________________ आधाकम्म 251 अभिधानराजेन्द्रः भाग 2 आधाकम्म तु सुखाववोधाय उदाहरिष्यामः, तत्रास्यामेव प्रथमचतुर्भङ्गि- कायां प्रवचनत: साधर्मिका लिङ्गतश्चेति तृतीयभङ्गे उदाहरणं साधव: एकादशी प्रतिमा प्रतिपन्ना श्रावका वा, तत्र साधूना- मर्थाय कृतं न कल्पते, श्रावकाणां त्वर्थाय कृतं कल्पते, न प्रवचनतः साधर्मिका नाऽपि लिङ्गतस्तीर्थकरप्रत्येकबुद्धा तेषां प्रवचनलिङ्गातीतत्वात् तेषामर्याय कृतं कल्पते, द्विती-याचतुर्भङ्गिका-प्रवचनत: साधर्मिका, न दर्शनतः , | दर्शनत: साधर्मिका न प्रवचनत:, प्रवचनत: साधर्मिका दर्शनतश्च / न / प्रवचनतो न दर्शनतः। तत्राद्यभङ्गद्वयोदाहरणमाहविसरिसदसणजुत्ता, पवयणसाहम्मियानदंसणओ। तित्थगरा पत्तेया, नो पवयणदंससाहम्मी॥१४॥ प्रवचनत: साधर्मिका नदर्शनतो, विसदृशदर्शनयुक्ताः- विभिन्नक्षायिकादिसम्यक्त्वयुक्ता: साधवः श्रावका वा किमुक्तं भवति-एकेषां साधूनां श्रावकाणां वा क्षायोपशमिकं दर्शनमपरेषां त्यौपशमिकं क्षायिकं वा ते परस्परं प्रवचनत: साधर्मिका नदर्शनत:,तत्र साधूनामर्थाय कृतंसाधूनां न कल्पते, श्रावकाणां त्वर्थाय कृतं कल्पते, तथा दर्शनत: साधर्मिकान प्रवचनतः, तीर्थकरा: प्रत्येकबुद्धा वा समानदर्शना वेदितव्याः, तेषामर्थाय कृतं साधूनां कल्पते, प्रवचनत: साधर्मिका दर्शनतश्च, साधवः श्रावका वा समानदर्शनाः, अत्रापि साधूनामर्थाय कृतं साधूनां न कल्पते, श्रावकाणां त्वर्थाय कृतं कल्पते, न प्रवचनतो नापि दर्शनस्तीर्थकरप्रत्येकबुद्धनिह्नवाः, तत्र तीर्थकरा: प्रत्येकबुद्धाश्च विभिन्नदर्शना वेदितव्याः, निहवाश्च मिथ्यादृष्टयः प्रतीता एव, एतेषां च सर्वेषामर्थात कृतं कल्पते, तृतीया चतुर्भङ्गिका-प्रवचनत: साधर्मिका न ज्ञानत:, ज्ञानतः साधर्मिका न प्रवचनत:, प्रवचनातेऽपि साधर्मिका ज्ञानतश्च, न प्रवचनतो नापि ज्ञानत:, एवं चतुर्थ्यपि चतुर्भङ्गिका प्रवचनस्य चारित्रेण सह वेदितव्या। एतयोर्द्वयोरपि चतुर्भङ्गिकयोराधभङ्गद्रयमतिदेशेनोदाहरतिनाणचरित्ता एवं, नायव्वा हॉति पवयणेणं तु॥ यथा प्रवचनेन सहदर्शनमुक्तमेवं ज्ञानचारित्रे अपि प्रवचनेन सह ज्ञातव्ये, तद्यथा-प्रवचनत: साधर्मिका न ज्ञानत: विसदृशज्ञानसहिता: साधवः श्रावका वा, अत्रापि यदि साधवस्तर्हि न कल्पते, अथ श्रावकास्तर्हि कल्पते, ज्ञानतः साधर्मिका न प्रवचनत: तीर्थकरा: प्रत्येकबुद्धा वा समानज्ञाना: तेषामर्थाय कृतं कल्पते, प्रवचनत: साधर्मिका ज्ञानतश्च, साधवः श्रावका वा समानज्ञाना: अत्रापि साध्वर्थ कृतं न कल्पते, श्रावकाणां त्वर्थाय कृतं कल्पते न प्रवचनतो नाऽपि ज्ञानत: तीर्थकरप्रत्येकबुद्धनिवाः, तत्र तीर्थकरा: प्रत्येकबुद्धाश्च विभिन्नज्ञाना वेदितव्या, निवास्तु मिथ्यादृष्टित्वादज्ञानिन: प्रतीता एव, एतेषां सर्वेषामप्यर्थाय कृतं कल्पते, तथा प्रवचनत: साधर्मिका न चारित्रत: साधवः श्रावकाच, तत्र साधवो विसदृशचारित्रसहिता वेदितव्याः, श्रावकाणां त्वरितसम्यग्दृष्टीनां सर्वथा विरत्यभावेन देशविरतानां तु देशचारित्रतया चारित्रत: साधर्मिकत्वाभाव: सुप्रतीत: साध्वर्थं चेत् कृतं न कल्पते, श्रावकार्थं चेत्तर्हि कल्पते, चारित्रत: साधर्मिका न प्रवचनत: तीर्थकर प्रत्येकबुद्धा: समानचारित्राः, तेषामर्थाय कृंत कल्पते प्रवचनत: साधर्मिकाश्चारित्रतश्च साधवः समानचारित्राः, तेषा-मर्थाय कृतं न कल्पते, न प्रवचनतो नापि चारित्रतस्तीर्थ-करप्रत्येकबुद्धनिहवाः, तत्र तीर्थकरप्रत्येकबुद्धा विसदृशचारित्रा वेदितव्याः, निहवास्त्वचारित्रिण एवं एतेषां च सर्वेषामप्यर्थाय कृतं कल्पते। पञ्चमी चतुर्भङ्गिकाप्रवचनत: साधर्मिका नाऽभिग्रहतः, अभिग्रहत: साधर्मिका न प्रवचनत: प्रवचनतोऽपि साधर्मिका अभिग्रहतश्च, न प्रवचनतोऽपि नाप्यभिग्रहतच, एवं षष्ट्यपि चतुर्भङ्गिका प्रवचनस्य भावनया सह वेदितव्या। एतयोर्द्वयोरपि चतुर्भङ्गिकयो: प्रत्येक माद्यं भगद्वयमुदाहरतिपवयणओ साहमी, नाभिग्गहसावगा जइणो॥१४८| साहम्मऽभिग्गहेणं, नो पवयणनिण्हतित्थ पत्तेया। एवं पवयणभावण, एत्तो सेसाण वोच्छामि // 149 / / प्रवचनत: साधर्मिका नाभिग्रहत: श्रावका यतयश्च विस-दृशाभिग्रहसहिताः, तत्र श्रावकाणामर्थाय कृतं कल्पते न साधूनाम, अभिग्रहेण साधर्मिका न प्रवचनेन, निह्रवतीर्थकर-प्रत्येकबुद्धाः, एतेषां चाय कृतं कल्पते, प्रवचनत: साधर्मिका अभिग्रहतश्च साधवः श्रावकाच समानाभिग्रहाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न साधूनां, न प्रवचनतोनाऽप्य-भिग्रहत:, तीर्थकरप्रत्येकबुद्धनिहवा विसदृशाभिग्रहकलिता निरभिग्रहावा, तेषामर्थाय कृतं कल्पते, एवम् -'पवयणभावण' त्ति- एवंपूर्वोत्तेन प्रकारेण प्रवचनभावनेति प्रवचनभावना चतुर्भङ्गिका भावनीया तद्यथा- प्रवचनत: साधर्मिका न भावनातः, साधव: श्रावका वा विसदृशभावनाकाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते; न साधूनां भावनात: साधर्मिकान प्रवचनत: निहवतीर्थकरप्रत्येकबुद्धास्तेषामर्थाय कृत कल्पते, प्रवचनत: साधर्मिका भावनातश्च, साधवः श्रावकाश्च समानभावनाका:, तत्र श्रावकाणामर्थाय कृतं कल्पते न साधूनां, न प्रवचनतोनापि भावनातस्तीर्थकरत्येकबुद्धनिह्नवा विसदृशभावनाका:, एतेषामर्थाय कृतं कल्पते, तदेवमुक्तानि प्रवचना-श्रितानां षण्णां चतुर्भङ्गिकानामुदाहरणानि- 'एत्तो सेसाण वोच्छामि' त्ति-इत ऊर्ध्व शेषाणां चतुर्भङ्गिकानामुदाहरणानि वक्ष्ये। प्रतिज्ञातमेवातिदेशेन निर्वाहयतिलिंगाईहि वि एवं, एकेकेणं तु उवरिमा नेया। जेऽनन्ने उवरिल्ला , ते मोत्तुं सेसए एवं / / 150 / / 'लिंगाईहि वि' इत्यत्र सप्तम्यर्थे तृतीया; ततोऽयमर्थ:-एवंपूर्वोक्तेन प्रकारेण लिङ्गादिष्वपि लिङ्गदर्शनप्रभृतिष्वपि पदेषु एकै केन लिङ्गादिना पदने उपरितनानि-दर्शनज्ञानप्रभृतीनिपदानि नयेत्, कि मुक्तं भवति ? लिङ्गदर्शनप्रभृतिषु पदेषु दर्श