________________ आताबणा 235 अभिधानराजेन्द्रः भाग२ आतारामि संवरणे-प्रावरणे समुद्भूते 'अग्रहानातकादिभिर्विना गोचरचर्यायामयतनया प्रविष्टाया ये दोषास्तृतीयोद्देशकेउक्तास्तान्प्राप्नुयात्, अतस्तै: प्रावृता आतापयेत्। वृ०५ उ / (आतापनोदकतीरे न कर्तव्येति 'दगतीर' शब्दे चतुर्थभागे वक्ष्यते।) आताबि (न)-पु.- (आतापिन्) आतापयति-आतापनां शीतातपादिसहनरूपां करोतीत्यातापी। शीतादिसहनकर्तरि, स्था०४ ठा०३ उा वस्त्रादेरातपेदातरि च। कल्प०३ अधि०९क्षण / आतपति आ-तप्णिनि / पक्षिभेदे. क्षीरस्वामी वाचा आता(या)बित्तए- अव्य. (आतापयितुम्) आतपे दातुमित्यर्थे, "आयाबित्तए पयाबित्तए वा' (सूत्र 124) आतापयि-तुमेकवारमातपे दातुं, प्रतापयितुं पुन: पुनरातपे दातुमिच्छति। कल्प०३ अधि०९ क्षण। आता(या)बिया-अव्य. (आतापयित्वा) आतापनां कृत्वत्यर्थे "आयाबिय" (सूत्र-x)| आचा०२ श्रु०१चू.२ अ०३ ऊ / आता(या)बेमाण- त्रि. (आतापयत्) आतापनां कुर्वति, "आयाबणाए आयाबेमाणस्स छटेणं भत्तेणं" (524 गाथाटी.) आ०म०१ अ। आता(या)भिणिवेस- पुं० (आत्माभिनिवेश) आत्मनोऽभिनि-वेशे, यावच्चात्माभिनिवेशस्तावदेव संसार: 1 नका शौद्धौदनीया: पुनरेवमाहुःनैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतु: नैरात्म्यादिभा- बनाया: सकलरागादिविपक्षभूतत्वात्, तथाहि नैरात्म्यावगतौ नाऽऽत्माभिनिवेश: / आत्मनोऽवगमाभावाद्, आत्माभिनिवेशा- भावाच न पुत्रभ्रातृकलत्रादिष्वात्मीयाभिनिवेश: आत्मनो हि य उपकारी स आत्मीयो, यश्च प्रतिघातकः स द्वेष्यः, यदा त्वात्मैव न विद्यते किन्तु | पूर्वापरक्षणत्रुटितानुसन्धाना: पूर्वपूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्ते तदा क: कस्योपकर्ता उपधातको वा ? ज्ञानक्षणानां च क्षणमात्रावस्थायितया पर-मार्थत उकर्तुमपकर्तुं वा अशक्यत्त्वात, तन्न तत्त्ववेदिनः पुत्रादिष्वात्मीयाभिनिवेशो, नाऽपि वैरिषु द्वेषो, यस्तुलोकानाममात्मीयानात्मीयाद्यभिनिवेश: सोऽनादिवासनापरि-पाकोपनीतो वेदितव्योऽतत्त्वमूलत्वात्, ननु यदि न परमार्थत: कश्चिदुपकार्योपकारकभावस्तर्हि कथमुच्यते भगवान् सुगत: करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति / क्षणिकत्वमपि च यद्येकान्तेन तर्हि तत्त्ववेदी क्षणानन्तरं विनष्टः सन्ना कचनाऽप्येवं भूयो भविष्यामीति जानान: किमर्थं मोक्षाय यत्नमारभते? तदयुक्तम्, अभिप्रायापरिज्ञानात् भगवान् हि प्राचीनायामवस्थायामवस्थित: सकलमपिजगद्रागद्वेषादिदुःखसंकुलमभिजानान: कथमिदं सकलमपि जगन्मया दु:खादुद्धर्तव्यमिति समुत्पन्नकृपाविशेषा नैरात्म्यक्षणिक- त्वादिकमवगच्छन्नपि तेषामुपकायसत्त्वानां नि:क्लेशक्षणोत्पादनाय प्रजाहितो राजेव स्वसंततिशुद्ध्यै सकलजगत्साक्षा-त्करणसमर्थः स्वसंततिगतविशिष्टक्षणोत्पत्तये यत्नमार-भते, सकलजगत्साक्षात्कारमन्तरेण सर्वेषामक्षणविधानमुपकर्तुमशक्यत्वात् / ततः समुत्पन्नके वलज्ञान: पूर्वाऽहित कृपाविशेषसंस्कारवशात् कृतार्थोऽपि देशनायां प्रवर्तते इति / तदेवं श्रुतमप्यात्मप्रज्ञया निर्दोषं नैरात्म्यादिवस्तुतत्त्वं परिभाव्य भावत: तथैव भावयतो जन्तोर्भावनाप्रकर्षविशेषतो वैराग्यमुपजायते, ततो मुक्तिलाभः, यस्त्वात्मानमभिमन्यते न तस्य मुक्तिसंभवोयत् आत्मनि परमार्थतया विद्यमाने तत्रस्नेह: प्रवर्तते। ततः स्नेहवशाच तत्सुखेषु परितर्षवान् भवति, तृष्णा-वशाच सुखसाधनेषु दोषान् सतोऽपि तिरस्कुरुते गुणा-स्त्वभिभूतानपि पश्यति / ततो गुणदर्शी सन् तानि ममत्व-विषयीकरोति तस्माद्यावदात्माभिवेश: तावत्संसार:, आहच"य: पश्यत्यात्मानं तत्रा-स्याहमिति शाश्वत: स्नेहः / स्नेहात्सुखेषु तृष्यति, तृष्णादोषांस्तिरस्कुरुते॥१॥ गुणादर्शी परितृष्यन् ,ममेति तत्साधनान्युपादत्ते! तेनात्माभिनिवेशो, यावत्तावत्स संसारे" // 2 // तदेतत्सर्वमन्त:करणकृ तावासमहामोहमहीयस्ताविलसितम्, आत्माभावे बन्धमोक्षाऽऽधकाधिकरणत्वायोगात्, तथाहि - यदि नात्माभ्युगम्यते किं तु पूर्वापरक्षणत्रुटितानुसंधाना ज्ञान-लक्षणा एव, तथा सत्यन्यस्य बन्धः, अन्यस्य मुक्तिः, अन्यस्य क्षुद्, अन्यस्य तृप्तिः, अन्योऽनुभविता, अन्य: स्मर्ता, अन्य-श्चिकित्सादुःखमनुभवति, अन्यो व्याधिरहितो भवति, अन्य: तप:क्लेशमपि सहते; पर: स्वर्गसुसुखमनुभवति, अपर; शास्त्रमभ्यसितुमारभते, अन्योऽधिगतशास्त्रार्थो भवति, न चैतद्युक्तम्, अतिप्रसङ्गात्, सन्तानापेक्षया बन्धमोक्षादेरेकाधि- करण्यमितिचेत्, न, सन्तानस्यापि भवन्मते नानुपपद्यमानत्वात्, सन्तानो हि सन्तानिभ्यो भिन्नो वा स्यादभिन्नो वा? यदि भिन्नस्तर्हि पुनरपि विकल्पयुगलमुपढौकते / स किं नित्य: क्षणिको वा ? यदि नित्यस्ततो न तस्य बन्धमोक्षादिसंभवः; आकालमेकस्व-भावतया तस्यावस्थावित्र्यानुपपत्तेः / न च नित्यं किमप्यभ्युपगम्यते, "सर्व क्षणिकम्" ति वचनात. अथक्षणिकस्तर्हि तदेव प्राचीनं बन्धमोक्षादिवैयधिकरण्यं प्रसक्तम्, अथाभिन्न इति पक्षस्तर्हि सन्तानिन एव, न सन्तान:, तदभिन्नत्वात्, तत्स्वरूपवत, तथा च सति तदवस्थमेव प्राक्तनं दूषणमिति।नं। आता(या)मिसित्त पुं. (आत्माभिषिक्त)। निजबलेन राज्या-भिषिक्ते भरतदौ, व्य। अहवा राया दुविहो,आयामिसित्तो परामिसित्तोय। आयाँभिसित्तो भरहो, तस्स उ पुत्तो परेणं तु ||105 / / राजा द्विविधो भवति / तद्यथा-आत्माभिषिक्तः, पराऽभिषि-क्तश्च / व्य५ उ / (विशेषतश्वास्या गाथाया: व्याख्या षष्ठे भागे 'राय' शब्दे करिष्यते) आता(या)रामि(न्) पुं० (आत्मारामिन्) आत्मविश्रामिणि आत्मानुभवमग्ने, सस्वयं संसारान्निवृत्तस्तत्सेवनापरान्नि-स्तारयति। अष्ट.९ अष्टा