________________ आधाकम्म 252 अभिधानराजेन्द्रः भाग२ आधाकम्म नज्ञानादिभि: पदै: सह याश्चतुर्भङ्गिकास्ता: पूर्वोक्तानु- सारेणोदाहरेत्, अतीवेदं संक्षिप्ततरमुक्तम्, अत: न्यक्षेण विव-क्षुरिंदमाह- 'जेऽनन्ने' इत्यादि, ये अनन्ये उदाहरणापेक्षया अन्यदृशा न भवन्ति भङ्गास्तान मुक्त्वा शेषकान् भङ्गकान् एवं वक्ष्यमाणप्रकारेण जानीत, इयमत्र भावना- इह लिङ्गदर्शनयोर्ये चत्वारो भङ्गा: सोदाहरणा वक्ष्यन्तेतादृशा एव प्राय उदाहरणा-पेक्षया लिङ्गज्ञानलिङ्गचरणयोरपि भङ्गाः ततस्तान् मुक्त्वा लिङ्ग-दर्शनलिङ्गाभिग्रहादिसत्कान् भङ्गानुदाहरिष्यामीति, तत्र लिङ्ग-दर्शनयोरियं चतुर्भङ्गिका, लिङ्गत्त:साधर्मिका नदर्शनत: दर्शनत: साधर्मिका न लिङ्गत:, लिङ्गतोऽपि साधर्मिका दर्शनतश्च, न लिङ्गतो | नापि दर्शनत:। तत्राऽऽद्यं भङ्गद्वयमुदाहरतिलिंगेण उ साहंमी, न दंसणे वीसुदंसि जइ निण्हा। पत्तेयबुद्धतित्थं-करा य बीयंमि भंगम्मि ||151 / / लिङ्गेन साधर्मिका: 'न दंसणे' इत्यत्र तृतीयार्थे सप्तमी न दर्शनेन, | विष्वगदर्शना-विभिन्नदर्शना यतयो निहवाश्च उप- लक्षणमेतद्विभिन्नदर्शना एकादशप्रतिमाप्रतिपन्ना: श्रावकाश्च तत्र निहवा मिथ्यादृष्टित्वात् नदर्शनत: साधर्मिका: अत्र च निहवानां श्रावकाणां चार्थाय: कृतं कल्पते न यतीनां, द्वितीये भङ्गे दर्शनत: साधर्मिका न लिङ्गत: इत्येवंरूपे प्रत्येकबुद्धास्तीर्थकृत: एका-दशप्रतिमाप्रतिपन्नवर्जा श्रावकाश्च समानदर्शना ज्ञेया:, तेषामर्थाय कृतंकल्पते; शेषं भङ्गद्वयं वयमुदाहराम:, लिङ्गत: साधर्मिका दर्शनतश्च समानदर्शना: साधव एकादशी प्रतिमा प्रतिपन्ना: श्रावकाच, अत्रापि श्रावकाणामर्थाय कृत कल्पते न साधूनां, न लिङ्गतो नापि दर्शनतो विसदृशदर्शना: प्रत्येकबुद्धतीर्थकरा एकादशप्रतिमाप्रतिपन्नवर्जाः श्रावकाश्च तेषामर्थाय कृतं कल्पते, लिङ्गज्ञानचतुर्भङ्गिका त्वेवम्- लिङ्गत: साधर्मिका न ज्ञानत:, ज्ञानत: साधर्मिका न लिङ्गत: लिङ्गत: साधर्मिका ज्ञानतश्च, न लिङ्गतो नाऽपि ज्ञानतः अस्याश्चतु- भङ्गिकाया आद्यभङ्गद्वयोदाहरणानि प्रायो लिङ्गदर्शनचतुर्भङ्गिकाद्य-द्वयसदृशानीति कृत्वा नियुक्तिकृन्नोदाहरति, ततो वयमे- वोदाहराम:- लिङ्गत: साधर्मिका न ज्ञानत: विभिन्नज्ञाना यतय एकादशी प्रतिमा प्रतिपन्ना: श्रावका निहवाश्च, अत्रापि श्रावकाणां निह्रवानां चार्थाय कृतं कल्पते न यतीनां, ज्ञानत: साधर्मिका न लिङ्गत: समानज्ञानास्तीर्थकरप्रत्येकबुद्धा एकादश प्रतिमावर्जा: श्रावकाश्च, तेषामर्थाय कृतं कल्पते, लिङ्गत: साधर्मिका ज्ञानतश्च समानज्ञाना: साधव एकादशी प्रतिमा प्रतिपन्ना श्रावकाच अत्राऽपि श्रावकाणामर्थाय कृतं कल्पते न यतीनां, न लिङ्गतो नाऽपि ज्ञानतो विभिन्नज्ञाना: प्रत्येकबुद्धतीर्थकरा: एका- दशप्रतिमाप्रतिपन्नवर्जाः श्रावकाच एतेषामर्थाय कृतं कल्पते, / लिङ्गचरणयोरियं चतुर्भङ्गिका, लिङ्गत: साधर्मिका न चरणत: 1, चरणत: साधर्मिका न लिङ्गत: 2, लिङ्गत: साधर्मिकाश्चरणतश्च 3, न लिङ्गतो नापि चरणत: 4 अस्या अपि चतुर्भङ्गिकाया उदाहरणानि प्राय: पूर्वसदृशानीति कृत्वा नियुक्तिकृत् नोदाहृतवान् ततोऽहमेवोदाहरामिलिङ्गत: साधर्मिका न चरणतो विभिन्नचारित्रा यतयः एकादशी प्रतिमा प्रतिपन्नाः श्रावका निवाश्च, अत्र श्रावकाणां निह्नवानां चार्थाय कृतं कल्पते न यतीनां, चरणत: साधर्मिका न लिङ्गतः, प्रत्येकबुद्धास्तीर्थकृतश्च समानचारित्रा:, तेषामर्थाय कृतं साधूनां कल्पते, लिङ्गत: साधभिकाश्चरणतश्च समानचारित्रा यतयः, तेषामर्थाय कृतं न कल्पते, न लिङ्गतो नापि चरणतो विसदृशचरणा: प्रत्येक-बुद्धतीर्थकरा एकादशप्रतिमावर्जा: श्रावकाच, तेषामर्थाय कृतं कल्पते। लिङ्काभिग्रहयोश्चतुर्भङ्गिका इयम्लिङ्गतः साधर्मिका नाभिग्रहतः१, अभिग्रहत: साधर्मिका न लिङ्गत: 2, लिङ्गतः साधर्मिका अभिग्रहतश्च ३,न लिङ्गतो नाप्यभिग्रहत: 4 / तत्राद्यं भङ्गद्वयमुदाहरतिलिंगेण उनाभिग्गह, अणभिग्गह वीसऽभिग्गही चेव / जइ सावग बीयभंगे, पत्तेयबुहा य तित्थयरा ||152 / / लिङ्गेन साधर्मिका नाभिग्र हतोऽनभिग्रहाः, यद्रा- विष्वगअभिग्रहिणो-विभिन्नाभिग्रहकलिता यतय एकादशी प्रतिमा प्रतिपन्ना श्रावकाच वेदितव्या:, उपलक्षणमेतत् निहवाश्च, अत्रापि निहवानां श्रावकाणां चार्थाय कृतं कल्पतेन यतीनाम्१, अभिग्रहत: साधर्मिकान लिङ्गत: इत्येवंरूपे द्वितीये भने प्रत्येकबुद्धास्तीर्थकराश्चशब्दादेकादशप्रतिमावर्जा: श्रावकाश्च समानाभिग्रहा द्रष्टव्या: एतेषामर्थाय कृतं कल्पते 2, लिङ्गत: साधर्मिका अभिग्रहतश्च समनाभिग्रहा: साधव एकादशी प्रतिमा प्रतिपन्नाः श्रावका निहवाश्च, अत्रापि श्रावकनिहवानामर्थाय कृतं कल्पते न यतीनाम् 3, न लिङ्गतो नाप्यभिग्रहतश्च विसदृशा-भिग्रहास्तीर्थकरप्रत्येकबुद्धैकादशप्रतिमावर्जश्रावका:, एतेषा-मर्थाय कृतं कल्पते / लिङ्गभावनयोरियं चतुर्भनिकालिङ्गत: साधर्मिका न भावनात:, भावनात: साधर्मिका न लिङ्गत:, लिङ्गत: साधर्मिका भावनातच, न लिङ्गतो नापि भावनातः / तत्रास्था उदाहरणान्यतिदेशेनाहएवं लिङ्गेण भावण, यथा लिङ्गे अभिग्रहेण भङ्गेषूदाहृतमेवं भावनयाऽप्युदाहर्तव्यम् / तचैवम् - लिङ्गत: साधर्मिका न भावनात; भावनारहिता विष्वगभावना वा यतय एकादशी प्रतिमा प्रतिपन्ना: श्रावका निवाश्च / अत्र श्रावकनिहवानामर्थाय कृतं कल्पते न साधूनाम-र्थाय 1, भावनात: साधर्मिका न लिङ्गत: प्रत्येकबुद्धास्तीर्थकृत एकादशी प्रतिमा प्रतिपन्ना: श्रावकाश्च समानभावनाका: एतेषामर्थाय कृतं कल्पते 2, लिङ्गत: साधर्मिका भावनातश्च समानभावनाका: साधव एकादशी प्रतिमा प्रतिपन्नाः श्रावका निहवाश्च अत्रापि श्रावकनिहवानामर्थाय कृतं कल्पते न यतीनाम् 3, न लिङ्गतो नापि भावनातो विसदृशभावना- कास्तीर्थकरप्रत्येकबुद्धैकादशप्रतिमावर्जश्रावका:, एतेषामर्थाय कृतं कल्पते, तदेवं लिङ्गविषयाः पञ्च चतुर्भगिका उक्ताः। संप्रति दर्शनस्य ज्ञानादिभिः सह वक्तव्यास्तत्र दर्शनज्ञानयोरियं चतु-भङ्गिका-दर्शनत: साधर्मिका न ज्ञानत: 1, ज्ञानत: साधर्मिका न दर्शनतः 2, दर्शनतोऽपि साधर्मिका ज्ञानतश्च 3, न दर्शनतो नाऽपि ज्ञानतः / /