________________ आदीण भोइ 243 अभिधानराजेन्द्रः भाग 2 आधाकम्म भारगिरिशलापातनोद्यत: स दैवात्स्वयं पतित: पिण्डोपजीवीति तदेवमादीननभोज्यपि पिण्डोलकादिवज्जन: पापं कर्म करोति / सूत्र० १श्रु०१० अ आदीणवित्तित्रि (आदीनवृत्ति) आ-समन्ताद्दीना-करुणास्पदा वृत्ति:अनुष्ठानं यस्य / एवंभूते, "आदीणवित्ती वि करेई पावं" (64) आसमन्ताद्दीना-करुणास्पदा वृत्तिरनुष्ठानं यस्य कृपणवनीपकादे: स भवत्यादीनवृत्तिरेवंभूतोऽपि पापं कर्म करोति। सूत्र०१ श्रु१० अ०। आदीणिय त्रि. (आदीनिक) आ-समन्ताद्दीनमादीनं तद्विद्यते यस्मिन्स आदीनिकः / अत्यन्तदीनसत्त्वाश्रये, सूत्र, "आदीणियं उक्कडियं पुरत्था ||2||" सूत्र०१ श्रु०५ अ०१ऊ। आदीब अव्य. (आदीप)। दीपादारभ्येत्यर्थे, स्या०५श्लोक। आघ (ह) रिसिय-त्रिआधर्षित-आ-धृष्-क्त। अवैयात्ये इट्गुणश्च ! अवमानिते, तिरस्कृते, बलात्कारेणाभिभूते च / वाचः / तेण भणियं जो चंडमेहं दूयं आधरिसेइ त्ति / (444-445 गाथा टी.) आ०म०१ अ / आहरिसिओ दूओसंभंतेण नियत्तिओ (444-445 गाथाटी.) आ.म.१ अ। आधा(हा)स्त्री. (आधा) आधानमाधा। उपसर्गादातः // 53 / 19 / / इत्यङ्प्रत्ययः। पिं। साधुनिमित्तं चेतसः प्रणिधाने पञ्चा०३१ विवापिं / प्रवक / प्रश्नः / दशा० / ग० / बृ. 1 करणे, उत्त०५ अ ! आधीयतेऽस्यामित्याधा / आश्रये पिं / आश्रय आधार इत्यनर्थान्तरमिति / पिं / साऽपि च-आधा नामा-दिभेदाचतुर्दा / तद्यथा-नामाऽऽधा, स्थापनाऽऽधा, द्रव्याऽऽधा, भावाऽऽधा च। तत्रनामाऽऽधा द्रव्याऽऽधाऽपि च आगमतो नो आगमतश्च ज्ञशरीररूपा भव्यशरीररूपा च एषणैव भावनीया / ज्ञशरीरभव्यशरीव्यतिरित्तं तु द्रव्याऽऽधामभिधित्सुराहधणुजुयकायभराणं, कुटुंबरज्जधुरमाझ्याणं च। खंधाई हिययं चिय, दव्वाऽऽहा अंतए धणुणो॥९६ // इह द्रव्याऽऽधाया विचार्यमाणायामाधाशब्दोऽधिकरणप्र- धानो विवक्ष्यते आधीयते अस्यामित्याधा, आश्रय आधार इत्यनर्थान्तरम्। तत्र 'धणु' त्ति- धनु:-चापं तत् आधाआश्रयः प्रत्यश्शाया इति सामर्थ्याद्रम्यते, यूप: प्रतीतः। काय:-कापोती यया पुरुषाः स्कन्धारूढया पानीयं वहन्ति / भर:-यवसादिसमूहः, तथा- कुटुम्बम् - पुत्रकलत्रादिसमुदाय:, राज्यं प्रतीतं, तयोधूं:- चिन्ता आदिशब्दात्महाजनधू:प्रभृतिपहिग्रहः तेषां च यथासंख्यं द्रव्याऽऽधा द्रव्यरूप आधारस्कन्धादि हृदयं च / तत्र स्कन्धो बलीवादिस्कन्धो नरादिस्कन्धश्च परिगृह्यते, आदिशब्दात्- गन्त्र्यादिपरिग्रह: तत्रयूपस्य द्रव्याऽऽधाद्रव्यरूप: आश्रयोवृषभादिस्कन्धः,सहि यूपस्तत्राऽऽरोप्यते। कापोत्या आश्रयो नरस्कन्धः, नरो हि पानीयानयनाय कापोती स्कन्धेन वहति / भरस्याश्रयो गन्त्र्यादि, महाप्रमाणो हि भरो गन्त्र्यादिनैवानेतुं शक्यते, नान्येन। तथा कु टुम्ब चिन्ताया राज्यचिन्तायाश्चाश्रयो हृदयं मन:, हृदयमन्तरेण चिन्ताया अयोगात्, धनुर्विषये भावनामाह-अन्तके करहसंज्ञे धनुष: संबन्धिनि प्रत्यञ्चाऽऽरोप्यते ततो धनुः प्रत्यवाया आश्रयः, एवं शेषाणामपि यूपादीनां प्रत्याश्रयत्वं भावनीयम्, तच भावितमेद।उक्ता द्रव्याऽऽधा। संप्रति भावाऽऽधा वक्तव्या-सा-च द्विधा आगमतो, नो आगमतश्च / तत्राऽऽगमत आधाशब्दार्थ-परिज्ञानकुललस्तत्र चोपयुक्तः,"उपयोगो भावनिक्षेपः" इति वचनात्। नोआगमतस्तु भावाऽऽधा, यत्र तत्र वा मन:प्रणिधानम्, तथा हि- भावो नाम मानसिकः परिणामस्तस्य चाऽऽधानं-निष्पादनं भवति मनसस्तदनुगुणतया तेन तेन रूपेण परिणमने सति नाऽन्यथा, ततो मनःप्रणिधानं भावाऽऽधा, सा चेह प्रस्तावात्साधुदानार्थ- मोदनपचनपाचनादिविषया द्रष्टव्या। पिं०। आधा(हा) कम्म न. (आधाकर्म)- आधानम् आधा / उपसर्गादात: 11413 / 11 / / इत्यङ् प्रत्ययः / साधुनिमित्तं चेतसा प्रणिधानम् / यथा-अमुकस्य साधो: कारणेन मया भक्तादि पचनीयमिति, आधाया: कर्म-पाकादिक्रिया-आधाकर्म तद्योगात् भक्ताद्यप्याधाकर्म / इह दोषाभिधानप्रक्रमेऽपि यद्दोषवतोऽभिधानं तद्दोषदोषवतोरभेदविवक्षया / द्रष्टव्यम् / पिं० / ग० / प्रव० / ख-घ-थ-ध-भाम् 1811187 / / इति हैमप्राकृतसूत्रेण बहुलं धस्य हः / प्रा० / विषयसूची(१) वक्तव्यसंग्रहः। (2) व्युत्पत्तयः। (3) प्रतिषेवणादीनिः (4) प्रतिश्रवणस्वरूपम्। (6) एकार्थिकानि आधाकर्मणः / (6) आधाकर्माश्रित्य कल्प्याऽकल्प्यविधिः / (7) तीर्थकरस्य आधाकर्मभोजित्वम्। (8) द्वाविंशतिजिनेषु कल्प्याऽकल्प्यविधिः / (9) अशनादिषु आधाकर्मसंभवः / (10) आधाकर्मण एवाऽकल्प्यविधिः / (11) आधाकर्मभोजिनां कटुकविपाकः / (12) आधाकर्मभोजिना बन्धः / (1) आधाकर्मदोषं व्याचिख्यासुस्तत्प्रतिबद्धद्वारगाथामाहआहाकम्मियनामा, एगट्ठा कस्सवाऽवि किं वाऽवि। परपक्खे यसपक्खे, चउरो गहणे य आणाई / / 94 / / इह प्रथमत आधाकर्मिकस्य नामान्येकार्थिकानि वक्तव्यानि, ततस्तदनन्तरं कस्यार्थाय कृतमाधाकर्मभवतीति विचारणीयं, तदनन्तरं च किंस्वरूपमाधाकर्मेति, विचार्ये, तथा परपक्ष:- गृहस्थवर्ग:स्वपक्ष:साध्वादिवर्गः, तत्र: परपक्षनिमितं कृत-माधाकर्म न भवति / स्वपक्षनिमित्तं तु कृतं भवतीति वक्तव्यम्, तथा-आधाकर्मग्रहणविषये चत्वारोऽतिक्र मादयः प्रकारा भवन्तीति वक्तव्यं, तथा ग्रहणे आधाकर्मणो भक्तादेरादाने आज्ञादय: “सूचनात्सूत्रम्" इति न्यायादाज्ञाभङ्गादयो दोषा वक्तव्याः। तत्रैकार्थिकाभिधानलक्षणं प्रथमं द्वारं विवक्षुराहआहा अहे य कम्मे, आयाहम्मे य अत्तकम्मे य।