर्तमानो नियमत: संयमात्मानं विनाशयति। इह दृष्टान्ते चरणचतुष्टयं हस्तिना नोत्पाटितं, किंतु- दार्शन्तिकयोजनानुरोधात्संभावनामङ्गीकृत्य प्रतिपादितम्। पिं० / संप्रति 'गहणे य आणाई' इति व्याख्यानयन्नाहआणाइणो य दोसा, गहणे जंभणिय मह इमे ते उ। आणाभंगऽणवत्था, मिच्छत्तविराहणा चेव ||183 / / यदुक्तम् 'आहाकम्भियनामे त्यादि मूलद्वारगाथायामाधा- कर्मग्रहणे आज्ञादय:-आज्ञाभङ्गादयो दोषास्ते इमे, तद्यथा- आज्ञाभङ्गः 1, अनवस्था 2, मिथ्यात्वम् 3, विराधनाचा तत्र प्रथमत आज्ञाभङ्गदोषं भावयतिआणं सव्वजिणाणं, गिण्हंतोतं अइक्कमइ लद्धो। आणं अइक्कमंतो, कस्साएसा कुणइ सेसं // 184 / / तद्-आधाकर्मिकमशनादिकं लुब्धः सन् गृह्णान: सर्वेषा-मपि जिनानामाज्ञामतिक्रामति, जिना हि सर्वेऽप्येतदेव बुवन्ति स्म-यदुत मा गृहणत मुमुक्षवो ! भिक्षव आधाकर्मिकां भिक्षामिति ततस्तदाददानो जिनाज्ञामतिक्रामति, तां चातिक्रमन् कस्य नाम ! आदेशाद् -आज्ञाया: शेषंकेशस्मश्रुलुश्चन-भूशय-नमलिनवासोधारणप्रत्युपेक्षणाद्यनुष्ठानं करोति ? न कस्यपीति भावः सर्वस्यापि सर्वज्ञाऽऽज्ञाभङ्गकारिणोऽनुष्ठानस्य (नष्फल्यात्) निष्फलत्वात् /