________________ आता 205 अभिधानराजेन्द्रः भाग 2 आता (14) साम्प्रतं कस्या दिश आगतोऽहमिति प्रकृतमनुस्रियते / यो हि 'सोऽहम्' इत्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादिदिश आगतमात्मानमवच्छिन्नसन्ततिपतितं द्रव्यार्थतया नित्यम् / पर्यायार्थतया त्वनित्यं जानाति स परमार्थत आत्मवादीति / सूत्रकृद्दर्शयतिअस्थि मे आया उववाइये, जो इमाओ दिसाओ अणुदि-साओ वा अणुसंचरइ, सव्वाओ दिसाओ अणुदिसाओ, सोहं (सूत्र४४) आचा०१ श्रु.१ अ०१०ऊ / (अस्य सूत्रस्य व्याख्या चतुर्थभागात् -2526 पृष्ठे करिष्यमाणादवगन्तव्या) से आयावादी, लोगावादी, कम्मावादी, किरियावादी / (सूत्र-५)। 'से' इति-यो भ्रान्तः पूर्वं नारकतिर्यनरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूर्तादिलक्षणोपेत-मात्मानमवैति स इत्थंभूत आत्मवादीति आत्मानं वदितुं शीलमस्येति / यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति। सोऽना- त्मवादी; नास्तिक इत्यर्थः। योऽपि सर्वव्यापिनं नित्य क्षणिकं वाऽऽत्मानमभ्युपैति; सोऽप्यनात्मवाद्येवयत: सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिर्न स्यात्सर्वथा नित्यत्वेऽपि अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमिति कृत्वा मरणाऽभावेन गवान्तरसंक्रान्तिरेव न स्यात्,सर्वथा क्षणिकत्वेऽपि निर्मूल- विनाशात् सोऽहमित्यनेन पूर्वोत्तरानुसंधानं न स्यात् / य एव चात्मवादी स एव परमार्थतो लोकवादी। यतो-लोकयतीति लोक:-प्राणिगणस्तं वदितुं शीलमस्येत्यनेन चात्माद्वैतवादि- निरासेनात्मबहुत्वमुक्तम्, यदि वालोकाऽपतीति लोक:- चतुर्दशरज्वात्मकः, प्राणिगणो वा, तत्राऽऽपतितुं शीलमस्ये- त्यनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञा वंदिता, तत्र च जीवास्तिकायस्य संभवेन जीवानां गमनागमनमावेदितं भवति / य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः स एवासुमान् कर्मवादी कर्म-ज्ञानवरणीयादि तद्वदितुं शीलमस्य यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्वं गत्या-दियोग्यानि कर्माण्याददते, पश्चात्तासु तासु विरूपरूपासु यो निषूत्पद्यन्ते / कर्म च * प्रकृतिस्थित्यनुभावप्रदेशात्मक-मवसेयमिति। अनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः। तथा य एव कर्मवादी; स एव क्रियावादी / यत: कर्म योगनिमित्तं बध्यते, योगश्च- व्यापार:, स च क्रियारूप:, अत: कर्मण: कार्यभूतस्य वदनात्तत्कारणभूताया: क्रियाया: अप्यसावेव परमार्थतो वादीति क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः'जावणं भंते ! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जाव तं तं भावं परिणयति ताव (वं) च णं अवविहबंधए वा सत्तविहबंधए वा छव्वहबंधए वा एकविहबंधए वाणो णं अबंधए' ति। एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति। अनेन च सायाभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति। सांप्रतं पूर्वोक्ता क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिनातिङ्प्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमन: पर्यायकेवलज्ञानजातिस्मरणव्यति-रेकेणैव त्रिकाल- संस्पर्शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह अकरिस्संचहंकारवेसुंचहं करओ आविसमणुन्ने भविस्सामि / (सूत्र-६) इह भूतवर्त्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिर्नवविकल्पा: संभवन्ति, ते चामी-अहमकार्षमचीकरमहं कुर्वन्तमन्यमनुज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्या-म्यह कारयिष्याम्यहं कुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषांच मध्ये आद्यन्तौ सूत्रेणैवोपात्तौ तदुपादानाच तन्मध्यपातिनां सर्वेषां ग्रहणम्, अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः / "कारवेसुं चऽहमिति" सूत्रेणोपात्त:, एतेच चकारद्वयोपादानादपिशब्दो-पादानाच मनोवाक्कायैश्चिन्त्यमानाः सप्तविंशति: 27 भेदा भवन्ति, अयमत्र भावार्थ: अकार्षमहमित्यत्राहमित्यने-नात्मोल्लेखिना विशिष्टिक्रियापरिणतिरूप आत्मा अभिहित-स्ततश्चायं भावार्थो भवति-स एवाऽहं येन मयास्य देहादे: पूर्व यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकार्यानुष्ठानपरायणेनानुकूल्यमनुष्ठितम्। उक्तञ्च-"विहवावलेबनडिएहिं, जाई कीरति जोव्वणमएणं / वयपरिणामे सरियाई ताइं हियए खुडुक्कंति" // 1 // तथा अचीकरमहमित्यनेन परोपकार्यादौ प्रवर्तमानो मया प्रवृत्ति कारित:, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं, तथा करोमीत्यादिना वचनत्रि-केण वर्तमानकालोल्लेख:, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान्प्रति समनुज्ञापरायणो भविष्यामीत्यनागत-कालोल्लेख:, अनेन च कालत्रयसंस्पर्शन देहेन्द्रियाति-रिक्तस्यात्मनो भूतवर्तमानभविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरावेदिता भवति, सा च- नैकान्तक्षणिकनित्य-वादिनांसंभवतीत्यतोऽनेनते निरस्ता: क्रियापरिणामेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव संभवानुमानादतीतानागतयोरपि भवयोरात्मास्तित्वमवसे यम् / यदि वा-अनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूताया: क्रियायाः स्वरूप-- मावेदितमिति। अथ किमेतावत्य एव क्रिया; उतान्या अपि सन्तीत्येता एवेत्याहएयावंति सटवावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति। (सूत्र-७) एतावन्त: सर्वेऽपि लोकेप्राणिसंघाते कर्मसमारम्भाः क्रिया-विशेषा ये प्रागुक्ता: अतीतानागतवर्तमानभेदन कृतकारिता नुमतिभिश्वाशेषक्रियानुयायिनाच करोतिनासर्वेषां संग्रहा-दित्येतावन्त एवपरिज्ञातव्या भवन्ति; नान्ये इति। परिज्ञा चज्ञप्रत्याख्यानभेदाद्विधा, तत्रज्ञपरिज्ञायामात्मनो बन्धस्य चास्तित्वमेतावद्भिरेव सर्वैः कर्मसमारम्भैज्ञातं भवति प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति / इयता सामान्येन जीवास्तित्वं प्रसाधितम् /