________________ आता 232 अभिधानराजेन्द्रः भाग 2 आता स मम ज्ञाने ज्ञानविषये आलम्बनं; सहाय इत्यर्थः, 'हू' स्फुट भवतु इति शेषः / आत्मा मे दर्शन सम्यक्त्वे चारित्रेऽपि चालम्बनं, तथा प्रत्याख्याने भक्तपरिज्ञारूपे संयमे च संयमसर्वविरत्यङ्गीकाररूपे, योगे च-प्रशस्तमनोवाक्कायव्यापाररूपे ममाऽऽत्मैवालम्बनमनन्तान्यप्युपात्तानि द्रष्टव्यानि / एक एव चाऽऽत्मा सर्वमङ्गीकरोति। अथ निर्ममत्वाय एकत्वभावनां भावयतिएगो वचइ जीवो, एगो चेवुववज्जइ। एगस्स चेव मरणं,एगो सिज्भइ नीरओ / / 39 / / 'एगो वचई' एक: स्वजनधनादिरहितो व जति जीवो; भवान्तरमिति शेषः, एक एव च उत्पद्यते मनुष्यादिरूपतया, एकस्यैव मरणं भवति, एक एव च कर्मरजोरहितः सन् सिध्यति जीवः, भवान्तरगमनस्य मरणस्य चैकार्थत्वेऽपि पृथ गुपादानमेकत्व-भावनोत्कर्षपोषार्थं नानादेशजविनेयानां ध्यतार्थ प्रतिपादनार्थ वा। एगा मे सासओ अप्पा, नाणदंसणसंजुओ। सेसा मे बाहिरा भावा, सटवे संजोगलक्खणा / / 4 / / 'एगो मे' एक एव 'मे' मम आत्मा शश्वद्भवनात् शाश्वतः सहचारी ज्ञानदर्शनसंयुक्तः स एव; मदीय इत्यर्थः, शेषा केचन 'मे' मम बाह्या भावा: पदार्थाः; पुत्रकलत्रादिका: ते सर्वे संयोजन संयोग: स एव लक्षणं येषां ते तथा कृत्रिममेलापका एवेत्यर्थः; नतु शाश्वताः येषां संयोगस्तेषामवश्यंभावी वियोग इति हे तोर्न मदीयास्ते इति परमार्थः / आतु। आत्मकृतमेव च भुज्यतेको देइकस्स देज्जइ, विहियं को हरइ हीरए कस्स / सयमप्पणा विढत्तं, अल्लियइ सुहं पि दुक्खं पि // 19 // महा०६ अ. आत्मनैव च संसारमुत्तरतिणो णं गोयमा! गुरुसीसगाण निस्साए संसारमुत्तरेज्जा। णो णं गोयमा! परस्स निस्साए संसारमुत्तरेज्जा। अप्पणो निस्साए संसारमुत्तरेज्जा / महा. 3 अ.। (आत्मजयेनैव च क्रोधादिजय:) जे उ संगामकालंमि, नाया सूरपुरंगमा। णो ते पिट्ठमुवे हिंति, किं परं मरणं सिया / / 6 / / सूत्र०१ श्रु.३ अ०३ उ.1 (अस्या गाथाया अर्थ: 'अजत्तविसीयण' शब्दे प्रथमभागे 229 पृष्ठे गत:) तदेवं सुभटदृष्टान्तं प्रदर्श्य दाष्टान्तिकमाह-- तमेगे परिभासंति, भिक्खयं साहुजीविणं / जे एवं परिभासंति, अंत एते समाहिये // 6 // सूत्र 1 श्रु.३ अ३ उ. (अस्या गाथाया अर्थः 'परवादिवयण' शब्दे पञ्चमे भागे वक्ष्यते) धर्म: स्वाऽऽत्मसाक्षिक एव आया सयमेव अत्थाणं, निउणं जाणे जहहियं / आया चेव दुप्पतिज्जे, धम्मं वि य अत्तसक्खियं / / 9 / / महा. 10 / उक्तं च श्रीहरिभद्रपूज्यैः"आयप्पभवं धम्म, आयंति, य अप्पणो सरूवं च / दंसणनाणचरित्ते-गत्तं जीवस्य परिणामं // 1 // " रे भव्य! हिताय वदामः सर्वागमेषु धर्म आत्मन: शुद्धापरिणतिरेव निमित्तस्योपादानात्प्राकट्यहेतुत्वात्, बाह्या- चरणादिकं साथकैरारभ्यस्ते तथापि धर्महे तुत्वेनोपादेयं श्रद्धावद्भिः, तत्स्वात्मक्षेत्रव्यापक रूपानन्तपर्यायलक्षणं धर्म: उत्तराध्ययनावश्यकादिसर्वसिद्धान्ताशयः / अष्ट. 32 अष्ट / आत्मज्ञानस्यैव विद्यात्वम्नित्यशुच्यात्मताख्याति-रनित्याऽशुच्यनात्मसु / अविद्यातत्त्वधीविधा, योगाचार्यः प्रकीर्तिता // 1 // यः पश्ये नित्यमात्मान-मनित्यं परसंगमम् / छल लन्धुं न शक्नोति, तस्य मोहमलिम्लुचः // 2 / / तरगतरलां लक्ष्मी-मायुर्वायुवदस्थिरम् / अदभ्र धीरनुध्याये-दभ्रवद्रं वपुः / / 3 / / शुचीन्यप्यशुचीकत्तुं, समर्थेऽशुचिसम्भवे / देहे जलादिना शौच-भूमो मूठस्य दारुणः ||1|| यः स्नात्वा समताकुण्डे, हित्वा कश्मलजं मलम् / पुनर्न याति मालिन्यं, सोऽन्तरात्माः परः शुचिः / / 5 / / आत्मबोधो न व: पाशो, देहगेहधनादिषु / यः क्षिप्तोऽप्यात्मना तेषु स्वस्य बन्धाय जायते ||6| मिथो युक्तपदार्थाना-मसंक्रमचमत्क्रिया। चिन्मात्रपरिणामेन, विदुषवानुभूयते / / 7 / / अविद्यातिमिरध्वंसे, दृशा विधाजनस्पृशा। पश्यन्ति परमात्मान-मात्मन्येव हि योगिनः ||8|| अष्ट. 14 अष्टः / (अस्याष्टकस्य व्याख्यां 'विज्जा' शब्दे षष्ठे भागे करिष्यामि) (आत्मविवेकस्यैव विवेकत्वम्)कर्मजीवं च संश्लिष्टं, सर्वदा क्षीरनीरवत् / विभिन्नीकुरुते योऽसी, मुनिहंसो विवेकवान् / / 1 / / देहाऽऽत्माधविवेकोऽयं, सर्वदा सुलभो भवे / भवतोऽद्यापि तद्वेद-विवे कस्त्वतिदुर्लभः / / 2 / / शुद्धेऽपि व्योम्नि तिमिराद, रेखाभिमिश्रिता यथा। विकार मिश्रिता भाति, तथात्मन्यविवेकतः / / 3 / / यथा योधैः कृतं युद्धं, स्वामिन्ये वोपचर्यते / शुद्धात्मन्यविवे के न, कर्मस्कन्धोर्जितं तथा / / 4 / / इष्टकाधपि हि स्वर्ण, पीतोन्मत्तो यथेक्षते /