________________ आधाकम्म 254 अभिधानराजेन्द्रः भाग 2 आधाकम्म तुर्भङ्गिका-ज्ञानत: साधर्मिका: न भावनात: भावनात: साधर्मिका न ज्ञानत:, ज्ञानतोऽपि साधर्मिका भावनातश्च, न ज्ञानतो नापि भावनात:, तत्र ज्ञानत: साधर्मिका न भावनात: समानज्ञाना विसदृशभावनाका: साधुश्रावका: 1, भावनात: साधर्मिका न ज्ञानतो विसदृशज्ञाना: समानभावनाका: साधुश्रावका: समानभावना निहवाश्च 2, ज्ञानत: साधर्मिका भावनातश्च समानज्ञानभावनाका: साधुश्रावका: 3. न ज्ञानतो नापि भावनातो विसदृशभावना: साधुश्रावका विसदृशभावना निहवाश्च 4, अत्र चतुर्वपि भङ्गकेषु कल्प्याऽकल्प्यभावना प्रागिव / तदेवं ज्ञानविषया अपि तिसश्चतुर्भङ्गिका उक्ताः। संप्रति चरणेन सह यचतुर्भङ्गिकाद्वयं तदुदाहर्तुमाहएतो चरणेण वोच्छामि ||15|| इत ऊर्ध्वं चरणेन सह ये द्वे चतुर्भङ्गिके तदुदाहरणानि वक्ष्ये, तत्र चरणाभिग्रहयोरियं चतुर्भङ्गिकाचरणत: साधर्मिका नाभि-ग्रहतः अभिग्रहत: साधर्मिका न चरणत:, चरणतोऽपि साधर्मिका अभिग्रहतश्च न चरणतो नाप्यभिग्रहतः। तत्राद्यं भङ्गद्वयमुदाजिहीर्षुराहेजइणो वीसाऽभिग्गह, पढमो बिय निण्ह सावगजइणो उ। चरणत: साधर्मिका नाभिग्रहत इत्येवंरूप: प्रथमो भङ्गः समानधरणा विष्वगभिग्रहा-विभिन्नाभिग्रहा यतयः, अत्र न कल्पते, अभिग्रहत: साधर्मिका न चरणत इत्येवंरूपो द्वितीयो भङ्गः,समानाभिग्रहा निहवा: श्रावका विभिन्नचरणा यतयश्च, अत्र श्रावकाणां निवानां चार्थाय कृतं कल्पते, न यतीनाम् 2, चरणत: साधर्मिका अभिग्रहतश्च समानाभिग्रहचरणा यतयः, अत्रन कल्पते 3, न चरणतो नाप्यभिग्रहत: विसदृशाभिग्रहचरणा: साधवो विसदृशाभिग्राहा: श्रावकनिहवाश्च, अत्र कल्प्याऽ- कल्प्यभावना द्वितीयभङ्ग इव 4 चरणभावनयो रियं चतुर्भङ्गिका- चरणत:साधर्मिकान भावनात: 1, भावनात: साधर्मिका न चरणत: 2, चरणत: साधर्मिका भावनाताश्च 3, न चरणतो नापि भावनात:४। __ अस्या उदाहरणान्यतिदेशत आहएवं तु भावणासु वि, यथा चरणेन सहाभिग्रहे उदाहृतम् एवं भावास्वप्युदाहर्तव्यम्, तचैवम्- | चरणत: साधर्मिका न भावनात: समानचरणविभिन्न-भावना यतयः 1, भावनात: साधर्मिका न चरणत: समानभावना निवाः, श्रावका विभिन्नचरणा यतयश्च 2, चरणत: साधर्मिका भावनातश्च समानचरणभावता यतय: 3, न चरणतो नापि भावनात: विसदृशधरणभावना: साधवो विसदृशभावना: श्रावका निहवाश्च 4, अत्र चतुर्ध्वपि भङ्गकेषु कल्प्याऽकल्प्यविधि: प्रागिवातदेवं चरणविषये अपिद्वेचतुर्भङ्गिकेउक्ते। संप्रत्यभिग्रहभावनयोश्चतुर्भङ्गिका वक्तुकाम आहवोच्छं दोण्हं ति माणित्तो॥२५६ / / इत ऊर्द्ध द्वयोरन्तिमयो:- अभिग्रहणभावनालक्षणयो: पदयोश्चतुर्भङ्गिकामुदाहरणतो वक्ष्ये / तत्र तयोरियं चतुर्भङ्गिकाअभि-ग्रहत: साधर्मिका न भावनात: 1, भावनात: साधर्मिका नाअिग्रहत: 2, भावनात: साधर्मिका अभिग्रहतश्च 3, नाभिग्रहतो नापि भावनात: 4 / तत्राद्यं भङ्गद्वयमुदाजिहीर्षुराहजइणो सावगनिण्हव-पढमे बीए व हुंति भंगे य। अभिग्रहत: साधर्मिका न भावनात: इत्येवंरूपे प्रथमे भङ्गे भावनात: साधर्मिका नाभिग्रहत इत्येवं रूपं द्वितीये च भङ्गे यतय: श्रावका निहवाश्च भवन्ति, केवलं प्रथमभङ्गे समाननिहा विसदृशभावना वेदितव्याः, द्वितीयभङ्गे पुन: समानभावना विसदृशाभिग्रहा: अभिग्रहत: साधर्मिका भावनातश्च समानभावनाभिग्रहा: साधुश्रावकनिसवा:, नाभिग्रहतो नापि भावनातो विसदृशभावनाभिग्रहा: साधुश्रावकनिहवा: / अत्र चतुर्वपि भङ्गेषु श्रावकनिहवानामर्थाय कृतं कल्पते न साधूनामिति। तदेवमुक्ताः 21 एकविंशतिरपि चतुर्भङ्गिकाः। (7) तीर्थकरस्य आधाकर्मभोजित्वम् / संप्रति सामान्यकेव-लिनं तीर्थकरं चाधिकृत्य कल्प्याऽकल्प्यविधिं कथययिन्तकेवलनाणे तित्थं-करस्स नो कप्पइ कयं तु // 157 // केवलज्ञाने-केवलज्ञानिन: सामान्यसाधो: उपलक्षणमेतत् तेन तीर्थकरप्रत्येकबुद्धवर्जानां शेषसाधूनामित्यर्थः, तीर्थकरस्य; तीर्थकरग्रहणमुपलक्षणम्, तेन प्रत्येकबुद्धस्य चार्थाय कृतं यथाक्रमं न कल्पते, तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कल्पतेच। इयमत्र भावनातीर्थकरप्रत्येकबुद्धवर्जशेषसाधूनामर्थाय कृतं न कल्पते, तीर्थकरप्रत्येकबुद्धानां त्वर्थाय कृतं कल्पते, तथा हि-तीर्थकरनिमित्तं सुरैः कृतेऽपि समवसरणे तत्र साधूनां देशनाश्रवणार्थमुपवेशनादिकल्पते, एवं भक्ताद्यपि एवं प्रत्येक-बुद्धस्यापि। संप्रति यानाश्रित्य पूर्वोक्ता भङ्गा: संभवन्ति स्म तान् प्रति पादयति-- पत्तेयबुद्ध निण्हव, उवासए केवलीवि आसज्ज। खइयाइए य भावे, पडुच मंगे उ जोएज्जा / / 158 / / प्रत्येकबुद्धान्-निहदान् उपासकान्-श्रावकानन् केवलिनस्तीर्थकरान् अपिशब्दात्- शेषसाधू श्वाश्रित्य तथा क्षायिकादीन् भावान् क्षायिकक्षयोपशमिकानिदर्शनानि चशब्दाद्विचित्राणि ज्ञानानि चरणाणि अभिग्रहान् भावनाश्च प्रतीत्य भङ्गान् योजयेत्, ते च तथैव योजिताः / तत्र प्रथमचतुर्भङ्गिका प्रवचनलिङ्गविषयामधिकृत्य विशेषत: कल्प्याऽकल्प्यविधिमाहजत्थ उतइओ भंगो, तत्थन कप्पं तु, सेसए भयणा। तित्थंकरकेवलिणो, जहकप्पं नो य सेसाणं // 159 / / यत्र साधर्मि के तृतीयो भङ्ग प्रवचनतः साधर्मि का लिङ्गतश्चेत्येवंरूपस्तत्र न कल्पते, यत: प्रवचनतो लिङ्गतश्च साधर्मिका प्रत्येक बुद्धतीर्थक रवा यतयस्ततस्तेषा