________________ आधाकम्म 253 अभिधानराजेन्द्र: भाग 2 आधाकम्म तत्राद्यं भगद्रयमुदाहरतिदसणनाणे य पढमभंगो उ। जइ सावग वीसुनाणी, एवं चिय बिइयभंगोऽवि / / 13 / / दर्शज्ञाने-दर्शनज्ञानाविषयायां च: समुच्चये, प्रथमो भङ्गो दर्शनत: साधर्मिका न ज्ञानत: इत्येवंरूपो विष्वग्ज्ञानिन:- विभिन्नज्ञाना: समानदर्शना: यतय: श्रावकाच वेदितव्याः तत्र श्रावकाणामर्थाय कृतं कल्पते न यतीनामर्थाय कृतम् / एवमेव ज्ञानत: साधर्मिका न दर्शनत इत्येवंरूपो द्वितीयभङ्गोऽपि ज्ञातव्यः; तत्राऽपि यतयः श्रावकाश्च वेदितव्या इत्यर्थः केवलं विभिन्नदर्शना: समानज्ञानाः, अत्रापि कल्प्याऽकल्प्यविधि: प्रागिव, ज्ञानत: साधर्मिका दर्शनतश्च समानज्ञाना: समानदर्शना यतयः श्रावकाच, अत्राऽपि कल्प्याऽकल्प्यविधिः प्राग्वत्, न ज्ञानतो नापि दर्शनतो विसदृशज्ञानदर्शना: साधव: श्रावका निह्नवाश्च, अत्र श्रावक-निह्ववानामर्थाय कृतं कल्पते न साधूनाम् / दर्शनचरणयोश्चतुर्भङ्गिकात्वियम्दर्शनत: साधर्मिका न चरणत: 1, चरणत: साधर्मिका नदर्शनत:२, दर्शनतोऽपि साधर्मिकाश्चरणतश्च 3, न दर्शनतो नापि चरणत:४१ तत्राऽऽद्यं भङ्गद्रयमुदाहरतिदसंणचरणे पढमो, सावग जइणो य बीयभंगो उ। जइणो विसरिसदंसी, दंसे य अभिग्गहे वोच्छं।।१५४।। दर्शनचरणे-दर्शनचरणचतुर्भङ्गिकायां प्रथमो भङ्गो दर्शनत: साधर्मिका न चरणत इत्येवंरूप: समानदर्शना: श्रावका विसदृशचरणा यतयश्च, अत्र श्रावकाणामर्थाय कृतं कल्पते न यतीनामर्थाय कृतम् 1, द्वितीयो भङ्गणापुनश्चरणत: साधर्मिका न दर्शनत: इत्येवंरूप: विसदृशदर्शना: समानचारित्रा, यतयः एतेषामर्थाय कृतं न कल्पते 2, दर्शनत: साधर्मिकाश्चरणतश्च समानदर्शनचरणा यतय: अत्रापि न कल्पते 3, न दर्शनतो नापि चरणतो निहवा विसदृशदर्शना श्रावका विसदृशचरणा यतयश्च, तत्र निह्नवश्रावकाणामर्थाय कृतं कल्पते न यतीनाम्, दर्शनाभिग्रहयोरियं चतुर्भङ्गिकादर्शनत: साधर्मिका नाभिग्रहतः 1, अभिग्रहत: साधर्मिका न दर्शनत: 2, दर्शनत: साधर्मिका अभिग्रहतश्च 3, न दर्शनतो नाप्यभिग्रहत: 4, तत्राद्यं भङ्गद्व- यमुदाजिहीर्षुरिदमाह'दसण' इत्यादि, दर्शने अभिग्रहे चाद्य-भङ्गद्वयमधिकृत्योदाहरणं वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिसावग जइ वीसऽभिग्गह-पढमो बीओय समानदर्शना: विष्वगभिग्रहा:-विभिन्नाभिग्रहा: श्रावका यतयश्चदर्शनत: साधर्मिका नाभिग्रहत एवंरूप: प्रथमो भङ्गः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते, नयतीनां, द्वितीयोऽपि भङ्गोऽभिग्रहत:साधर्मिका न दर्शनत | इत्येवंलक्षण: श्रावकयतिरूप एव, केवलं ते यतयः श्रावकाश्च विसदृशदर्शना: समानाभिग्रहा वेदितव्याः, उपलक्षणमेतत, तेन निहवाश्च समानाभिग्रहा ज्ञातव्याः / अत्र श्रावकनिहानामर्थाय कृतं कल्पते न यतीनां, दर्शनत: साधर्मिका अभिग्रहतश्च समानदर्शनाभिग्रहा: साधु श्रावका:, अत्रापि श्रावकाणामर्थाय कृतं कल्पले न साधूनां, दर्शनतो नाप्यभिग्रहतो विसदृशदर्शनाभिग्रहा: साधुश्रावक-निहवाः, अत्र कल्प्याऽकल्प्यविधिर्द्वितीयभङ्गवत् / दर्शन-भावनयोरियं चतुर्भङ्गिकादर्शनत: साधर्मिकान भावनातो१, भावनात: साधर्मिका न दर्शनत: 2, दर्शनतोऽपि साधर्मिका भावनातश्च 3, न दर्शनतो नाऽपि भावनात: 4 // अस्या आद्यभङ्गद्वयोदाहरणातिदेशार्थमाहभावणा चेवं। यथा दर्शनेन अभिग्रह उदाहृत एवं भावनाऽप्युदाहर्त्तव्या, सा चैवम् - दर्शनत: साधर्मिका न भावनात:, विसदृशभावनाका: समानदर्शना: श्रावका यतयः 1, भावनात: साधर्मिका न दर्शनतो विसदृशदर्शनसमानभावनाका: साधवः श्रावका निवाश्च 2, दर्शनत: साधर्मिका भावनातश्च समानदर्शनभावनाका: साधु-श्रावका: 3, न दर्शनतो नापि भावनातो विसदृशदर्शनभावनाका: साधुश्रावकनिवा: 4. अत्र चतुर्ध्वपि भङ्गेषु कल्प्याऽकल्प्यविधिः प्रागिव / तदेवं दर्शनविषया अपि चतस्रश्चतुर्भङ्गिका उक्ता:। संप्रति ज्ञानस्य चारित्रादिभिः सह वक्तव्याः / ताश्चाऽतिदेशेनाहनाणेण विनेज्जेवं, यथा दर्शनेन सह चतस्रश्चतुर्भङ्गिका उक्ताः एवं ज्ञानेनापि सह चारित्रादीनि पदानि अधिकृत्य तिस्रश्चतुर्भङ्गिका भावनीयाः / अतीवेदं संक्षिप्तमुक्तमत: स्पष्टं विवियते- ज्ञानचरणयोरियं चतुर्भङ्गिकाज्ञानत: साधर्मिका न चरणत: 1, चरणत: साधर्मिका न ज्ञानत: 2, ज्ञानतोऽपि साधर्मिकाश्चरणतश्च 3, न ज्ञानतोऽपि नापि चरणत: 4 / तत्र ज्ञानत: साधर्मिका न चरणत:, समानज्ञाना: श्रावका: विसदृशचरणसमानज्ञाना यतयश्च, अत्र श्रावकाणामय कृतं कल्पतेन यतीनाम् 1, चरणत: साधर्मिका न ज्ञानतो विसदृशज्ञाना: समानचरणयतयः, अत्र न कल्पते 2, ज्ञानत: साधर्मिकाश्चरणतश्च समानज्ञानचरणा: यतयः, अत्रापिन कल्पते३, न ज्ञानतो नापिचरणतो विसदृशज्ञानचरणा यतयो विसदृशज्ञाना: श्रावका निहवाश्च, अत्र श्रावकनिहवानामर्थाय बंत कल्पते, न यतीनाम् ज्ञानाभिग्रहयोरियं चतुर्भभिका- ज्ञानत: साधर्मिका नाभिग्रहत: 1, अग्रिहत: साधर्मिका न ज्ञानत: 2, ज्ञानतोऽपि साधर्मिका अभिग्रहतश्च 3, न ज्ञानतो नाप्यभिग्रहत:४। तत्र ज्ञानत: साधर्मिका नाभिग्रहत: समानज्ञाना विसदृशाभिग्रहा: साधुश्रावका: अत्र श्रावकाणामर्थाय कृतं कल्पते, न साधूनाम् 1, अग्रिहत: साधर्मिका न ज्ञानतो विसदृशज्ञाना: समानाभिग्रहा: साधुश्रावका: समानाभिग्रहा निवाश्च, अत्रापि श्रावकनिहवानामर्थाय कृतं कल्पते न साधूनाम् 2, ज्ञानत: साधर्मिका अभिग्रहतश्च समानज्ञानाभिग्रहा: साधुश्रावकाः, अत्र कल्प्याऽक-ल्प्यविधि: प्रथमभङ्ग इव 3, न ज्ञानतो नाप्यभिग्रहतो विसदृश-ज्ञानाभिग्रहा: साधुश्रावका विसदृशाभिग्रहा निहवाश्च अत्र द्वितीय भङ्गे इव कल्प्याऽकल्प्यभावना 4, ज्ञानभावनयोरियं च