SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 256 अभिधानराजेन्द्रः भाग 2 आधाकम्म न लिङ्गत: साधर्मिकः, प्रवचनतोऽपि साधर्मिक: सोऽभिधीयतेयश्चतुर्वर्णसङ्घाभ्यन्तरवर्ती भवति "पवयणसंघेयगरे" इति वचनात्, भगवांश्च तत्प्रवर्तकतया न तदभ्यन्तरवर्ती किं तु वर्णस्यापि सङ्घस्यापि ततो न प्रवचनतोऽपि साधर्मिक इत्यतस्तस्य तीर्थकरस्यार्थाय कृतं यतीनां कल्पते, यत्पुन: प्रतिमानामर्थाय कृतं तस्य का कथा-का वार्ता सुतरां तत् कल्पते, कुत इत्याह-अजीवत्वात्, जीवमुद्दिश्य यदि यत्कृतं तदाधाकर्म भवति 'जीवं उद्दिस्स कडं // 940 // " इति प्रागेवोक्तत्वात् तच जीवत्वमेव प्रतिमानां नास्तीति। अथ वसतिविषयमाधाकर्म दर्शयतिठाइमठाई ओसरणे, अमंडवा संजय? देसे वा। पेढी भूमीकंमे, निसेवतो अणुमई दोसा / / 945 / / 'ओसरणे' समवसरणे बहवः संयताः समागमिष्यन्तीति बुद्ध्या श्रावका धर्मश्रद्धया बहून् मण्डपान कुर्यु: ते च द्विधा- स्थायिन:, अस्थायिनश्च / ये समवसरणपर्वणि व्यतीते सति नोत्कील्यन्ते ते स्थायिनः, ये पुनरुत्कील्यन्ते ते अस्थायिन: / पुनरेकैकै द्विविधाःसंयतार्थकृता, देशकृता वा। ये आधा कर्मिकास्ते संयतार्थकृताः / येतु साधूनामात्मन: स्वार्थाय कृतास्ते देशकृता: एतेषु तिष्ठतां तन्निष्पन्नं प्रायश्चित्तम् / तथा पीठिकानामउपवेशनादिस्थानविशेषा: 'भूमीकम्मे' त्ति- भूमि-कर्मविषमाया: भूमे: समीकरणम्, उपलक्षणं चेदं तेन संमार्जनोपलेपनादिपरिग्रहः / एतान्यपि पीठिकादीनि संयतार्थ-कृतानि देशकृतानि भवेयुः / एतानि मण्डपादीनि सदोषाणि निषेवमाणस्य अनुमतिदोषा भवन्ति एतेषु क्रियमाणेषु या षण्णां जीवनिकायानां विराधना सा अनुमोदिता भवतीति भावः / बृ.१ उ०२ प्रक० / आधाकर्मण: कल्प्याऽकल्प्यविवेकःआहा अहे य कम्मे, आताहम्मे य अत्तकम्मे य। तं पुण आहाकम्भ, णायव्वं कप्पते कस्स ||946 / / आधाकर्म, अध:कर्म, आत्मघ्नम्, आत्मकर्म चेति चत्वारि नामानि। तत्र साधूनामाधया-प्रणिधानेन यत्कर्मषट्का- यविनाशेनाशनादिनिष्पादनं तदाधाकर्म, तथा विशुद्धसंयम- स्थानेभ्य: प्रतिपत्त्यात्मानमविशुद्धसंयमस्थानेषु यदधोऽध: करोति तदध:कर्म / आत्मानं-ज्ञानदर्शनचारित्ररूपं हन्ति-विनाशयतीत्यात्मघ्नो यत्पाचकादिसंबन्धि कर्म पाकादिलक्षणं ज्ञानावरणीयादिलक्षणं वा तदात्मन: संबन्धि क्रियते अनेने-त्यात्मकर्म। तत्पुनराधाकर्म कस्य पुरुषस्य कल्पतेन वा, यद्वा-कस्य तीर्थे कथंकल्पते, न कल्पतेचा 4 उ०। (इति' अकप्पट्ठिय' शब्दे प्रथमभागे तम्:।) (8) यथाक्रमं द्वाविंशति जिनेषु कल्प्याऽकल्प्यविधि:-'अकप्पट्ठिय' शब्दे प्रथमभागे गतः।) (9) अशनादिषु आधाकर्मसंभवः / संप्रति 'किंवावी' ति व्याचिख्यासुराहकिं तं आहाकम्म, ति पुच्छिए तस्स रूवकहणऽत्थं / संभवपदसरिणत्थं, च तस्स असणाइयं भणइ // 160 / / किं तदाधाकर्मेति शिष्येण पृष्टे तत्स्वरूपकथनार्थम् आधाकर्मस्वरूपकथनार्थम्, तस्य-आधाकर्मणः संभव-प्रदर्शनार्थ च अशनादिकम्-अशनपानखादिमस्वादिमं गुरुर्भणति, इयमत्र- भावनाअशनादिस्वरूपमाधाकर्म-अशनादावेव आधाकर्मण: संभवः, ततो गुरु: किमाधाकर्मेति पृष्टः सन्न-शनादिकमेव वक्ति, तथा च शय्यंभवसूरिराधाकर्म दर्शयन् पिण्डैषणाध्ययने अशनादिकमभिधत्ते, तद्यथा"असणं पाणगं चेव, खाइमं साइमं तहा। जं जाणेज्ज सुणेज्जा वा, समणऽट्ठा पगडं इमं // 1 // तं भवे भत्तपाणं तु, संजयाण अकप्पियं। दितियं पडियाइक्खे, न मे कप्पइ तारिसं // 2 // इति। संप्रत्यशनादिकमेव व्याचष्टेसालीमाई अवडे, फलाइ सुंग्रइ साइमं होइ। शाल्यादिकमशनम्, 'अवट' इति- वापीकूपतडागाधुपलक्षणं, तत: कूपवापीतडागादौ यज्जलं तत्पानं, तथा फलादिफलं नालिकेरादि, आदिशब्दाच्चिञ्चिणिकापुष्पापिरिग्रह: तत् खादिम, शुण्ठ्यादिकं स्वादिम, तत्र शुण्ठी प्रतीता, आदिशब्दात्-हरीतक्यादिपरिग्रहः। तदेवं व्याख्यातान्यशनादीनिसंप्रत्येतेष्वेवाधाकर्मरूपेषु प्रत्येकं भङ्गचतुष्टयमाहतस्स कडनिट्ठियमी, सुद्धमसुद्धे य चत्तारि।।१६।। तस्येति प्रस्तावात् साधोराय'कृत' मित्यत्रबुद्धा-वादिकर्मविवक्षायां क्तप्रत्ययः ततोऽयमर्थ:- कर्तुं प्रारब्धं, तथा तस्य साधोराय निष्ठितंसर्वथा प्रासुकीकृतमिति, अत्र विषये 'चत्तारी' ति-चत्वारो भङ्गा भवन्ति तत्र प्रथम एष एव भङ्ग- स्तस्य कृतं तस्य निष्ठितं, द्वितीय:- तस्य कृतमन्यस्य निष्ठितं, तृतीय:- अन्यस्य कृतं तस्य निष्ठितं, चतुर्थः, अन्यस्य कृत-मन्यस्य निष्ठितम्। तत्र प्रथमो व्याख्यात:, द्वितीयादिनां तुभङ्गानामयमर्थः- पूर्वतावत्तस्य साधोराय कृतम्-आरब्धंततोदातु: साधुविषयदानपरिणामाभावतोऽन्यस्य-आत्मन: स्वपुत्रा-देवोऽर्थाय निष्ठां नीतं, तथा प्रथमतोऽन्यस्य पुत्रादेरात्मनो वाऽर्थाय कर्तुमारब्धं तत: साधुविषयदानपरिणामभावत: सा- धोरर्थाय निष्ठां नीतं, तथा प्रथमत एवाऽन्यस्य निमित्तं कर्तुमार-धमन्यस्यैव च निमित्तं निष्ठां नीतम् / एवमशने पाने खादिमे स्वादिमे च प्रत्येकं चत्वारश्चत्वारो भङ्गा भवन्ति, तत: 'सुद्धमसुद्धे य' त्ति-आषत्वात् शुद्धावशुद्धौ चेति द्रष्टव्यं, तत्र शुद्धौ साधोरासेवनायोग्यौ, तौ च द्वितीयचतुर्थभड़ौ, तथा हिक्रिया या निष्ठा प्रधाना, ततो यद्यपि प्रथमत: साधुनिमित्तं क्रिया प्रारब्धा तथाऽपि निष्ठाम्-अन्यनिमित्तं नीतेति द्वितीयो भङ्गः साधो: कल्पते, चतुर्थस्तु भङ्गः शुद्ध एव न तत्र विवाद: अशुद्धौ अकल्प-नीयौ, तो च प्रथमतृतीयौ तत्र प्रथम एकान्ते- नाशुद्ध एव साध्वर्थ प्रारब्धत्वान्निष्ठितत्वाच, तृतीये तु भङ्गे यद्यपि पूर्वं न साधुनिमित्तं पाकादिक्रियारम्भस्तथापि साधुनिमित्तं निष्ठां नीता, निष्ठा च प्रधानेति न कल्पते। तदेवमाधाकर्मस्वरूपमुक्तम्। पिं० / आधाकर्मण उत्पत्तिःसालीघयगुलगोरस-नवेसु वल्लीफलेसु जातेसु। mo
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy