________________ आइक्खित्तए 03 अभिधानराजेन्द्रः भाग 2 आइच आइक्खित्तए- अव्य. / (आख्यातुम)- कथयितुमित्यर्थे, बृ०३ उ० 23 सूत्र। आइगर-त्रि (आदिकरे) आदि करोति अहेत्वादायपिटः / स्त्रियां डीप, / प्रथमकारके प्राक्सत्ताकर्तरि, वाच। "तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे" (सूत्र-१०x) औला"ते सव्वे पावाउया आदिगरा धम्माणं" (सूत्र-४१४) / सूत्र. 2 श्रु० 2 अ / आदौप्रथमतः श्रुतधर्माचारादिग्रन्थात्मकं कर्म करोतितदर्थप्रणायकत्वेन प्रणयतीत्येवं शीलः / भ०१ श.१ उ. 5 सूत्र ! आदि:- श्रुतधर्मस्य प्रथमा प्रवृत्तिस्तत्करणशील: / रा० / स्वस्वतीर्थापेक्षया धर्मस्येति / / कल्प०१ अधि०२ क्षण 15 सूत्र / जी / तत्करणहेतुर्वा / ध० 2 अधि०६१ श्लोक श्रुतधर्मस्य प्रथमप्रवृत्तिकारकेतीर्थकरे च / आव०५०१ गाथा। स०। "नमोत्थु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं" || रा०। इहाऽऽदौ करणशीला आदिकरा अनादावपि भवे तदा तदा तत्तत्कण्विादिसम्बन्धयोग्यतया विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्येति हृदयम्, अन्यथा अधिकृतप्रपञ्चाऽसंभवः, प्रस्तुतयोग्यता वैकल्ये प्रक्रान्तसंबन्धाऽसिद्धेः अतिप्रसङ्गदोषव्याघातात्, मुक्तानामपि जन्मादि प्रपक्षस्याऽऽपत्तेः / प्रस्तुतयोग्यताऽभावेऽपि प्रक्रान्तसम्बन्धाऽविरोधादिति परिभावनीयमेतत् / न च तत्तत्कर्माण्वादेरेव तत्स्वभाव-तयाऽऽत्मनस्तथा सम्बन्धसिद्धिः, द्विष्ठत्वेन अस्योभयोस्तथास्वभावापेक्षितत्वात्, अन्यथा कल्पना-विरोधात्, न्यायानुपपत्ते., न हि कर्माण्वादेस्तथा कल्पनायामप्यलोकाकाशेन, सम्बन्धः, तस्य तत्संबन्धस्व- भायत्वायोगात्, अतत्स्वभावे चाऽऽलोकाकाशे विरुध्यते कर्माण्वादेस्तत्स्वभावताकल्पनेति न्यायानुपपत्तिः, तत्स्वभाव-ताङ्गीकरणे चास्यास्मदभ्युपगतापत्तिः, न चैव स्वभावमात्रवादसिद्धिः, तदन्यापेक्षित्वेन सामग्या: फलहेतु- त्वात्, स्वभावस्य चतदन्तर्ग-तत्वे नेष्टत्वात् / निर्लोठितमेतदन्यत्र इति आदिकरत्वसिद्धिः // 3 // ल०। "यद्यप्येषा द्वादशाङ्गीन कदाचिन्नासीन्न कदाचिन्न भवति, न कदाचिन्न भवष्यिति। अभूच, भवति च, भविष्यति च" इति वचनात् नित्या द्वादशाङ्गी, तथाप्यथपिक्षया नित्यत्वं, शब्दापेक्षया तु स्वस्वतीर्थे श्रुतधर्मादिकरत्वमविरुद्धम्। ध०२ अधि०६० श्लोक। आइगुण- पुं (आदिगुण) आदौ गुण: सप्तमीतत्पुरुषः / सहभाविनि गुणे, आव 4 अ० 1273 गाथा / (सिद्धानामादिगुणा एकत्रिंशत्, ते च 'सिद्धाइगुण' शब्दे सप्तमभागे द्रष्टव्या:) आइग्घ-धा० (आघ्रा) आङ, घ्रा-भ्वा० पर अनिट्। गन्धोपादाने, तृप्तौ च० वाच / "आधे राइग्घः" 84 | 13 11 इति हैमप्राकृतसूत्रेणाऽऽजिघ्रते वैकल्पिक आइग्घाऽऽदेश: / आइग्धइ। आग्धाअइ / जिघ्रतीत्यर्थः / प्रा०। आइच-पुं० (आदित्य) / कृष्णराज्यवकाशान्तरस्थलोकान्तिकसंज्ञकार्चि लिविमानस्थे लोकान्तिकदेवविशेषे, ज्ञा० 1 श्रु० 4 अ० 77 सूत्र।स्था० / भ, / गैवेयकविमानविशेषे, तन्निवासिनि वैमानिकदेवविशेषे च / प्रव० 267 द्वार / समयावलिकादीनामादौ भवे, बहुलवचनात् त्यप्रत्ययः / सू० प्र०२० पाडु 105 सूत्र / भ० / सूर्ये, आव०४ अ | सूर्य्यस्यादित्यसंज्ञा यथासे केणद्वेणं मंते! एवं बुच्चइ-सूरे आइचे? सूरे आइच्चे गोयमा! सूरादिया णं समयाइ वा आवलियाइवा. जाव उस्सप्पिणीइ वा अवसप्पिणीइ वा से तेणतुणं गोयमा।। जाव आइच्चे सूरे आइये सूरे। (सूत्र. 455) अथादित्यशब्दस्यान्वमिधानायाह- 'सेकेणमित्यादि' 'सूराइय' त्ति-सूर:- आदि:- प्रथमो येषां ते सूरादिका: के? इत्याह- 'समयाइव' त्ति-समया:-अहोरात्रादिकालभेदानां निर्विभागा-अंशाः, तथाहिसूर्योदयमवधिं कृत्वा अहोरात्रारम्भक: समयो गण्यते आवलिकामुहूर्तादयश्च 'सेतेणमि' त्यादि, अथ तेनार्थेन सूरः- आदित्य इत्युच्यते इति आदौ अहोरात्रसमयादीनां भव: आदित्यः इति व्युत्पत्ते: / त्यप्रत्ययश्चेहाऽऽर्षत्वादिति। भ०१२ श०६ ऊ / सू० प्र०। चप्र०। आदित्यस्यास्तित्वमणाऽऽइचो उएइ, ण अत्थमेइ 117x || सर्वशून्यवादिनो-ह्यक्रियावादिन: सर्वाध्यक्षाभादित्योद्गमना- दिकामेव क्रियां तावनिरुधन्तीति दर्शयति- आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुत्तस्तस्योगमनमस्तमयनं वा? यच्च जाज्वल्यमानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रा- दिप्रतिभासमृगतृष्ण काकल्पं वर्तते / (सूत्र / ) अथैतन्मतस्य निराकरणम्-तथाहि-आगोपानागनादिप्रतीत: समस्तान्धकार- क्षयकारी कमलाकरोद्धा-टनपटीयानादित्योद्रम: प्रत्यहं भवन्नुपलक्ष्यते / तत्क्रिया च देशाद्देशान्तरावाप्स्याऽन्यत्र देवदत्तादौ प्रतीताऽनुमीयत इति। सूत्र०१ श्रु.१२ अ। सूर्याधिष्ठिते गगने दिवानिशं बम्भ्रम्यमाणे लोकप्रकाशकरे तेजोमण्डले, "अग्नौ प्रस्ताऽऽहुति: सम्य-गादित्यमुपतिष्ठते॥ आदित्याज्जायते वृष्टि-वृष्टेरनं ततः प्रजा:" // 1 // इति / मनुना अग्निहुतद्रव्याणां हविराज्यादीनां परमाणुमात्रतयाऽवस्थितानां दग्धशेषाणां सूर्यरश्मिकर्षणेन सूर्यलोकप्राप्त्या वृष्टिहेतुत्वमुत्कम्, तच मण्डलार्थपरत्व एव सम्भवति। वाच० / अर्कवृक्षे, पुं। आदित्यस्यापत्यम् ण्य: यलोप: आदित्यापत्ये, पुं. स्त्री० / वाच"आइचो य होई बोधव्वो" ||15 / / (भाष्यगा.)। आदित्यास्यायमादित्यः पत्युत्तरपदय-मादित्यदितेरिति ज्याऽपदवादस्त्यक् / आदित्यस्याऽयम् / आदित्यः / ("अनिदमि अणपवादे च दित्यदित्या दित्ययमपत्युत्तरपदात् ज्य:" // 6 // 1 / 15 / / एभ्यः प्रागजितीयेऽर्थे इदं वर्जे अपत्याद्यर्थे य: अणोऽपवाद: तद्विषये च ज्य: स्यात् / इति ज्य:*) "व्यञ्जनात्पञ्चमान्त-स्थायाः सरूपे वा" // 1 347 / / इति पाक्षिक एकस्य यकारस्य लोप: / आदित्यचारनिष्पन्नत्वादुपचारतो मासोऽप्याऽदित्य: (व्य.)। आदित्यसम्बन्धिनि तचारनिष्पन्ने मासादौ, स चैकस्य दक्षिणायनस्योत्तरायणस्य वा त्र्यशीत्यधिकदिनशत-प्रमाणस्यषष्ठभागमानः। यदि वा-आदित्यचारनिष्पन्नात्वादुपचारतो मासोऽप्यादित्यः / व्य. 1 उ.। "जस्स जओ आइचो, उएइ सा भवइ तस्स पुव्वदिसा" / (474) / आचा. 1 श्रु०१