SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 245 अभिधानराजेन्द्रः भाग 2 आधाकम्म विनाशनं त्रिपातनम् एतच परिपूर्णगर्भजपञ्चेन्द्रियतिर्यमनुष्याणामवसेयम्, एकेन्द्रियाणां तु कायस्यैव केवलस्य विकलेन्द्रियसंभूच्छिमतिर्यजनुष्याणां तु कायवचनयोरेवेति / यद्वात्रयाणां - देहायुरिन्द्रियरूपाणां पातनंविनाशनं त्रिपातनम्, इदं च सर्वेषामपि / तिर्यजनुष्याणां परिपूर्ण घटते केवलं यथा येषां संभवति तथा तेषां वक्तव्यम्, यथा एकेन्द्रियाणां देहस्य औदारिकस्य आयुष:तिर्यगायुरूपस्य इन्द्रियस्य स्पर्शनन्द्रियस्य, द्वीन्द्रियाणां देहस्यौदारिकरूपस्य आयुषस्तिर्यगायुष इन्द्रिययोश्वस्पर्शनरसनलक्षणयोरित्यादि, पञ्चमीतत्पुरुषस्त्वयम्-त्रिभ्य:-कायवानोभ्यो देहायुरिन्द्रियेभ्यो वा पातनंच्यावनमिति त्रिपातनम्, अत्रापि त्रिभ्य: परिपूर्णेभ्य: कायवाङ्मनोभ्य: पातनं गर्भजपञ्चेन्द्रियतिर्यङ्गनुष्याणाम् एकेन्द्रियाणां तु कायादेव केवलात् विकलेन्द्रियसंमूर्छिमतिर्यमनुष्याणां तु कायवाग्भ्यामिति, देहायुरिन्द्रियरूपेभ्यस्तु त्रिभ्य: पातनं सर्वेषामपि परिपूर्ण संभ-वति, केवलं यथा येषां संभवति तथा तेषां प्रागिव वक्तव्यम्, तृतीयातत्पुरुषः पुनरयम् - त्रिभिः कायवाङ्मनोभिर्विनाशकेन स्वसम्बन्धिभिः पातनं-विनाशनं त्रिपातनं, 'च' शब्द: समुच्चये भिविभक्ति निर्देशश्चशब्दोपादानं च यस्य साध्वर्थमपद्रावणं कृत्वा गृही स्वार्थमतिपातं करोति तत्कल्प्यं, यस्य तुगृही त्रिपातनमपि साध्वर्थं विधत्ते तन्न कल्प्यमिति ख्यापनार्थम्, इत्थंभूतमौदारिकशरीराणामपद्रावणं त्रिपातनं च यस्य साधोरेकस्याने कस्य वाऽर्थायनिमित्तं मन आधाय- चित्तं-प्रवर्त्य क्रियते तदाधाकर्म ब्रुवर्त तीर्थकरगणधराः। इमामेव गाथां भाष्यकृद् गाथात्रयेण व्याख्यानयतिओरालग्गहणेणं, तिरिक्खमणुयाऽहवा सुहुमवज्जा। उद्दवणं पुण जाणसु, अइवायविवज्जियं पीडं // 25 // कायवइमणो तिन्नि उ, अहवा देहाऽऽउइंदियप्पाणा॥ सामित्ता वायाणे, होइ तिवाओ य करणेसु // 26 / / हिययंमि समाहेउं, एगमणेगं च गाहगं जो उ। वहणं करेइ दाया, काएण तमाह कम्मति // 27 / / सुगमा: / नवरं 'देहाऽऽउइंदियप्पाण' त्ति- देहायुरिन्द्रिय-रूपास्त्रयः प्राणा:, 'सामित्ते' त्यादि स्वामित्वे-स्वामित्वविषये संबन्धविवक्षयेति भावार्थ:, एवमपादाने-अपा-दानविवक्षया करणेषु विषये-करणविवक्षया अतिपातो भवति, यथा त्रयाणां पातनं त्रिपातनम्, यद्वा-त्रिभ्य: पातनं त्रिपातनम्, त्रिभिर्वा, करणभूतैः पातनं त्रिपातनं, भावार्थस्तु प्रागेवोपदर्शित: तदेवमुक्तमाधाकर्मनाम / पिं. (आधाकर्मणोऽध:कर्मत्वमध:कर्म 'अधेकम्म' शब्दे प्रथमभागे 589 पृष्ठ दृश्यम्) आधाकर्म अधोगतिनिबन्धनम् इत्यध:कर्मेत्युच्यते। पिं. 102 गाथाटी / (आत्मघ्नकर्म 'आताहम्म' शब्दे अस्मिन्नेव भागे प्रागुक्तम्) / (तच्च आत्मघ्नकर्म) साधो: आधाकर्मभुञ्जानस्याऽ- नुमोदनादिद्वारेण नियमत: संभवतीत्युपचारत: आधाकर्म आत्मघ्नमित्युच्यते। पिं. 105 गाथाटी०। (आत्मकर्म 'अत्तकम्म' शब्दे प्रथमभागे 500 पृष्ठे दर्शितम्) | अशुभो भाव: आधाकर्म ग्रहणरूपः साधुना प्रयत्नेन वर्जयितव्यः / पिं. 120 गाथाटी० / परकर्मणश्चात्मीकरणम् आधाकर्मणा ग्रहणे भोजने वा सति भवति, नान्यथा, तत उपचाराद्-आधाकर्म आत्मकर्मेत्युच्यते / पिं०१११ गाथाटी० / अतिप्रसङ्गदोषभयात् कृतकारित-दोषरहितमपि न आधाकर्म भुञ्जीत / अन्यच्च तदाधाकर्म जानानोऽपि भुजानो नियमतोऽनुमोदते; अनुमोदना हि नाम अप्रतिषेधनम्, 'अप्रतिषिद्धमनुमतम्' इति विद्वत्प्रवादात्। पिं०१११ गाथाटी०। (3) संप्रति प्रतिषेवणादीनि नामानि वक्तव्यानि तानि चाऽऽत्मकर्मेति नामाङ्गत्वेन प्रवृत्तानि, ततस्तेषां आत्मकर्मेति नामाङ्गत्वं परस्परं गुरुलघुचिन्तां च चिकीर्षुरिदमाह अत्तीकरेइ कम्म, पडिसेवाईहिं तं पुण इमेहिं। तत्थ गुरू आइपयं, लहु लहु लहुगा कमेणियरे // 112 / / तत्पुनर्ज्ञानावरणीयादिकं परकर्म आत्मीकरोतिआत्म-सात्करोति एभि:- वक्ष्यमाणस्वरूपैः प्रतिषेवणादिभिः तत: प्रतिषेवणादिविषयमाधाकर्माऽपि प्रतिषेवणादिनाम तत्र तेषां प्रति-पेवणादीनां चतुर्णा मध्ये आदिपर्द-प्रतिषेवणालक्षणं गुरुमहादोषं शेषाणि तुपदानि प्रतिषेवणादीनि लघुलघुलघुकानि द्रष्टव्यानि, प्रतिषेवणापेक्षया प्रतिश्रवणं लघुप्रतिश्रवणादपि संवासनं लघुसंवासनादप्यनुमोदनमिति। संप्रत्येतेषामेव प्रतिषेवणादीनां स्वरूपं दृष्टान्ताश्च प्रतिपिपादयिपुस्तद्विषयां प्रतिज्ञामाहपडिसेवणमाईणं, दाराणणुमोयणाऽवसाणाणं। जहसंभवं सरूवं, सोदाहरणं पवक्खामि ||113 / / प्रतिषेवणाऽऽदीनां द्वाराणामनुमोदनापर्यवसानानां यथासंभवं यद्यस्य संभवति। तस्य तत् स्वरूपं सोदाहरणम्- सदृष्टान्तं प्रवक्ष्यामि, तत्र प्रथमत: प्रतिषेवणास्वरूपं वक्तव्यम्। पिं. (प्रतिषेवणारूपम् 'पडिसेवणा' शब्दे पञ्चमभागे वक्ष्यते११४-११५ गाथाभ्याम्) (4) संप्रति प्रतिश्रवणस्वरूपमाहउवओगम्मि य लाभ कम्मग्गाहिस्स चित्तरक्खट्ठा। आलोइए सुलद्धं, भणइ भणंतस्स पडिसुणणा / / 116 // पिं. (अस्याः गाथायाः व्याख्या 'पडिसुणणा' शब्दे पञ्चमभागे करिष्यते) संप्रति संवासा-ऽनुमोदनयो: स्वरूपं प्रतिपादयतिसंवासो उपसिद्धो, अणुमोयणकम्मभोयगपसंसा। एएसिमुदाहरणा, एए उ कमेण नायव्वा / / 117 / / 'संवास: आधाकर्मभोक्तृभिः सह एकत्र संवसनरूप: प्रसिद्ध एव, अनुमादेनादाधाककर्मभोजकप्रशंसाकृतपुण्या: सुलब्धिका एते ये इत्थं सदैव लभन्ते भुञ्जतेवेत्येवं रूपा। तदेवमुक्तं प्रतिषेवणादीनां चतुर्णामपि स्वरूपम्, संप्रत्येतेषामेव प्रतिषे-वणादीनां क्रमेण एतानि वक्ष्यमाणस्वरूपाणि उदाहरणानि ज्ञातव्यानि, सूत्रे च उदाहरणशब्दस्य पुल्लिङ्गता प्राकृतलक्षणवशात्।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy