________________ आधाकम्म 250 अभिधानराजेन्द्रः भाग 2 आधाकम्म णात् यदा पुनस्तीर्थकरप्रत्येकबुद्धसंकल्पनेन कृतं तदा कल्पते, तीर्थकरप्रत्येकबुद्धानां सङ्घातीतत्वेन सङ्घमध्यवर्तिभिः साधुभिः सह साधर्मिकत्वाभावात् : "संजयाणउ विसरिसना- माण वि न कप्पे" इति वचनाचार्थापत्त्या यावन्तो देवदत्ता इत्यादौ विसदृशचैत्रादिनाम्नां साधूनां कल्पत एवेति प्रतिपादितं द्रष्टव्यम् / तदेवमुक्तो नाम साधर्मिकमधिकृत्य कल्प्याऽ- कल्प्यविधिः / संप्रति स्थापनाद्रव्यसाधर्मिकावधिकृत्य तमाहनीसमनीसावकडं,ठवणा साहमियम्मि उविभासा। दवे मयतणुभत्तं,न तं तु कुच्छा विवज्जेज्जा ||144 // इह कोऽपि गृही गृहीतप्रव्रज्यस्य मृतस्य जीवतो वा पित्रादे: स्नेहवशत्प्रतिकृतिं कारयत्विा तत्पुरतो ढौकनाय बलिं निष्पादयति, तनिष्पादनं च द्विधा, तद्यथा-निश्रया, अनिश्रया च / तत्र ये रजोहरणादिवेषधारिणो मत्पितृतुल्यास्तेभ्यो दास्या-मीति संकल्प्य निष्पादयति। तदा तद्वलिनिष्पादनं निश्राकृतमुच्यते, यदा त्वेवंविध: संकल्पो न भवति, किन्त्वे- वमेव ढौकनाय बलिं निष्पादयति / तदा तद्गलिनिष्पादन-मनिश्राकृतमुच्यते, तथा चाह-"नीसमनीसाव कडं'' इह प्रथमातृतीयार्थे वेदितव्या ततोऽयमर्थ:- निश्रया अनिश्रया वा यत्कृत-निष्पादितं भक्तादिस्थापनासाधर्मिकविषये / तत्र विभाषा कर्तव्या, यदि निश्श्राकृतं तदपि च ढौकितमढौकितं वा तर्हि न कल्पते, अनिश्राकृतं तु ढौकितमढौकितं वा कल्पते, परंतत्रापि प्रवृत्तिदोषप्रसङ्ग इति पूर्वसूरयो निषेधमाचक्षते, तथा द्रव्ये-द्रव्यसाधर्मिकविषये यत् मृततनुभत्तं तत्कालं मृतस्य साधोर्या तनुस्तस्याः पुरतो ढौकनाय यदशनादि तत्, पुत्रादिना कृतं तत् मृततनुभक्तं तदपि द्विधानिश्राकृतम्, अनिश्राकृतं च / तत्र साधुभ्यो दास्यामीति संकल्प्यकृतं निश्राकृतम्, इतरत्तु स्वपित्रादिभक्तिमात्रकृतमनिश्राकृतं तत्र यन्निश्राकृतं तनिषेधयति-नैव कल्पते, इतरत्तु अनिश्राकृतं कल्पते, किंतु तद्ग्रहणे लोके जुगुप्सा-निन्दा प्रवर्तते, यथा अहो अमी भिक्षवो नि:शूका मृततनुभक्तमपि न परिहरन्तीति ततो विवजयन्ति तत्साधवः / संप्रति क्षेत्रकालसाधर्मिकावधिकृत्यातिदेशेन कल्प्याऽकल्प्यविधिमाहपासंडियसमणाणं, गिहिनिग्गंथाण चेव उ विभासा। जह नामम्मि तहेव य,खेत्ते काले य नायव्वं / / 145 / / यथा नाम्नि-नामसाधर्मिकविषये पाषण्डिनां श्रमणानां 'गिहि' त्ति"सूचनात् सूत्रमि'' तिन्यायात् गृह्यगृहिणा निर्ग्रन्थानां च विभाषा कृता तथा क्षेत्रे काले च विभाषणं ज्ञातव्यं, तत्र क्षेत्रं-सौराष्ट्रादिकं काल:दिनपौरुष्यादिकः तत्र क्षेत्रविषये विभाषा एवम् यदि सौराष्ट्रदेशोत्पन्नेभ्यः पाषण्डिभ्यो मया दातव्यमिति संकल्प: तदा सौराष्ट्र देशोत्पन्नस्य साधो कल्पते, सौराष्ट्रदेशोत्पन्नत्वेन तस्यापि संकल्पविषयीकरणात्, शेषदेशोत्पन्नानां तु कल्पते, तेषां संकल्पविषयीकरणाभावात्, यदि पुन: सौराष्ट्रदेशोत्पन्नेभ्य: पाषण्डिभ्य: सरजस्केभ्यः, यदि वा-सौगतेभ्य: यद्वा- साधुव्यतिरेकेण सर्वपाषण्डिभ्यो दास्यामीति संकल्पस्तदा सौराष्ट्रदेशोत्पन्नस्यापि साधो: कल्पते, तस्य संकल्पाक्रोडीकरणात्, एवं श्रमणेष्वपि सामान्यत: संकल्पितेषु न कल्पते, साधुव्यतिरेका तु संकल्पितेषु कल्पते तथा गृह्यगृहिषु सामान्यत: सौराष्ट्रदेशोत्पन्नत्वेन संकल्पितेषु न कल्पते, केवलेषु तु गृहिषु कल्पते, निर्ग्रन्थेषु तु सौराष्ट्रदेशोत्पन्नेषु असौराष्ट्रदेशोत्पन्नेषु वा संकल्पितेषु सौराष्ट्रदेशोत्पन्नानामन्यदेशोत्पन्नानां वा सर्वथा न कल्पते, तदेवं क्षेत्रसाधार्मिकेविभाषा भाविता, एवं कालसाधार्मिकपि भावनीया, यथा विवक्षितदिनजातेभ्य: पाषण्डिभ्यो मयादातव्यमिति संकल्पिते तस्यापि तद्दिनजातस्य साधो: न कल्पते, तस्यापि तद्दिन-जातत्वेन संकल्पविषयीकरणात्, शेषदिनजातानां तु कल्पते, संकल्पविषयीकरणाऽभावात् इत्यादि सर्व पूर्वोक्तानुसारेण भावनीयम्, प्रवचनादिपदसप्तकेपुनरेवं पूर्वाचार्यव्याख्याप्रवचनलिङ्गदर्शनज्ञानचारित्राभिग्रहभावनारूपेषु सप्तसु पदेषु द्विसंयोगभङ्गा एकविंशतिः, तद्यथा-प्रवचनस्य लिङ्गेन सह एको, दर्शनेन सह द्वितीयो, ज्ञानेन सह तृतीयः, एवं यावत् भावनया सह षष्ठ इति षड् भङ्गाः एवं लिङ्गस्य दर्शनादिभिः सह पञ्च, दर्शनस्य ज्ञानादिभिः सह चत्वारः, ज्ञानस्य चारित्रादिभिः सह त्रय:, चारित्रस्याभिग्रहभावनाभ्यां द्वौ अभिग्रहस्य भावनया सहैक इत्येक विंशतिः, एतेषु च एकविंशतिसंख्येषु भङ्गेषु प्रत्येकमेवैका: चतुर्भङ्गिका:, तद्यथा-प्रवचनत: साधर्मिको न लिङ्गत:, लिङ्गत: साधर्मिको न प्रवचनत:, प्रवचनत: साधर्मिको लिङ्गतश्च न प्रवचनतो न लिङ्गतश्च शेषेषु भङ्गेषु यथास्थानं चतुर्भङ्गिका दर्शयिष्यते। तत्र प्रथमचतुर्भङ्गिकाया आद्यभङ्गद्वयोदाहरणमुपदर्शयतिदस ससिहागा सावग, पवयण साहम्मियान लिंगेणं। लिंगेण उसाहंमी, नो पवयण निण्हगा सय्वे |146 / / प्रवचनत: साधर्मिका न लिङ्गेन अविरसम्यग्दृष्टेरारभ्य यावद्दशमी श्रावक प्रतिमा प्रतिपन्ना ये श्रावकास्ते द्रष्टव्याः, कुत इत्याह-'दस ससिहागा' इत्यत्र "निमित्तकारणहेतुषु सर्वासां विभिक्तीनां प्रायो दर्शनम्" इति न्यायाद्धेतौ, प्रथमा, ततोऽयमर्थः-यतस्ते दशमी श्रावकप्रतिमा प्रतिपन्नाः, सशिखाका:- शिखासहिता: वेशसहिता एवेत्यर्थः ततस्ते प्रवचनत एव साधर्मिका भवन्ति: न लिङ्गतः, ये त्वेकादशी श्रावक प्रतिमा प्रतिपन्नास्ते निष्केशा इत्यादिना लिङ्गतोऽपि साधर्मिका भवन्तीति तद्विवजनम् एतेषां चार्थाय यत् कृतं तत्साधूनां कल्पते, तथा लिङ्गत: साधर्मिका न प्रवचनतो निह्नवाः, तेषां प्रवचनबहिर्भूतत्वेन प्रवचनत: साधर्मिकत्वाभावात्, लिङ्गं तु तेषामपि रजोहरणादिकं विद्यते इति लिङ्गत: साधर्मिकाः, तेषामप्यर्थाय कृतं साधूनां कल्पते, निहवाश्च द्विधालोके निह्नवत्वेन ज्ञाता: अज्ञाताश्च / तत्र ये अज्ञातास्ते इह ग्राह्याः, अज्ञातानां लोके साधुत्वेन व्यवहरणभावत: प्रवचनान्तर्वर्तित्त्वात, इहाद्यभङ्गद्वयेन उदाहृते शेषमुत्तरं भङ्गद्रयं स्वयमेव श्रोतारोऽवभोत्स्यन्ते। इति बुद्ध्या नियुक्ति - कृन्नोदाहतवान्, अनेनैव च कारणेन शेषाणामपि चतुर्भङ्गिकारणामाद्यमेव भङ्गद्वयमुदाहरिष्यति नोत्तरं भङ्गद्वयं वयं