________________ आता 207 अभिधानराजेन्द्रः भाग 2 आता फल्गुसारस्य तडिल्लताविलसितचञ्चलस्य बह्वयायस्य दीर्घ-सुखार्थ क्रियासु प्रवर्तते। तथा हि-जीविष्याम्यहमरोग: सुखेन भोगान् भोक्ष्ये ततो ध्याध्यपनयनाथ स्नेहापानलावकपिशित-भक्षणादिषु क्रियासु प्रवर्त्तते, तथा अल्पस्य सुखस्य कृतेऽभिमानग्रहाकुलितचेता बलारम्भपरिग्रहाद् बहशुभं कर्माऽऽदत्ते, उक्तञ्च"द्वे वाससी प्रवरयोषिदपयशुद्धा, शय्यासनं करिवरस्तुरगो रथो वा। काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् / / 2 / / पुष्ट्यर्थमन्नमिह यत्प्रणिधिप्रयोगैः, संत्रासदोषकलुषो नृपतिस्तुभुडेक्त। यन्निर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न पार्थिवाऽन्नम् / / 2 / / भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदारितेक्षणासु / विश्रम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरतु सौख्यम्" // 3 // तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतय: कर्मा- ऽऽश्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्त्तन्ते तथा अस्यैव जीवितस्य परिवन्दनमाननपूजनार्थहिंसादिषु प्रवर्तन्ते। तथा परिवन्दनम्- संस्तव:; प्रशंसा तदर्थमाचेष्टते, तथाहि-अहंमयूरादिपिशिता-शनादली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति माननम्अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थं वा चेष्टमानः कर्माऽऽचिनोति, तथा पूजनपूजा द्रविण वस्त्रानपानसत्कारप्रमाणसेवाविशेषरूपं तदर्थच प्रवर्त्तमान: क्रियासु कर्माश्रवैरात्मानं सम्भावयति, तथाहि- वीरभोग्या वसुन्धरेति मत्वा पराक्रमते, दण्डभयात्सर्वाः प्रजा विभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम्, अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थ्य चतुर्थी विधेया, परिवन्दनमाननपूजनाय जीवितस्य कर्माश्रवेषु प्रवर्त्तन्त इति समुदायार्थः न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्या-र्थमप्यादत्त इति दर्शयति-जातिश्च मरण मोचनञ्च जातिमरण-मोचनमिति समाहारद्वन्द्वात्तादयें चतुर्थी, एतदर्थ च प्राणिन: क्रियासु प्रवर्तमाना: कर्माददते, तत्र जात्यर्थं क्रौञ्चारि-वन्दनादिका: क्रिया विधत्ते; तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुना-ऽप्युक्तम्- "वारिदस्तृप्तिमाप्नोति, सुखमक्षयन्नदः / तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः" ||1 // अत्र चैकमेव सुभाषितम्- अभयप्रदानमिति; तुषमध्ये कणिकावदिति एवमादिकुमा-र्गोपदेशात् हिंसादौ प्रवृत्तिं विदधाति, तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवर्त्तते, यदि वाममानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातनार्थ वधबन्धादौ प्रवर्तते, यदि वा | मरणनिवृत्त्यर्थमालगनो दुर्गाधुपयाचितमजादिना वलिं विधत्ते, यशोधर इव पिष्टमयकुक्कुटेन तथा मुक्त्यर्थमज्ञानावृतचतस: पञ्चाग्नितपोऽनुष्ठानादिकेषुप्राण्युपमईकारिषु प्रवर्तमान: कर्माऽऽददते, यदि वाजातिमरणयोर्विमोचनाय हिंसादिकाः क्रिया: कुर्वते, "जाइमरणभोयणाए''- त्ति पाठान्तरम् तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनप-वनवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति / तथा दु:खप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारम्भानासेवन्ते, तथा हिव्याधिवेदना लावकपिशितमदिराद्यासेवन्ते तथा वनस्पतिमूलत्वक् पत्रनिर्यासादिसिद्धशतपाकादितैलार्थमन्यादि- सम्मारम्भेण पापं कुर्वन्ति, स्वत: कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाक्काययोगे: कर्माऽऽदानं विदधतीत्यायोजनीयम् / तथा दु:खप्रतिघातार्थमेव सुखोत्पत्त्यर्थंच कलत्रपुत्रगृहोपस्कराधा-ददतेतल्लाभपालनार्थच तासु तासु क्रियासु प्रवर्तमाना: पापकर्माऽऽसेववन्त इति / उक्तञ्च- "आदौ प्रतिष्ठाधिगमे प्रयासो, दारेषु पश्चाद् गृहिणः सुतेषु। कर्तुं पुनस्तेषुगुणप्रकर्ष, चेष्टा तदुच्चैः पदलनाय" // 1 // तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिक्ष्वनुसञ्चरन्ति अनेकरूपासुचयोनिषुसन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति। एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाहएयावन्ति सव्वान्ति लोगंसि कम्मसमारम्भा पंरिजाणियव्या भवन्ति। (सूत्र-१२) 'एतायंती' त्यादि 'एआवन्ति सव्वावन्ति' इति-एतौ शब्दौ मागधदेशीभाषाप्रसिध्या एतावन्त: सर्वेऽपीत्येत्तत्पर्यायौ एता-वन्त एव सर्वस्मिन लोकधर्माऽधर्मास्तिकायावच्छिन्नै नमः खण्डे ये पूर्व प्रतिपादिताः कर्मसमारम्भा:- क्रियाविशेषा: नैतेभ्योऽधिका: केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रो-पादानादिति भावः, तथाहि- आत्मपरोभयैहिकामुष्मिकाऽतीताऽनागत वर्तमानकालकृतकारिताऽनुमतिभिरारम्भा: क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथा सम्भवमायोज्या इति। एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदोपसंहारद्वारेण विरतिं प्रतिपाद-यन्नाह जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवन्ति से हु मुणी परिण्णायकम्मे त्ति बेमि। (सूत्र-१३) 'जस्से' त्यादि, भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाहयस्यमुमुक्षोरेतेपूर्वोक्ताः कर्मसमारम्भाः क्रिया-विशेषा: कर्मणो वा ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भा उपा-दानहेतवस्ते च क्रियाविशेषा एव परिसमन्तात् ज्ञाता: परिच्छिन्ना: कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगत-स्त्रिकालावस्थामिति मुनि: स एव मुनिपज्ञिया परिज्ञातका प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तम-नोवाक्कायव्यापार इति अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तग-"ज्ञान-क्रियाभ्यां मोक्षः" इति। इतिशब्दएतावानयमात्मपदार्थ