________________ आतालिजंत 236 अभिधानराजेन्द्रः भाग 2 आताहम्म आतालिज्जंत- त्रि. (आताड्यमान) आ-समन्तात् ताड्यमाने, "आतालिज्जताणंतालीणं, तालाणं कंसतालाणं"ति। आ. चू.१ अ.। आता(या)व-पुं(आताप)"पो वः" ||8|231 // इति प्राकृतसूत्रेण पस्यवः / असुरकुमारविशेषे, विशेषस्तुनावगम्यते इति, अभयदेवसूरि: / भ०१३ श०६ उ.। आया(या)वाइ(न) पुं--(आत्मवादिन)"से आयावादी' (सूत्र-५४)1 आत्मानं वदितुं शीलमस्येति / आचा० 1 श्रु. 1 अ०१ऊ.!"एस आयावाई" (सूत्र 1654) / यथावस्थितात्मवादिनि, आचा. 1 श्रु.५ अ०६ उ. I (आत्मवादिनोऽशेषवक्तव्यताऽऽचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनस्य प्रथमे उद्देशके (सूत्र५ आरभ्य) सा 'आता' शब्देऽस्मिन्नेव भागे गता) तथा च ऐक्यवादिनमधिकृत्य-अपरस्त्वामैवास्ति; नान्यदिति प्रतिपन्नः, तदुक्तम्- "पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहति, यदेजति यन्नैजति यद् दूरे यदन्ति केयदन्त-रस्य सर्वस्यास्य बाह्यतः" इति / स्था. टी. 8 ठा०३ उ.। येऽपि च आत्मवादिन: "पुरुष एवेदं सर्वमि" त्यादि प्रतिपन्नाः, तेऽपि महामोहोरगगरलपूरमूर्च्छितमानसा वेदितव्याः / नं.। (अत्र विस्तरं 'एगावाइन्' शब्दे तृतीयभागे वक्ष्यामि) आता(या)हम्म-न. (आत्मघ्न)। आत्मा हन्यते तेषु तेषु यातनास्थानेषु येन तदात्मघ्नम्। दर्श. 4 तत्त्व। ___आत्मघ्नैकार्थिकानिआहा अहे य कम्मे, आताहम्मे य अत्तकम्मे य। तं पुण आहाकम्म, नायव्वं कप्पते कस्स 11110|| आधाकर्म 1, अध:कर्म 2, आत्मघ्न: 3, आत्मकर्म 4, इति चत्वारि नामानि / (बृ.) आत्मानं ज्ञानदर्शनचारित्ररूपं हन्तिविनाशयतीत्यात्मघ्नम् / बृ०४ उ.। आत्मानं दुर्गतिप्रपात-कारणतया हन्तिविनाशयतीत्यात्मघ्नम्। पिं / आधाकर्मणि, पिं०। (आत्मघ्नस्याधाकम्मैकार्थकत्वम् 'आधाकम्म' शब्देऽस्मिन्नेव भागे विस्तरतो वक्ष्यते) एतस्य निक्षेपः-- आयाहम्मे वि चउट्विधो निक्खेवो, दव्वाऽऽयाहमे अणुवउत्तो पाणाऽतिवायं करेंतो भावाऽऽते णाणदंसणचरणा, तं हणं तो भावाऽऽताहम्मं / नि. चू१० ऊ। संप्रत्यात्मघ्ननाम्नोऽवसर: तदपि चात्मघ्नं चतुर्द्धा, तद्यथानामाऽऽत्मघ्नं, स्थापनात्मघ्नं, द्रव्यात्मघ्नं, भावात्मघ्नं च / इदमप्यध:कर्मवत् तावद्भावनीयं यावन्नोआगमतोज्ञशरीर-द्रव्यात्मघ्नम्, भव्यशरीरद्रव्यात्मघ्नम्। ज्ञशरीरभव्यशरीरव्यतिरिक्तंतुद्रव्यात्मघ्नं नियुक्तिकृदाहअट्ठाए अणट्टाए, छक्कायपमद्दणं तु जो कुणइ / अनियाए अनियाए, आयाहम्मं तयं वेति / / 103| योगृही अर्थाय-स्वस्य परस्य वा निमित्तम्, अनर्थाय प्रयो-जनमन्तरेण एवमेव पापकरणशीलतया 'अणियाए य नियाए' त्ति-निदानं निदाप्राणिहिंसा नरकादिदुःखहेतुरिति जानतापि, यदा-साधूनामाधाकर्मन कल्पते इति परिज्ञानवता यज्जी-वानां प्राणध्यपरोपणं सा निदा। तन्निषेधाद्- अनिदा यत् स्वं पुत्रादिकमन्यं वा विभागेनाविविच्य सामान्येन विधीयते / अथ वा- व्यापाद्यस्य सत्त्वस्य हा धिक् संप्रत्येष मां मारयिष्यतीति परिज्ञानतो यत् प्राणव्यपरोपणं सा निदा, तद्विपरीताअनिदा, यत् अजानतो व्यापाद्यस्य सत्त्वस्य व्यापादनमिति। तथा चाह भाष्यकृत्जाणंतों अजाणतो, तहेव उदिसिय ओहओवाऽवि। जाणगअजाणगं वा, वहेइ अनिया निया एसा // 31 // व्याख्यातार्थ / ततो निदया अनिदया वा यः षट्कायप्रमर्दनं करोतिषण्णां पृथिव्यादीनां कायानां प्राणव्यपरोपणं विदधाति। तत् षट् कायप्रमईनम् आत्मघ्नम् नोआगमतो द्रव्यात्मनं ब्रुवन्ति तीर्थकरगणधराः / अथ षट्कायप्रमर्दनं कथंनोआगमतो द्रव्यात्मघ्नम् ? यावता भावाऽऽत्मघ्नं कस्मान्न भवति? अत आह... दव्वाऽऽया खलु काया, अस्य व्याख्या-काया:-पृथिव्यादय: खलु निश्चयेण द्रव्यात्मानो द्रव्यरूपा आत्मान: जीवानां गुणपर्यायवत्तया द्रव्यत्वात्, उक्तं च"अजीवकाया:-धाऽधाऽऽकाशपुद्गलाः, द्रव्याणि जीवाश्च" (तत्त्वा०५अ-सूत्र 1-2) इति। ततस्तेषां यत् उपमर्दनं तत्द्रव्याऽऽत्मघ्नं भवति। उत्तं द्रव्यात्मघ्नम्। संप्रति भावाऽऽत्मघ्नं वक्तव्यं, तच द्विधा-आगमतो, नोआग-मतश्च / तत्र आगमत आत्मघ्नशब्दार्थज्ञाता तत्र चोपयुक्तः / नोआगमत आत्मघ्नमाह भावाऽऽया तिन्नि नाणमाईणि। परपाणपाडणरओ, चरणायं अप्पणो हणइ / / 104 / / भावाऽऽत्मानो भावरूपा आत्मानस्त्रीणि ज्ञानादीनिज्ञानदर्शनचारित्राणि आत्मनो हि पारमार्थिकं स्वस्वरूपं ज्ञानदर्शनचरणात्मकं ततस्तान्येव परमार्थत आत्मनो न शेषं द्रव्यमानं स्वस्वरूपाभावात्, ततो यश्चारित्री सन् परेषां पृथिव्यादीनां ये प्राणा इन्द्रियादयस्तेषां यत् पातनं-विनाशनं तस्मिन् रत:- आसक्त: स आत्मनश्चरणरूपं भावाऽत्मानं हन्ति / चरणात्मनि च हते ज्ञानदर्शनरूपावप्यात्मानौ परमार्थतो हताविव द्रष्टव्यौ। यत आहनिच्छयनस्य चरणा-ऽऽयविघाए नाणदंसणवहो वि। ववहारस्स उचरणे,हयम्मि भयणा उसेसाणं / / 10 / / निश्चयनयस्य मतेन चरणात्मविघाते सति ज्ञानदर्शनयोरपि वधोविघातो द्रष्ट व्यः, ज्ञानदर्शनयो र्हि फलं चरणप्रतिपत्तिरूपा सन्मार्ग प्रवृत्तिः / सा चेन् नास्ति तर्हि ते अपि