________________ आता 203 अभिधानराजेन्द्रः भाग 2 आता तिरिक्तोऽपरः कश्चिदात्माख्य: पदार्थो न विद्यते कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह-अथैषां कायाऽऽकारपरिणतौ चैतन्याभिव्यक्ती सत्यां तदूर्ध्वं तेषामन्यतमस्य विनाशे-अपगमे वायोस्तेजसश्च उभयो देहिनोदेवदत्ताख्यस्य विनाश:-अपगमो भवति, ततश्च: मृतइति व्यपदेश: प्रवर्तते, न पुनर्जीवापगम इति भूताऽव्यतिरिक्त चैतन्यवादिपूर्वपक्ष इति। अत्र प्रतिसभाधानार्थ नियुक्तिकृदाहपंचण्हं संजोए, अण्णगुणाणं च चेयणाइगुणो। पंचिंदियठाणाणं, ण अण्णमुणियं मुणइ अण्णो ||33 / / 'पंचण्हं संजोए' इत्यादि, पञ्चानां पृथिव्यादीनां भूतानां संयोगेकायाकारपरिणामे चैतन्यादिक:। आदिशब्दात्भाषा- चक्रमणादिकश्च गुणो न भवतीति प्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः / दृष्टान्तस्त्वभ्यूह्य:, सुलभत्वात्तस्य नोपादानम् / तत्रेदं चार्वाक: प्रष्टव्य:यदेतद्भूतानां संयोगे चैतन्यमभिव्यज्यते तत्किं तेषां संयोगेऽपि स्वातन्त्र्य एव, आहोस्वित् परस्परापक्षया पारतन्त्र्ये इति। किंचात:? न तावत्स्वातन्त्र्ये, यत आह- 'अन्नगुणाणं चे' ति-चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहि-आधारकाठिन्यगुणा पृथिवी, द्रवगुणा आपः, पक्तृगुणं तेज:, चलनगुणो वायुः, अवगाहदानगुणमाकाशमिति। यदि वा प्रागभिहिता गन्धादयः पृथिव्यादीनामेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः, चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीना- मेकैकस्याप्यभावान्न तत्समुदायाचैतन्याख्यो गुण: सिद्ध्यतीति, प्रयोगस्तत्र भूतसमुदाय: स्वातन्त्र्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्मः, पृथिव्या दीना-मन्यगुणत्वात्, यो योऽन्यगुणानां समुदायस्तत्र तत्राऽपूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदायै स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति, घटपटसमुदाये वा न स्तम्भाद्याविर्भाव इति, दृश्यते चा काये चैतन्यं, तदात्मगुणो भविष्यति, न भूतानामिति। अस्मिन्नेव साध्ये हेत्तवन्तरमाह-'पंचिंदिय-ठाणाणं' ति-पञ्चचतानि स्पर्शनरसनघ्राणचक्षुःश्रात्रा ख्यानीन्द्रियाणि तेषां स्थानानि- अवकाशास्तेषां चैतन्य गुणाभावान्न भूतसमुदाये चैतन्यम्। इदमत्र हृदयम्- लोकायतिकानां हि अपरस्य द्रष्टुरनध्युपगमादिन्द्रियाण्येव द्रष्ट्र णि / तेषां च यानि स्थानान्युपादानकारणानितेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणां चामूनि स्थानानि / तद्यथा- श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात्, घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात्, चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात्, एवं रसनेन्द्रियस्याऽऽप: स्पर्शनेन्द्रियस्य वायुरिति / प्रयोगश्चात्र- नेन्द्रियाण्युपलब्धिमन्ति तेषामचेतनगुणाऽऽरब्धत्वात्, यद्यदचेतनगुणाऽऽरब्धं तत्तदचेतनम्, यथा घटपटादीनि / एवमपि च भूतसमुदाय चैतन्याभाव एव साधितो भवति, पुनर्हेत्वन्तरमाह- 'ण अण्णमुणियं मुणइ अण्णो' त्ति- इहेन्द्रियाणि प्रत्येकं भूतात्मकानि तान्येवापरस्य द्रष्टुरभावाद्र्ष्ट्रणि तेषांच प्रत्येकं स्वविषग्रहणादन्यविषये चाप्रावृत्ते न्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीत्यतो मया पञ्चापि विषया ज्ञाता इत्येवमात्मक: संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं, तस्मादेकेनैव द्रष्टा भवितव्यम्, तस्यैव च चैतन्यं न भूतसमुदायस्येति, प्रयोग: पुनरेवम्-न भूतसमुदाये चैतन्यं, तदारब्धेन्द्रियाणां प्रत्येक-विषयग्राहित्वे सति संकलना- प्रत्ययाभावात्, यदि पुनरन्यगृहीतमप्यन्यो गृह्णीयादेवदत्तगृहीतं यज्ञदत्तेनापिगृह्येतन चैतद्दृष्टमिष्टं चेति / ननु च स्वातन्त्र्यपक्षेऽयं दोषः / यदा पुन: परस्पर-सापेक्षाणां संयोगपारतन्त्र्याभ्युपगमेन भूतानामेव समुदि तानां चैतन्याख्यो धर्म: संयोगवशादाविर्भवति, यथा किंण्वोदकादिषु मद्याङ्गेषु समुदितेषु प्रत्येकमविद्यमानापि मदशक्तिरिति तदा कुतोऽस्य दोषस्यावकाश इति / अत्रोत्तरम् गाथो पात्तचशब्दाऽऽक्षिप्तमभिधीयते यत्तावदुक्तं यथा भूतेभ्य: परस्परव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते,तत्र विकल्पयाम:किमसौ संयोग: संयोगिभ्यो भिन्न: अभिन्नो? वा भिन्नश्चेत्षष्ठभूतप्रसङ्गो नचान्यत्पञ्चभूतव्यतिरिक्तसंयोगाख्य- भूतग्राहंक भवतां प्रमाणमस्ति प्रत्यक्षस्यैवैकस्याभ्युपगभात्तेन च तस्याग्रहणात् प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु तथाऽभिन्नो भूतेभ्यो भूतानामेव संयोगस्तत्राप्येतचिन्तनीयं किं भूतानि प्रत्येकं चेतनावन्ति, अचतेनावन्तिवा यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिस्तदा समुदायस्य पञ्चप्रकारचैतन्यापत्तिः, अथअचेतनानि तत्रोक्तो दोषो न हि यद्यत्र प्रत्येकमविद्यमानं तत्समुदाये भवदुपलभ्यतेसिकतासुतैलवदित्यादिना। यदप्यत्रोक्तम्-यथामध्याङ्गेष्वविद्यमानाऽपि प्रत्येकंमदशक्ति: समुदाये प्रादुर्भवतीति / तदप्ययुक्तम्, यतस्तत्र किंण्वादिषु या च यावती शक्तिरुपलभ्यते, तत्राहि-किण्वे दुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्य चोदकस्य तृडपनयनसामर्थ्यमित्यादिनेति, भूतानां प्रत्येक चैतन्याऽनभ्युपगमे दृष्टान्तदाान्तिकयोरसाम्यम् / किं चभूतचैतन्याभ्युपगमे मरणाऽभावो, मृतकायेऽपि पृथिव्यादीनां भूतानां सद्भावात्, नैतदस्ति, तत्र-मृतकाये वायोस्तेजसो वा अभावान्मरणसद्भाव इत्यशिक्षितस्योल्लाप: / तथाहि-मृतकाये शोफोपलब्धेर्न वायोरभाव: कोथस्य च पक्तिस्वभावस्य दर्शनान्नाग्ने रिति, अथ सूक्ष्मः कश्चिद्वायुविशेषो निर्वा ततोऽपगत इति मतिरित्येवं च जीव एव नामान्तरेणाभ्युपगतो भवति, यत् किंचिदेतत्। तथानभूतसमुदायमात्रेण चैतन्याविर्भाव: पृथिव्यादिष्येकत्र व्यवस्था-पितेष्वपि चैतन्यानुपलब्धेः / अथ कायाकारपरिणतौ सत्यां तदभिव्यक्तिरिष्यते, तदपि न यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडत्वमेवोपलभ्यते। तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं चैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चायं शरीरेषु / तस्मात् पारिशेष्यात् जीवस्यैवायमिति स्वदर्शनपक्षपातं विहाया- ङ्गीक्रियतामिति।यचोक्तं प्राग् नपृथिव्यादिव्यतिरिक्तआत्मा-स्ति,तद्ग्राहकप्रमाणा-भावात्, प्रमाणंचात्र प्रत्यक्ष-मेवैकमित्यादि, तत्र प्रतिविधीयते- यत्तावदुक्तम्- 'प्रत्यक्षमेवैकं