________________ आधाकम्म 257 अभिधानराजेन्द्रः भाग 2 आधाकम्म पुण्णऽढकरणसङ्का, आहाकम्मे णिमंतणता / / 939 / / कस्यापि दानरुचेरभिगमश्राद्धस्य वा नदः शालिर्भूयान् गृहे समायातस्तत: स चिन्तयति-पूर्वं यतीनामदत्वा ममाऽऽत्मना परिभोक्तुं न युक्त इति परिभाव्याऽऽधाकर्म कुर्यात्, एवं घृते गुडे गोरसे नवेषु वा तुम्ब्यादिवल्लीफलेषु जातेषु पुण्यार्थ दानरुचिः श्राद्धः 'करणं' तिआधाकर्म कृत्वा साधूनां निमन्त्रणं कुर्यात्। वृ०४ उ०। आधाकर्म सम्भवे भेदाश्च प्रदर्शिताः,तस्स आहाकम्मस्स कहं संभवो हवेज्ज इमो भण्णति। सूत्रम्सालीघयगुलगोरस-नवेसु वल्लीफलेसु जातेसु। पुण्णहदाणसवा, आहाम्मे णिमंतणया / / 7 / / आहाम्मे तिविहो,आहारे उवधिवसहिमादीस। 'आहाए आवा कम्म, चउव्विधं होति असणादी॥५८ / / कस्सति दाणरुइणो अभिगमसढस्स वाणवो साली घरे पवेसितो ताहे दाणसड्डो चिंतेति-पुव्वं जतीणं दाउं पच्छा अप्पणा परिभोगं कहेमि त्ति आहाकम्मं करेज्ज, जहा सालीए, एवं घृतगुडे गोरसे वा नवेसु वा तुम्ब्यादिवल्लिफलेषु जातेषु पुण्ण णिमित्तं दाणसड्डा जया आहाकम्म काउंसाहुणो णिमंतेज्ज तस्स य आहाकम्म-स्स इमे दोसा-आहाकम्म तिविध-आहारे, उवधौ, वसहीए। आदिसद्दो णामादिभेदप्रदर्शनार्थः / उत्तरभेदप्रदर्शनार्थं वा आहाए कम्मंचउव्विधं असणादियं / गाहाउवही आहाकम्म, वत्थे पाएय होति नायध्वं / वत्थे पंचविधं पुण, तिविहं पुण होति पातम्मि / / 19 / / उवधीआहाकम्मं दुविध-वत्थे, पादेय। तत्थ वत्थे पंचविहं-जंगियं भंगियं, सणियं, पत्तथा तिरीडपट्टे च / पादे तिविह-लाउयं, दारुयं, मट्टियापादं च / एतेसिं वक्खाणं पूर्ववत् / नि. चू, 10 उ०। साम्प्रतमशनादिरूपस्याधाकर्मणः सम्भवं प्रतिपिपादयिषुः कथानकं रूपकषट्केनाहकोद्दवरालगगामे, वसही रमणिज्ज भिक्खसज्जाए। खेत्तपडिलेहसंजय, सावयपुच्छुज्जुए कहणा // 162 / / जुज्जइ गणस्स खेत्तं, नवरि गुरूणं तु नऽत्थि पाउगं / सालित्ति कए रुंपण, परिभायण निययगेहेसुं॥१६३|| वोलेंता ते व अन्ने वा, अडता तत्थ गोयरं। सुणंति एसणाजुत्ता, बालादिजणसंकहा / / 164 // एए ते जेसिमो रद्धो, सालिकूरो घरे घरे। दिनो वा सेसयं देमि, देहि वा बेंति वा इमं // 165 / / थक्केथक्कावडियं, अमत्तए सालिभत्तयं जायं। मज्जय पइस्स मरणं, दियरस्स य से मया मज्जा / / 166 / / चाउलोदगं पिसे देहि, साली आयामकंजियं। किमेयंति कयं नाउं, वज्जंतऽन्नं वयंति वा / / 167 / / इह संकुलो नाम ग्रामः, तत्र जिनदत्तनामा श्रावक: तस्य भार्या जिनमितिः, तत्र च ग्रामे कोद्रवा रालाकाश्च प्राचुर्येणो- त्पद्यन्ते इति तेषामेव कूरं गृहे गृहे भिक्षार्थमटन्त: साधवो लभन्ते, वसतिरपि स्त्रीपशुपण्डकविवर्जिता समभूतलादिगुणैर-तिरमणीया कल्पनीया च प्राप्यते, स्वाध्यायोऽपि तत्र वसता- मविघ्नमभिवर्द्धते, केवलं शाल्योदनो न प्राप्यत इति न केचनापि सूरयो भरेण तत्राऽवतिष्ठन्ते। अन्यदा च संकुलग्रामप्रत्यासन्ने भद्रिलाभिधाने ग्रामे केचित् सूरयः समाजग्मुः तैश्च संकुलग्राम क्षेत्रप्रत्युपेक्षणाय साधवः प्रेष्यन्ते, साधवोऽपि तत्राऽऽगत्य यथाऽऽगमं जिनदत्तस्य पार्श्वे वसतिमयाचिषत, जिनदत्तेनापि च साधदर्शनसमुच्छलितप्रमोदभरसमुद्भिन्नरोमाञ्चकञ्चुकित-गात्रेण तेभ्यो वसति: कल्पनीया उपादेशि। साधवश्व तत्र स्थिताः, यथाऽऽगमं भिक्षाप्रवेशनेन बहिभूमौ स्थण्डिलनिरक्षिणेन च सकलमपि ग्राम प्रत्युपेक्षितवन्त:, जिनदत्तोऽपि च श्रावको वसतावागत्य यथाविधि साधून वन्दित्या महत्तरं साधुमपृच्छत् भगवन् ! रुचितमिदं युष्मभ्यं क्षेत्रम् ? सूरयोऽत्र निजसमाग- मेनाऽस्माकं प्रसादमाधास्यन्ति। तत: सज्येष्ठ: साधुरवादीत् - वर्तमानयोगेन, ततो ज्ञातं जिनदत्तेन-यथा न रुचितमिदमेतेभ्यः क्षेत्रमिति, चिन्तयति च-अन्येऽपि साधवोऽत्र समागच्छन्ति परं न केचिदवतिष्ठन्ते, तन्न जानामि किमत्र कारणमिति, तत: कारणपरिज्ञानाय तेषां साधूनामन्यतमं कमपि साधुमृनुं ज्ञात्वा पप्रच्छ, स च यथाऽवस्थितमुक्तवान्, यथाऽत्र सर्वेऽपि गुणा विद्यन्ते गच्छस्यापि च योग्यमिदं क्षेत्रं केवलामत्राऽऽचार्यस्य प्रायोग्य: शाल्योदनो न लभ्यते, इति नाऽवस्थीयते / तत एवं कारणं परिज्ञाय तेन जिनदत्तश्रावकेण परस्माद्ग्रामात् शालिबीजमानीय निजग्रामक्षेत्रभूमिषु वापितं, तत: संपन्नो भूयान् शालि: अन्यदा च यथाविहारक्रमं ते वाऽन्ये वासाधव: समायासिषुःश्रावकश्च चिन्तयामासयथैतेभ्यो मया शाल्योदनो दातव्यो येन सूरीणामिदं योग्यं क्षेत्रमिति परिभाव्य साधवोऽमी सूरीनत्राऽऽनयन्ति, तत्र यदि निजगृह एव दास्यामि ततोऽन्येषु गृहेषु कोद्रवरालककूरं लभमानानामेतेषामाधाकर्मशङ्कोत्पत्स्यते तस्मात् सर्वेष्वपि स्वजनगृहेषु शालिं प्रेषयामीति, तथैव च कृतं स्वजनांश्चोक्तवान् यथा स्वयमप्यमुं शालिं पक्त्वा भुञ्जत, साधुभ्योऽपि च ददत, एष च वृत्तान्त: सर्वोऽपि बालादिभिवजग्मे, साधवश्व भिक्षामटन्तो यथाऽऽगममेषणासमितिसमिता बालादीनामुक्तानि शृण्वन्ति, तत्र कोऽपि बालको वक्ति एते ते साधवो येषामर्थाय गृहे गृहे शाल्योदनो निरपादि, अन्यो भाषते साधुसंबन्धी शाल्योदनो मां जनन्या ददे, दात्री वा क्वचिदेवं भाषते-दत्तः परकीय: शाल्योदनः, संप्रत्यात्मीयं किमपि ददामि, गृहनायकोऽपि क्वापि ब्रूतेदत्त: शाल्योदन: परकीयः; संप्रत्यात्मीयं किमपि देहि, बालकोऽपि क्वापि कोऽप्यनभिज्ञो जननीं ब्रूते-मम साधुसम्बन्धिनं शाल्योदनं देहीति, अन्य-स्त्वीषद्दरिद्र: सहर्ष भाषते-अहो थक्के थक्कावडियमस्माकं संपन्नम् / इह यदवसरे अवसरानुरूपमापतति तत् थक्के थ