________________ आधाकम्म 246 अभिधानराजेन्द्रः भाग२ आधाकम्म तत्र यान्युदाहरणानि वक्तव्यानि तेषां नामानि क्रमेण प्रतिपादयतिपडिसेवणाए तेणा, पडिसुणणाए उ रायपुत्तो उ। संवासंमि य पल्ली, अणुमोयण रायदुह्रो य / / 118 / / प्रतिषेवणस्य स्तेना उदाहरणम्, प्रतिश्रवणस्य तु राजपुत्रं, राजपुत्रोपपलक्षिताः शेषा: पुरुषा:, / संवासे पल्ली'- पल्लीवा-स्तव्या | वणिज:, अनुमोदनायां राजदुष्टो-पलक्षिता-स्तत्प्रशंसाकारिणः / तत्र प्रथम: प्रतिषेवणसंबन्धिनं स्तेनदृष्टान्तंभावयतिगोणीहरण सभूमी, नेऊणं गोणिओ पहे भक्खे। निदिवसया परिवेसण-ट्ठियाऽविते कूविया घत्थे।।११९।। इह गाथाक्षरयोजनासुगमत्वात्स्वयमेव कर्त्तव्या, केवलं 'निर्विशका'उपभोक्तारो, नि:पूर्वस्य विशेषरूपभोगे वर्तमान-त्वात् तथा चोक्तम्"निर्वेश उपभोग: स्यात्" कुजकाव्या-हारकारिणः; गवां व्यावर्तका इत्यर्थः, 'धत्थे' इति गृहीताः / कथानकमुच्यते- इह क्वचिद्ग्रामे बहवो दस्यवः, ते चान्यदा कुतश्चित्सन्निवेशाद् गा: अपहृत्य निजग्रामाऽभिमुखं प्रचलिताः, गच्छतां च तेषामपान्तराले केऽप्यन्ये दस्यवः पथिका मिलित-वन्तस्ततस्तेऽपि तैः सार्द्ध व्रजन्ति; व्रजन्तश्च स्वदेशं प्राप्ता: तत: प्राप्त: स्वदेश इति निर्भया भोजनवेलायां कतिपया गा विनाश्य भोजनाय तन्मांसं पक्तुमारब्धवन्त: / अस्मिंश्च प्रस्तावे केऽप्यन्येऽपि पथिका: समाययु: ततस्तेऽपि तैर्दस्युमिर्मोजनाय निमन्त्रिता ततो गोमांसे पक्के केऽपि चौरा: पथिकाच भोक्तुं प्रवृत्ताः केऽपि गोमांसभक्षणं बहुपापमिति परिभाव्य न भोजनाय प्रवृत्ताः, केवलमन्येभ्य: परिवेषणं विदधति अत्रान्तरे च निष्प्रत्या-कारनिशितकरवालभीषणमूर्तयः समाययु: कूजकाः, ततस्तै: सर्वेऽपि भोक्तार: परिवेषकाश्च परिगृहीता:, तत्रये पथिका अपान्तराले मिलितास्ते पथिका: वयमिति ब्रुवाणा अपि चौरोपनीतगोमांसभक्ष्यपरिवेषणप्रवृत्ततया चौरवद् दुष्टा इति गृहीता, विनाशिताश्च। अमुमेवार्थ दार्शन्तिकेंयोजयतिजे विय परिवेसंती, भायणाणि धरंति य। तेऽवि बज्भंति तिव्वेण, कम्मुणा किमु भोयिणो?||१२० / / इह चौराणां येऽपान्तराले भोजनवेलायां वा ये मिलिता: पथिकास्तत्रापि ये परिवेषमानं भाजनधारणामात्रं वा कृतवन्तस्तेऽपि कूजकैरागत्य बद्धाविनाशिताश्च:, एवमिहापि ये साधवोऽन्येभ्य: साधुभ्यः आधाकर्म परिवेषयन्ति वा धरन्ति / तेऽपि तीव्रण- दु:सहविपाकेन नरकादिगतिहेतुना कभणा बध्यन्ते, किं पुन-राधकर्मभोजिन:? तत एतद्दोषभयात्परिवेषणादिमात्र-मप्याधाकर्मणः प्रतिषेवणं यतिभिर्नकर्त्तव्यम्, इह चौरस्थानीया आधाकर्मनिमन्त्रिणः साधवो गोमांसभक्षकचौरपथिक-स्थानीया: स्वयंगृहीतनिमन्त्रिताधाकर्मभोजिनो, गोमांस-परिवेकादिस्थानीया आधाकर्मपरिवेषकादयः, गोमां-सस्थानीमाधाकर्म, पथस्थानीयं मानुष जन्म कूजकस्थानीयानि कर्माणि, मरणस्थानीयं नरकादिप्रपात:। संप्रति प्रतिश्रवणस्य पूर्वोक्तराजसुतदृष्टान्तं भावयति-- सामत्थण रायसुए, पिइवहणसहाय तह य तुण्हिक्का। तिण्हं पिहु पडिसुणणा, रन्ना सिटुंमि सा नाऽत्थि / / 121 / / गुणसमृद्धं नाम नगरं तत्र महाबलो राजा तस्य शीला नाम देवी तयोर्विजितसमरो नाम ज्येष्ठ: कुमारः, स च राज्यं जिघृक्षुः पितरि दुष्टाशयश्चिन्तयामास यथा ममैष पिता स्थविरोऽपि न म्रियते नूनं दीर्घजीवी संभाव्यते ततो निजभटान्सहायीकृत्यैनं मारयामीति, एवं च चिन्तयित्वा निजभटैः समं मन्त्रयितुं प्रावर्त्तत, तत्र कैश्चिदुक्तं वयं तव साहायककारिणः, अपरैरुक्तमेवं कुरु, केचित्पुनस्तूष्णीं प्रतिपेदिरे, अपरेपुनश्चेतस्यप्रतिपद्यमाना: सकलमपि तवृत्तान्तं राज्ञे निवेदयामासुः ततोराजा ये साहायकं प्रतिपन्ना ये च एवं कुर्वित्युक्तवन्तो येऽपिच तूष्णी तस्थुः तान् सर्वानपियेष्ठ च कुमारं वैवस्वतमुखेप्रतिचिक्षेप यैस्त्वागत्य निवदिणं ते पूजिता:, गाथाक्षरयोजना त्वियम् -'सामत्थणं' स्वभटै: सह पर्यालोचनं राजसुए' त्ति-तृतीयार्थसप्तमी, ततोऽयमर्थ:- राजसुतेन कर्तुमारब्धमिति शेषः, तत्र कैश्चिदुक्तं पितृहनने कर्तव्ये तव सहाया वयमिति तथा' इति समुच्चये, चशब्दोऽनुक्तसमुच्चयार्थः, सच केचिदेवं कुर्विति भाषितवन्त इति समुचिनोति, केचित् पुनस्तूष्णीका जातामौनेनावस्थिता:, एतेषां च त्रयाणामपि प्रतिश्रवणदोष:,यैस्तु राज्ञे शिष्टं तेषां 'सा' तत्प्रतिश्रवणं नास्ति। अमुमेवार्थ दार्टान्तिकेयोजयतिमुंज न मुंजे मुंजसु, तइओ तसिणीए मुंजए पढमो। तिण्हं पि हु पडिसुणणा पडिसेहंतस्स सा नऽस्थि / / 122 / / इह किल केनापि साधुना चत्वारः साधव आधाकर्मणे निमन्त्रिता यथा भुध्वं यूयमेनमाहारमिति तत्रैवं निमन्त्रणे कृत प्रथमो भुक्ते द्वितीयः प्राह-नाहं भुजे भुड्क्ष्व त्वमिति, तृतीयो मौनमाश्रित: चतुर्थः पुनः प्रतिषिद्धवान् यथा न कल्पते साधूनामाधाकर्म तस्मादहं भुञ्ज इति, त्रयाणामाद्यानां प्रतिश्रवणदोषः, चतुर्थस्य प्रतिषेधतः सत: 'सा' तत्प्रतिश्रवणं नास्ति, अत्राह- नन्दाद्यस्याधाकर्मभुजानस्य प्रतिषेवणलक्षण एव दोषः, कथं प्रतिश्रवणदोष उक्त:? उच्यते-इह यदा आधा-कर्मनिमन्त्रित: सन् तद्भोजनमभ्युपगच्छति / तदा नाद्यापि प्रतिषेवणमिति प्रतिश्रवणदोष: तत ऊर्ध्व तुप्रतिषेवणंततोनकश्चिद्दोषः / अथामीषामेव भोजकादीनांक: क: कायिकादिको दोष: स्याद् ? अत आहआणंतमुंजगा क-म्मुणा उ, बीयस्स वाइओ दोसो। तइयस्य य माणसिओ, तीहिं विसुद्धो चउत्थो उ / / 123 / / इह य आधाकर्मणः स्वयमानेता यश्चानीतस्य निमन्त्रित: सन भोक्ता तौ द्वावपि कर्मणा आनयनभोजनरूपतया कायक्रिययातुशब्दान्मनसा वाचा च दोषवन्तौ द्वितीयस्य तु भुड्क्ष्व त्वं नाहं भुञ्ज इति ब्रुवाणस्य वाचिको दोषः, उपलक्षणमेतत्- मानसिकश्व, तृतीयस्य तु तूष्णीस्थितस्य तु मानसिको, यस्तु चतुर्थः स त्रिभिरपि दोषैर्विशुद्धः तस्माचतुर्थकल्पेन सर्वदैव साधुना भवितव्यम्।