________________ आधाकम्म 255 अभिधानराजेन्द्रः भाग 2 आधाकम्म मर्थाय कृतं न कल्पते, तुशब्दोऽनुक्तसमुच्चयार्थः, स च श्राव- कस्य एकादशी प्रतिमा प्रतिपन्नस्य तृतीयभङ्गभाविनोऽप्यर्थाय कृतं कल्पत इति समुचिनोति, केचिदाहु:- एकादशी प्रतिमा प्रतिपन्न: साधुकल्प इति तस्याप्यर्थाय कृतं न कल्पते, तदयुक्तं मूलटीकायामस्यार्थस्यासम्मतत्वात्, मूलटीकायां हि लिङ्गामि- ग्रहचतुर्भङ्गिकाविषये कल्प्याऽकल्प्यविधिरेवमुक्त:-"लिंगे नो अभिग्गहे जइ साहू न कप्पइ, गिहत्थनिण्हवे कप्पइ'' त्ति / इह लिङ्गयुता गृहस्था एकादशी प्रतिमा प्रतिपन्ना: श्रावका एव लभ्यन्ते, ततस्तेषामर्थाय कृतंकल्प्यमुक्तम्, 'सेसए भयण' त्ति-शेषकेभङ्गकत्रये भजनाविकल्पना क्वचित् कथंचित्कल्पते, कृचिन्न, भङ्गचतुष्टयमप्यधिकृत्य सामान्यत उदाहरति- "तित्थंकरे' त्यादि, यथेत्युदाहरणोपन्यासार्थः / 'तीर्थकर-केवलिनोऽर्थायं कृतं कल्पते, इह तीर्थकर उत्पन्नकेवलज्ञान एव प्राय: सर्वत्रापि भूमण्डले प्रतीतो भवति। प्रतीतस्य च तीर्थकरस्यार्थाय कृतं कल्पते, नाप्रतीतस्य तत: केवलिग्रहणम्, यदापुन: छद्मस्थावस्थायामपि तीर्थकरत्वेन प्रतीतो भवति / तदा तस्यामप्यवस्थायां तन्निमित्तं कृतं कल्पते, तीर्थग्रहणं च प्रत्येकबुद्धानामुपलक्षणं, तेन तेषामप्यर्थाय कृतं कल्पते, 'नो यसेसाणं' ति- शेषसाधूनामर्थाय कृत न कल्पते, इदं च सामान्यत उक्तम्, ततोऽमुमेवार्थ मुपजीव्य तृतीयवर्जे शेषे भङ्गत्रये भजना स्पष्टमुपदर्शाते प्रवचनत: साधर्मिका न लिङ्गतः, एकादश- प्रतिमाप्रतिपन्नवर्जा, शेषश्रावकास्तेषामर्थाय कृतं कल्पते, ये तु चौरादिमुषितरजोहरणादिलिङ्गा: साधवस्तेषामर्थाय कृतं न कल्पते द्रव्यलिङ्गापेक्षया साधर्मिकत्वाभावेऽपि भावतश्चरणसाध-र्मिकत्वात् लिङ्गत: साधर्मिका न प्रवचनतो निवास्ते यदि लोकेनिह्नवत्वेन ख्यातास्ततस्तेषामर्थाय कृतं कल्पते, अन्यथा न, न प्रवचनतो न लिङ्गतस्तीर्थकरप्रत्येकबुद्धास्तेषामर्थाय कृतं कल्पते, तदेवं प्रथमचतुर्भगिकामधिकृत्य कल्प्याऽकल्प्य-विधिरुक्त एतदनुसारेण च शेषास्वपि चतुर्भनिकासु विज्ञेयः, सच प्रागेव प्रत्येकं दर्शितः। सर्वत्राप्ययं तात्पर्याथाधारणीय:यदि तीर्थकरा: प्रत्येकबुद्धा निवाः श्रावका वा तर्हि तेषामर्थाय कृतं कल्पते / साधूनामर्थाय कृतं न कल्पते / तदेवमुक्तः कल्प्याऽकल्प्यविधि: तदुक्तौ च-'आहाकम्मियनामे - त्यादि मूलद्वारगाथायां 'कस्स वाऽवी ति व्याख्यातम् / पि० / आत्मघ्नपिण्डेजीवं उदिस्स कडं, कंमं सोऽवि य जया उसाहमी। सावि य तइए भंगे, लिंगादीणं न सेसेसु / / 940 // जीवमुद्दिश्य यत् षट्कायविराधनया कृतं सोऽपि च यदि जीव: साधर्मिकः-समानधर्मा भवति सोऽपिच साधर्मिको लिङ्गादीनां लिङ्गत: साधर्मिको न प्रवचनत: इत्यादीनां चतुर्णा भङ्गानां तृतीये भ लिङ्गत:प्रवचनतोऽपीत्येवं लक्षणे यदि वर्तते न शेषेषु तदेतत्- आधाकर्म मन्तव्यम्। अथ तीर्थकरप्रतिमार्थं तन्निर्वतते तत्साधूनां किं कल्पते नवेत्याशङ्कानिरासार्थमाह संवट्टमेहपुप्फा, सत्थनिमित्तं कया जइ जईणं / न हुलब्मा पडिसिद्धं, किं पुण पडिमट्ठमारद्धं // 941 / / शास्ता-तीर्थकरस्तस्य निमित्तं यानि देवैः संवर्तकमेघपुष्पाणि समवसरणभूमौ कृतानि तानि यतीनां यदि प्रतिषेधुं न लभ्यानि तेषां तत्रावस्थातुं यदि कल्पते इति भावः / तर्हि किं पुन: प्रति-मार्थम् - अजीवानां हेतोरारब्धं तत:-पुरातनं प्रतिषेधम-हतीत्यभिप्रायः / आह-यदि तीर्थकरार्थं संवर्तकमेघपुष्पाणि कृतानि तर्हि तस्य भगवतस्तानि प्रतिसेवमानस्य कथं न दोषो भवतीति? उच्यतेतित्थयरनामगोयस्स,खयऽट्ठा अविय दोण्णि साभव्वा। धम्मं कहेइ सत्था, पूर्व वा सेवई तं तु / / 942 / / तीर्थकरनामानो गोत्रस्य कर्मणः क्षयार्थं शास्ता भगवान् धर्म कथयति पूजां च तामनन्तरोक्तां संवर्तकवातप्रभृतिकामासेवते भगवता हि तीर्थकरनामगोत्रं कर्मावश्यं वेदनीयं विपा-कोदयाऽऽवर्तित्वात, तस्यच वेदने अयमेवोपायो यदग्लान्या धर्मदेशनाकरणं सदेवमनुजासुरलोकविरचितायाश्च पूजाया उपजीवनम्। "तं च कहं वेइज्जइ, अगिलाए धम्मदेसणाईहिं" तथा-"उदए जस्स सुराऽसुरनरवइनिवहेहिँ पूइओ लोए / तं तित्थयरं नाम, तस्स विवागो उ केवलिणो" // 1 // इति वचनप्रामाण्यात्, अपिचेत्यभ्युचये, 'दोणि' त्तिनिपातो वाक्या-लङ्कारे, सा भवति। स्वो भाव: स्वभावः, यथा-आपो द्रवा: चलो वायुरित्यादि, तस्य भावः स्वाभाव्यं तस्मात् तस्य हि भगवतः स्वभावोऽयं यत्तथा धर्मकथाविधानं पूजयाश्चाऽऽसेव-नम्। इदमेव स्पष्टतरमखीणकसाओ अरिहा, कय किचो अवि य जीयमणुयत्ती। पडिसेवंतो वि अ तओ अदोसवं होइतं पूर्य / / 943 / / क्षीणा:- प्रलयमुपगताः कषाया:-क्रोधादयो यस्य सः क्षीणकषाय एवंविधोऽर्हन् तां पूजां प्रतिसेवभानोऽपि न दोषवान्, इयमत्र भावनायो हिरागादिमान् पूजामुपजीवन्स्वात्मन्युत्कर्ष मन्यतेस दोषभाग्भवति, भगवतस्तु क्षीणकषायस्य पूजामुप-जीवतोऽपि नास्ति स्वात्मन्युत्कर्षगन्धः; अतो दूरापास्तप्रसरा तस्य सदोषतेति तथा कृतकृत्य:केवलज्ञानलाभान्निष्ठितार्थ: तत: कृतकृत्यत्वादेवाऽसौ पूजामासेवते, न च दोषमापद्यते / अपि च- जीवमुपजीवनीया सुराऽसुरविरचिता पूजेत्येवंलक्षणं कल्पमनुवर्तयितुं शीलमस्यासौ जीवानुवर्ती गाथायां मकारो-इलाक्षणिकः / आह भवत्वेवं परं तीर्थकरस्य तत्प्रतिमाया वा निमित्तं यत्कृतं तत्केन कारणेन यतीनां कल्पते? उच्चयतेसाहमिओ न सत्था, तस्स कय तेण कप्पइ जईणं / जं पुण पडिमाण कयं, कस्स कहा का अजीवत्ता / / 944|| शास्ता-तीर्थकर: सधार्मिको लिङ्गतः प्रवचनतोऽपि न भवति तच लिङ्गमस्य भगवतो नास्ति तथाकल्पत्वात्, अतो