SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 244 अभिधानराजेन्द्रः भाग 2 आधाकम्म पडिसेवणपडिसुणणा, संवासऽणुमोयणा चेव / / 15 / / 'आहा अहेय कम्मे' ति-अत्र कर्मशब्द: प्रत्येकमभिसंबंध्यते, चकारश्व कर्मेत्यनन्तरं समुच्चयार्थो द्रष्टव्य: तत, एवं निर्देशो ज्ञातव्यः-आधाकर्म, अध:कर्म च / तत्राऽऽधाकर्मेति प्रागुक्त-शब्दार्थम्, अध:कर्मेति अधोगतिनिबन्धनकर्म अध:कर्म, तथा हि-भवति साधूनामाधाकर्मभुज्जानानामधोगतिः, तन्निबन्धनप्राणातिपाताद्याश्रवेषु प्रवृत्तेः, तथा आत्मानं दुर्गतिप्रपातकारणतया हन्तिविनाशयतीत्यात्मघ्नं, तथा यत् पाचकादिसंबन्धिकर्म पाकादिलक्षणं ज्ञानावरणीयादिलक्षणं वा / तदात्मन: संबन्धि क्रियतेऽनेनेति आत्मकर्म / एतानि च नामान्याधाकर्मणो मुख्यानि / संप्रति पुनर्य: प्रतिषेवणादिभिः प्रकारैस्तदाधाकर्म भवति / तान्यप्यभेदविवक्षया नामत्वेन प्रतिपादयति- 'पडिसेवणे' त्यादि प्रतिसेव्यते इति प्रतिषेवणं, तथा आधाकर्मनिमन्त्रणानन्तरं प्रतिश्रूयते। अभ्युपगम्यते यत् आधाकर्म तत् प्रतिश्रवणं तथा-आधाकर्मभोक्तृभिः सह संवसनं संवास: तद्वशात् शुद्धाऽऽहारभोज्यपि आधाकर्मभोजी द्रष्टव्य: यो हि तैः सह संवासमनुमन्यते स तेषामाधाकर्म-भोक्तृत्वमप्यनुमन्यते, अन्यथा तै: सह संवसनमेव नेच्छेत् अन्यच्च संवासवशत: कदाचिदाधाकर्मगतमनोज्ञगन्धाऽघ्राणादिना विभिन्न: सन् स्वयमप्याधाकर्मभोजने प्रवर्तेत तत: संवास आधाकर्मदोषहेतुत्वादाधाकर्म उक्तः, तथाऽनुमोदनम् अनु- मोदना आधाकर्मभोक्तृप्रशंसाऽपि आधाकर्मसमुत्थपापनिबन्धनत्वादाधाकर्मप्रवृत्तिकारणत्वाच्च आधाकर्मेति उक्तम् / अमीषां च प्रतिषेवणादीनामाधाकर्मत्वमात्मकर्मरूपं नाम प्रतीत्य वेदितथ्यं, तथा वक्ष्यति-'अत्तीकरेइ कम्मम्मि' त्यादिइह आधाकर्मेति शब्दार्थविचारे आधया कर्म आधाकर्मेत्युक्तम् / पिं / साधूनाम् आधया-प्रणिधानेन यत्कर्म षट्कायविनाशेना- ऽशनादिनिष्पादनं तदाधाकर्म। बृ.४ उ.४५६ गाथाटी / नि, चू। (2) आधाकर्मशब्दव्युत्पत्तयःआधानमाधा प्रस्तावात्साधुप्रणिधानं, अमुकस्मै साधये देयमिति तया आधाय वा साधून कर्म षड्जीवनिकाय- विराधनादिना भक्तादिपाकक्रिया आधाकर्म तद्योगाद् भक्ताद्यपि तथा निरुक्ताद् यलोपः / ग.१ अधि०२१ गाथाटी, / साधुं चेतसि आधाय-प्रणिधाय; साधुनिमित्तमित्यर्थः, कर्म सचित्तस्याऽचितीकरणमचित्तस्य वा पाको निरुक्तादाधाकर्म / ध०३ अधि, 22 श्लोक टी० / आधानमाधाप्रणिधान तया; साधुप्रणिधानेनत्यर्थ: कर्मक्रिया पाकादिका आधाकर्म / पञ्चा० 13 विक,५ गाथाटी / यद्वा-आधाय साधु-चेतसि प्रणिधाय यत् क्रियतेभक्तादि, तदाधाकर्म। पृषोदराऽऽदयः / / 3 / 2655 / / इतियलोप: / पिं। प्रव। आधाय-चेतसि अवस्थाप्य साधुं यदशनादि सचेतनमचेतनं वा पच्यते-अचित्तीक्रियते तदाधाकर्म। दर्श.४ तत्त्व 6 गाथाटी / आधयासाधु-प्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते-चीयत्ते वा गृहादिकं वयते वा वस्त्रादिकं तदाधाकर्म / "आहाकम भुंजमाणे सबले भवइ'' // 4 // दशा०२ अ. 1 साधुनिमित्तं सचितस्याचित्तीकरणे अचित्तस्य पाकेच। प्रव०६७ द्वार 370 गाथाटी / साधुनिमित्तं कृते ओदनादौ च। दर्श०४ तत्त्व६ गाथाटी। तदात्मकेउद्गमदोषविशेषे च। स्था०३ठा०४ ऊ / आचा। उत्त / आधाकर्मिक यन्मूलत एव साधूनां कृते कृतम्। व्य० ३ऊ.१६४ गाथाटी। सचित्तं जमचित्तं, साहूणऽहाए करिए जंच। अचित्तमेव पचह, आहाकम्मं तयं भणिअं॥७॥ सचित्तम्-विद्यमानचैतन्यं सत्फलबीजादियदचित्तम् अचेतनं साधूनांसंयतानाम् अर्थाय- हेतवे क्रियते-विधियते तथा यत्, 'च' शब्दोलक्षणान्तरसमुचयार्थः, अचित्तमेव- अचेतनमपि सत्तण्डुलादिपच्यतेराध्यते साधूनामर्थायेति प्रकृतम्, आधाकर्मोक्तनिर्वचनतकत्तद्भणितम्-उक्त जिनादिभिर्यद्यपि सचित्तस्य पृथिव्यादेरचित्तीकरणेन यत् क्रियते गृहवस्त्रादि; तदपि आधाकर्मोच्यते, तथापीह तन्नोत्तं, पिण्डस्यैवाधिकृत्वादिति गाथार्थः / पञ्चा०१३ विव० / ध। पं. का आधाया निक्षेपं प्रतिपादयति तया (आधया)यत्कृतं कर्म - ओदनपाकादि तदाधाकर्म। तथा चाह नियुक्तिकृतओरालसरीराणं, उहवणनिवायणं व जस्सऽट्ठा। मणमाहित्ता कीरइ, आहाकम्मं तयं वेंति / / 97 / / औदारिकं शरीरं येषां ते औदारिकशरीरा:-तिर्यचो, मनुष्याश्च / तत्र तिर्यञ्चः-एकेन्द्रियादय पञ्चेन्द्रियपर्यन्ता द्रष्टव्या:, एकेन्द्रिया अपिसूक्ष्मा बादराश्च / नन्विह ये अपद्रावणयोग्यास्तिर्यञ्चस्ते ग्राह्या:, नच सूक्ष्माणां मनुष्यादिकृतमपद्रावणं संभवति, सूक्ष्मत्वादेव, ततः कथं तेइह गृह्यन्ते? उच्यते, इह यो यस्मादविरत: सत तदकु र्वन्नपि परमार्थत: कुर्वन्नेव अवसेयो यथा रात्रिभोजनादनिवृत्तो रात्रिभोजनम्। गृहस्थश्च / सूक्ष्मैकेन्द्रिया- पद्रावणादनिवृत्तस्तत: साध्यवर्थं समारम्भं कुर्वन् स तदपि कुर्खन्नवगन्तव्य इति सूक्ष्मग्रहणम्, यद्वा-एकेन्द्रिया बादरा एव ग्राह्या, न सूक्ष्मा:, तथा च वक्ष्यति भाष्यकृत् "ओरा-लग्गहणेणं, तिरिक्खमणुयाहवा सुहमवज्जा'' तेषां औदारिकशरीराणां यत् अपद्रावणम्अतिपातविवर्जिता पीडा / किमुक्तं भवति- साध्वर्थमुपस्क्रियमाणेष्वोदनादिषु यावदद्यापि शाल्यादिवनस्पतिकायादीनामतिपात:-- प्राणब्युपरमलक्षणो न भवति / तावदा- ग्वर्तिनि सर्वाऽपि पीडा अपद्रावणम्, यथा साध्वर्थ शाल्योदनकृते शालिकरटेयर्यावद्वारद्वयं कण्डनम् / तृतीयं तु कण्डनमतिपात: / तस्मिन् कृते शालिजीवानामवश्यमतिपात भावात् / ततस्तृतीयकण्डनमतिपातग्रहणेन गृह्यते, वक्ष्यति च भाष्यकृत् "उद्दवणंपुण जाणसु अइवायविवज्जयं पीड''ति / उद्दवणशब्दात्-परतो विभक्तिलोप: आर्षत्वात् "तथा तिपाणयं' ति त्रीणि-कायवाङ् मनांसि, यद्वात्रीणि देहाऽऽयुरिन्द्रियलक्षणानि / पातनं चातिपातो: विनाश इत्यर्थः तत्र च त्रिधा समासविवक्षा, तद्यथा-षष्ठीतत्पुरुषः, पञ्चमीतत्पुरुषः, तृतीयातत्पुरुषश्च / तत्र षुष्ठीतत्पुरुषोऽयम्- 'त्रयाणां-क्राय- वाड्-मनसां पातनं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy