SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आदाण 239 अभिधानराजेन्द्रः भाग 2 आदाण बुयात्- आदानमेतत्-कर्मोपादानमेतदिति / पाठान्तरं वा'आययणमेयं ति-आयतनं-स्थानमेतद्दोषाणां यत्संखडी- गमनम्।। आचा०२ श्रु. 1 चू. 1 अ०३ उ / "एते आयाणा संति'' (सूत्र-१५४)। यस्मादेतानि आयतनानिकर्मोपादानकारणानि सन्ति-भवन्ति / आचा० / 2 श्रु० 11 अ०३ ऊ / आदीयते- गृह्यते आत्मप्रदेशैः सह श्लिष्यते अष्टप्रकारं कर्म येन तदादानम्। हिंसाद्याश्रवद्वारे, अष्टादशपापस्थानेषु च। आचा०१ श्रु 3 अ०४ उ०। "आयाणं सगडभिज्ज" (सूत्र-२२१४) आदीयते-गृह्यते आत्मप्रदेशै: सह श्लिष्यते अष्टप्रकारं कर्म येनतदादानं हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा, तत् स्थितेनिमित्तत्वात् कषायापादानं तद्वमिता स्वकृतभिद् भवति। आचा०१ श्रु 3 अ० 1 उ। ('सगडभिज्ज' शब्दे सप्तमे भागे व्याख्या दृष्टव्या) कषाये, परिग्रहे सावद्यानुष्ठाने च / सूत्र. 1 श्रु. 16 अ / "जओ जओ आदाणं अप्पणो पदोसहेऊ तओ तओ आदाणतो पुव्वं पडिविरते' (सूत्र-) आदीयते स्वीक्रियतेऽष्टप्रकारं कर्म येन तदादानम्- कषाय: परिग्रह: सावद्यानुष्ठान वेति। सूत्र०१ श्रु०१६ अ। मुसावायं बहिद्धं च, उग्गहं च अजाइया। सत्थादाणाइँ लोगंसि, तं विज्जं परिजाणिया / / 10 / / पलिउंचणञ्च भयणच, थंडिल्लुस्सयणाणि य। घूणादाणाइँ लोगंसि, तं विज्जं परिजाणिया / / 11 / / तथा- आदीयते-गृह्यतेष्ट प्रकारं कमै भिरिति (आदानानि) कर्मोपादानकारणान्यस्मिन्। सूत्र०१ श्रु९ अ / एतानि पलि- कुञ्चनादीनि अस्मिन् लोके आदानानि वर्तन्ते तदेतद्विद्वालन् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत। सूत्र. 1 श्रु०९ अ : (10-11 / अनयोर्गाथयोर्विशेषत: व्याख्यानं 'धम्म' शब्दे चतुर्थभागे करिष्यते) आदीयते-स्वीक्रियते; प्राप्यते वा: मोक्षो येन तदादानम् / ज्ञानदर्शनचारित्रेषु, "बुसीएय विगयगेही आयाणं सम्मरक्खए" ||114|| विविधम्- अनेक-प्रकारमुषित:- स्थितो दशविधचक्रबालसामाचर्या व्युषितस्तथा विगताअपगता आहारादौ गृद्धिर्यस्यासौ विगतगृद्धि: साधुरेवंभूतश्चादीयतेस्वीक्रियते, प्राप्यते वा मोक्षो येन तदा-दानीयं ज्ञानदर्शनचारित्रत्रयं तत्सम्यग्-रक्षयेद्- अनुपालयेत्; यथा तस्य वृद्धिर्भवति तथा कुर्यादित्यर्थः / सूत्र 10 श्रु.१ अ०४ऊ। “आयाणअट्ठी वोदाणमोणं' (सूत्र-१७x)। मोक्षा-र्थिनाऽऽदीयत इत्यादानम् सम्यक ज्ञानादिकमिति / सूत्र 1, श्रु० 14 अ / "आयाणवं धम्ममुदाहरेज्जा // 55 // मोक्षा-र्थमादीयतइत्यादानं-सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्। सूत्र०२ श्रु०६अ।"आयाणं सुसमाहरे" // 19 // मोक्षस्यादानम् -उपादानं सम्यग्दर्शनादिकं सुष्द्युक्त: सम्यग्विस्रोतसिकारहित आहरेत् -आददीत; गृह्णीयादित्यर्थः / सूत्र 10 श्रु०८ अ."अज्भप्पजोगेसुद्धादाणे" 141 / (सूत्र-३४) शुद्धमवदातम् आदानं-चरित्रं यस्य स शुद्धादानो भवति। सूत्र. १श्रु 16 अ / आदीयत इत्यादानम्। मोक्षे, "आयाणमठ्ठ खलुवंचयित्ता' (सूत्र-४) आदीयत इत्यादानम्-ज्ञानादिकं, मोक्षो वा तमर्थ वञ्चयन्ति भ्रंशयन्त्यात्मनः / सूत्र 1 श्रु०१३ अ / संयमे, "आयाणगुत्ते वलयाविमुक्के // 22+11 मोक्षार्थिनाऽऽदीयते-गृह्यत इत्यादानं- संयमस्तेन तस्मिन्वा सति गुप्तः / सूत्र 1 श्रु१२ अ। संयमानुष्ठानेच। "एसवीरेपसेसिए, जेण णिविज्जति आदाणाए" (सूत्र-८५४) भोगाशाछन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीर: कर्मविदारणात् प्रशंसित:- स्तुतो देवराजादिभिः, क एष वीरो नाम योऽभि-ष्ट्रयत इत्यत आह- 'जे' इत्यादि; यो न निर्विद्यते न खिद्यते- न जुगुप्सते, कस्मै? आदानायआदीयते-गृह्यते अवाप्यते आत्मस्वतत्त्वमशेषाचारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञा- नाबाधसुखरूपं येन तदादानंसंयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताक्चलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति ।आचा०१ श्रु.२ अ०४ उ. / आदीयत इत्यादानम् / प्रथमव्रतग्रहणे / सूत्र / "जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो, आमरणंताए दंडे निक्खित्ते" (सूत्र०) / यावद्यैर्येषु वा श्रमणोपासकस्याऽऽदीयत इत्यादानम्-प्रथमव्रतग्रहणम्; तत आरभ्य आमरणान्ताद्दण्डो निक्षिप्त:-परि-त्यक्तो भवति / सूत्र०२ श्रु०७ अ / केनचिदादीयत इत्यादानम्। सूत्र०२ श्रु०२ अ० / कारणे कल्प० / "आयाणमेवं,"कर्मणां-दोषाणांवाआदानम्-उपादानकारणम्।कल्पक 3 अधि०९ क्षण। "एगइओ केणइ आयाणेणं विरुद्ध समाणे" (सूत्र३२+)। सूत्र०२ श्रु०२ अ / एकः कश्चित् प्रकृत्या क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानम्-शब्दादिकं कारणं तेन विरुद्धः समान: परस्या- पकुर्य्यात् शब्दादानेन तातवत्केन चिदात्रुष्टो निन्दितो वाचा विरुध्येत् रूपादादानेन तु बीभत्स कञ्चन दृष्ट्वा अपशकुना- ध्यवसायेन कुप्येत / सूत्र०२ श्रु०२ अ / आदीयन्ते गृह्यन्ते शब्दादयोऽर्था एभिरित्यादानानि। इन्द्रिये, बृ.१ उ / केवली णं आयाणेहिं न जाणइन पासई" (सूत्र-१९८+) | आदीयते-गृह्यतेऽर्थ एभिरित्यादानानिइन्द्रियाणि तैर्न जानाति के वलित्वाद् / भ० 10 श०४ उ. / "आयाणनिरुद्धाओ" ||186 // आदानानीन्द्रियाणि निरुद्धानि यस्यां सा निरुद्धादाना, गाथायां व्यत्यासेन पूर्वापरनिपात: प्राकृतत्वाद्। बृ.१ उ.३ प्रक, / "आयाणगुत्ता विकहाविहीणा'' (884) / आदान:इन्द्रियैर्गुप्ता:। बृ०३ऊ आदीयते कर्मनेनेत्यादानम्। दुष्प्रणिहिते इन्द्रिये चआचा।"आयाणसोयमतिवायसोय" // 164|| आचा.१ श्रु०९ अ। आदीयते गृह्यते, प्रथमम्-आदौ यत्तदानम्। सूत्र.१२१० अ। आचा० / आदौ० (प्रथम) "आयाणपएनेयं / / 503+II आदीयत-इत्यादानम्आदेः; प्रथममित्यर्थः, तच तत्पदञ्च निराकाङ्क्षतया अर्थगमकत्वेन वाक्यमेवादानपदम्। उत्त०२९ अ०।"से किं तं आयाणपदेणं'' (सूत्र+) आदीयतेतत्प्रथमतयाउचारयितुमारभ्यतेशास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः / अनु० ! नि. चू। आदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य च निक्षेपं कर्तुकामो नियुक्तिकृदाहआदाणे गहणंमिय, णिक्खेवो होतो दोन्नि वि चउक्के।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy