________________ आता 208 अभिधानराजेन्द्रः भाग 2 आता विचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदि वा-'इति' -एतदहं ब्रवीमि यत्प्रागुक्तं यच वक्ष्ये तत् सर्व भवगदन्तिके साक्षात् श्रुत्वेति / आचा.१ श्रु.१ अ०१ उ. ! (आत्माऽस्तित्वे बहुभङ्गा: क्रियावादिनः, अक्रियावादिन:, ते च 'अकिरियावाइ' शब्दे प्रथमभागे दर्शिताः। 'किरिया-वाइ' शब्दे तृतीयभागे च दर्शयिष्यामि।) आत्मास्तित्वं विस्तरेणसुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं णो सण्णा भवइ। (सूत्र-१)।तं जहा पुरच्छिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्चच्छिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्डाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिंणो णायं भवति। (सूत्र-२) आचा०१ श्रु.१ अ०१ उ. / (अनयो: सूत्रयोयाख्यानं 'सण्णा' शब्दे सप्तमभागे करिष्यते) अत्रस्थनियुक्तिगाथाव्याख्यानम् 'दिसा' शब्दे चतुर्थभागे करिष्यते) अत्र च सामान्यदिग्रहणेऽपि यस्यां दिशि जीवानामाविगानेन गत्यागती स्पष्टे सर्वत्र संभव-तस्तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षाद्दर्शयति भावादिग्भावेन भाविनी सामर्थ्यादधिकृतैव यतस्तदर्थमन्वादिश-श्चिन्तयन्नाह ! आचा०१ श्रु०१ अ.१ उ / तत्रेह- एवमेगेसिं णो णायं भवइ' इत्यनेन केषांचिदेव संज्ञानिषेधात्केषांचित्तु भवती-त्युक्तं भवति / तत्र सामान्यसंज्ञायां प्रतिप्राणि सिद्धत्वा-त्तत्कारणपरिज्ञानस्य चेहाकिंचित्करत्वा द्विशिष्टसंज्ञायास्तु के षांचिदेव भावात्तस्याश्च भवान्तरगात्म्यात्मनः स्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनादृत्य विशिष्ट-संज्ञाया: कारणं सूत्रकृद्दर्शयितुमाह से जं पुण जाणेज्जा सह संमइयाए परवागरणेणं अण्णेसिं अंतिए वा सोचा, तं जहा-पुरत्थिमाओ वा दिसाओ आगओ अहमंसि,जाव अण्णयरीओ दिसाओ अणुदिसाओवा आगओ अहमंसि, एवमेगेसिं जंणायं भवति-अस्थि मे आया उववाइए, जो इमाओ दिसाओ अणुदिसाओ वा अणुसंचरइ, सव्वाओ दिसाओ अणुदिसाओ, सोऽहं। (सूत्र-४) आचा०१ श्रु०१० अ०१ उ०। (अस्य सूत्रस्य व्याख्यानम् 'दिसा' शब्दे चतुर्थभागे करिष्यते) इसमेवार्थ नियुक्तिकृदयितुमना गाथात्रितयमाहजाणइ सयं मतीए, अन्नेसिं वाऽवि अंतिए सोचा। जाणगजणपण्णविओ, जीवंतह जीवकाए वा // 14 // एत्थय सह सम्मइय-त्तिजं एवं तत्थ जाणना होइ। ओहीमणपज्जवना-णकेवले जाइसरणे य / / 15 / / परवइवागरणं पुण, जिणवागरणं जिणा परं नऽथि। अण्णेसिं सोपं ति य जिणेहि सवो परो अण्णो // 66 // 'जाणइ' त्यादि 'एत्थये' त्यादि, 'परे' त्यादि कश्चिदना-दिसंसृतौ पर्यटन्नबध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति / अनानुपूर्वीन्यायप्रकटनार्थं पश्चादुपात्तमप्यन्येषा-मित्येतत्पदं तावदाचष्टे अन्येषां वाऽतिशयज्ञानिनामन्तिके श्रुत्वा जानाति, तथा'जाणगजणपण्णविओ' इत्यनेन परव्याकरण-मुपात्तं, तेनायमर्थोज्ञापकस्तीर्थकृत तत्प्रज्ञापितश्च जानाति यज्जानाति तत्स्वत एव दर्शयतिसामान्यतो 'जीवमि' ति अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा- 'जीवकायांश्च' पृथ्वीकायादीन् इत्यनेन चोत्तरेषां षण्णामप्युदेशकानां यथाक्रममधिकारार्थमाहेति, अत्र-च-'सहम्मइए'त्ति-सूत्रेयत् पदं, तत्र 'जाणण' त्ति-ज्ञानमुपातं भवति,'मन' ज्ञाने, मननं भतिरिति कृत्वा, तब किंभूतमिति दर्शयति अवधिमन: पर्यायके वलजातिस्मरणरूपमिति, तत्रावधिज्ञानी संख्येयानसंख्ये-यान्वा भवान् जानाति एवं मन:पर्यायज्ञान्यऽपि, केवली तु नियमतोऽनन्तान, जातिस्मरणस्तु नियमत: संख्येयानिति, शेषं स्पष्टम् अत्र च-सहसन्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ता: प्रदर्श्यन्ते, तद्यथावसन्तपुरे नगरे जितशत्रू राजा, धारणी महादेवी, तयोर्द्धर्मरुच्यभिधान: सुतः। स च राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुर्द्धर्मरुचिं राज्ये स्थापयितुमुद्यत: / तेन च जननी पृष्टा किमिति तातो राज्यश्रियं त्यजति?, तयोक्तं किमनया चपलया नारकादिसकलदु:खहेतुभूतयास्वर्गापवर्गमार्गिलयाऽवश्यमपायिन्या परमार्थत इह लोकेऽप्यभिमान-मात्रफलयेत्यतो विहायैनां सकलसुखसाधनं धर्म कर्तुमुद्यत; धर्मरुचिस्तदाकर्योक्तवान्यद्येवं किमहं तातस्यानिष्टो येनैवभूतां सकलदोषाश्रयणीं मयि नियोजयति. सकलकल्याणहेतो-र्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसा-श्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ता: पालयन्नास्ते। अन्यदामावास्याया: पूवह्नि केनचित्तापसेनोत्तं यथा भो: भो: तापसा: श्वोऽनाकुट्टिभविता अतोऽद्यैव समित्कुसुमकुशकन्द-फलमूलाद्याहरणं कुरुतैतचाकर्ण्य धर्मरुचिना जनक: पृष्टस्तात ! केयमनाकुट्टिरिति तेनक्तंपुत्र! कन्दफलादीनामच्छेदनंतद्ध्यमावास्यादिकेविशिष्टे पर्वदिवसे नवर्तते, सावद्य-त्वाच्छेदनादिक्रियायाः। श्रुत्वा चैतदसावचिन्तयत्यदि सर्वदानकुट्टिः स्याच्छोभनं भवेद्, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनसन्नपथेन गच्छतां साधूनां दर्शनमभूतेचतेनाभिहिता: किमद्यभवतामनाकुहिनसञ्जातायेनाटवीं प्रस्थिता:, तैरप्यभिहितं यथाऽस्माकं यावज्जीवमनाकुटिः; इत्यभिधायातिक्रान्ता: साधवस्तस्य च तदाकयेहापोहविमर्शन जातिस्मरणमुत्पन्नंयथाह जन्मान्तरे प्रव्रज्यां कृत्वा देवलोक-सुखमनुभूयेहागत इति एवं तेन विशिष्टदिगागमनं स्वमत्या जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्क लचीरिश्रेयांसप्रभृतयोऽत्र योज्या