SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आता 202 अभिधानराजेन्द्रः भाग 2 आता भावेन परिणतेभ्यः / केन भवति? इत्याह 'घटोऽयं' 'पटोऽ- यमि' त्वादिविज्ञानभावेन-घटादिज्ञानपर्यायेण / ततः किम्? इत्याशङ्कय तान्येवानुविनश्यतीत्यस्यार्थमाह- 'ताई चिए' त्यादि, तान्येव ज्ञानालम्बनभूतानिघटादिभूतानि क्रमश:- कालक्रमेण व्यवधानस्थगनाऽन्यमनस्कत्वादिनार्थान्तरोपयोगे सति विज्ञेयभावेन-ज्ञानविषयभावेन विनाशमश्नुवानानि अनुपश्चात्- तद्बोधपर्यायेण, स विज्ञानघनो विनश्यतीति संबन्धः / ज्ञानपयिण घटादिभ्यो ज्ञेयभूतेभ्यो जीव: समुत्थाय कालक्रमाद् व्यवधानादिना अर्थान्तरोपयोगे सति ज्ञेयभावेन तान्येव विनाशमश्नुवानान्यनुविनश्यतीति तात्पर्यार्थः / किमित्थं सर्वथाऽयमात्मा विनश्यति? न इत्याहपुवावरविण्णाणो-वओगओ विगमसंभवसहाओ। विण्णाणसन्तईए, विणाणघणोऽयमविनासी॥१५९५ / / एक एवायमात्मा त्रिस्वभावः / कथम्? इत्युच्यतेअर्थान्त-रोपयोगकाले पूर्व विज्ञानोपयोगेन तावदयं विगमस्वभावो-विनश्वररूपः, अपरविज्ञानोपयोगतस्तुसंभवस्वभाव उत्पाद-स्वरूपः,अनादिकालप्रवृत्तसामान्यविज्ञानमात्रसंतत्या पुनरयं विज्ञानघनो जीव: अविनष्ट एवावतिष्ठते / एवमन्यदपि सर्व वस्तूत्पादव्ययध्रौव्यस्वभावमेवावगन्तव्यम्, न पुन: किमपि सर्वधात्पद्यते विनश्यति चेति। 'न प्रेत्य संज्ञाऽस्ति' इत्येतद्व्याचिख्यासुराहनच पेच नाणसन्ना-ऽवतिट्ठए संपओवओगाओ। विण्णाणघणाभिक्खो,जीवोऽयं वेयपयभिहिओ।।१५९६ / / नच प्रत्येति- न चान्यवस्तूपयोगकाले प्राक्तनी ज्ञानसंज्ञाऽस्ति कुत:? सांप्रतवस्तुविषयोपयोगात् / इदमुक्तं भवति यदा घटोपयोगनिवृत्ती पटोपयोग उत्पद्यते, तदा घटोपयोगसंज्ञा नास्ति, तदुपयोगस्य निवृत्तत्वात्; किं तुपटोपयोगसंहवास्ति, तदुपयोगस्यैव तदानीमुत्पनत्वात्। तस्माद्विज्ञानघनाऽभिख्यो वेदपदेष्वभिहितोऽयं जीवः। ततो गौतम! प्रतिपद्यस्व एनमिति। पुनरपहि प्रेर्यमाशय परिहरन्नाहएवं पि भूयधम्मो, नाणं तब्भावभावओ बुद्धी। तन्नो तदभावम्मि वि, जं नाणं वेयसमयम्म् i // 1597 / / अत्थमिए आइचे, चंदे संतासु अम्गिवायासु। किं जोइरयं पुरिसो, अप्पजोइ त्ति निद्दिट्टो // 1598 / / 'बुद्धी' ति स्याद् बुद्धि: प्रेकरस्य-एवमपि 'स भवइ भूयेहितो' इत्यादिना युष्मद्व्याख्यानप्रकारेणापीत्यर्थः, पृथिव्यादिभूतधर्म एवं ज्ञानं भूतस्वाभावात्मकमेव ज्ञानमिति भावः / कुत इत्याह'तभावभावउ' त्ति-एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु-विनश्यतीति वचनाद्भूतसद्भावे ज्ञानस्य भावात् तदभावे चाभावा-दित्यर्थः, यस्य च भावे एव यद्भवति, अभावे च न भवति तत्तस्यैव धर्मो, यथा चन्द्रमसश्चन्द्रिका, तथा च ज्ञान-मनुविदधाति भूतान्वयव्यतिरेको, तस्मात्तद्भूतधर्म एव / तदयुक्तम्, विशिष्टमेव हि नीलपीतादिभूतग्राहक ज्ञानं तदन्वयव्यतिरेकावनुविदधातिन तुसामान्य ज्ञानमात्रम्, यस्माद, भूताभावेऽपि वेदलक्षणे समये सिद्धान्ते 'सामान्यज्ञानं भणितमेव' इति शेष: केन वाक्येन इत्याह-'अत्थमिए' इत्यादि, अस्तमिते आदित्ये, याज्ञवल्क्यश्चन्द्रमस्यस्तमिते, शान्तेऽग्नौ, शान्तायां वाचि, किं ज्योतिरेवायं पुरुषः, आत्मज्योति: सम्राडिति होवाच, ज्योति रितिज्ञानामाह / आदित्याऽस्तमयादौ किं ज्योति:? इत्याह-'अयं पुरुष' इति, पुरुषः, आत्मेत्यर्थः / अयं च कथंभूत? इत्याह-'अप्पज्जोइ' त्ति-आत्मैव ज्योतिरस्य सोऽयमात्म-ज्योति:-ज्ञानात्मक इति हृदयम्, निर्दिष्टो वेदविद्भिः कथितः, ततो न ज्ञानं भूतधर्मा इति स्थितम् / इतश्च न ज्ञानं भूतधर्माः, कुत ? इत्याहतदभावे भावाओ, भावे चाभावओ न तद्धम्मो। जह घडभावाऽभावे, विवज्जयाओ पडो भिन्नो ||1599 / / नभूतधर्मो ज्ञानम्, मुक्त्यवस्थायां भूताभावेऽपि भावात्, मृतशरीरादौ तद्भावेऽपि चाभावात्, यथा घटस्य धर्म: पटोन भवति, किंतु तस्मादिन्न एव / कुत:? इत्याह- घटभावाभावे विपर्ययात्-घटभावेऽप्यभावात तदभावेऽपि च भावादित्यर्थः / विशे। आम. I आव / कल्प० / (विशेषस्त्वत्र सम्म-तितर्कग्रन्थादवसेय:) (13) अभौतिकत्वमात्मन:(पञ्चभूताद् व्यतिरिक्तो गन्धरसोरूपस्पर्शशब्दरूपः भिन्नो न कश्चित् पदार्थ:)एए पचं महन्भूया, तेव्भो एगो त्ति आहिया। अह तेसिं विणासेणं, विणासो होइ देहिणोद। 'एए पञ्च महाभूया' इत्यादि, एतानि-अनन्तरोक्तानि पृथिव्यादीनि पञ्चमहाभूतानि यानि तेभ्यः कायाकारपरिणतेभ्यः एकः कश्चिचिद्रूपो भूताऽव्यतिरिक्त आत्मा भवति; न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्पर:परकल्पित: परलोकानुयायी सुखदु:खभोक्ता जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, तथाहि-एवं प्रमाणयन्ति-नपृथिव्यादिव्यतिरिक्त आत्मास्ति, तद्ग्रहकप्रमाणाभावात, प्रमाणं चात्र प्रत्यक्षमेव, नानुमानादिकम्, तत्रेन्द्रियेण साक्षादर्थस्य संबन्धाभावाद्व्यभिचारसंभवः / सति च व्यभिचारसंभवे सदृशे च बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः / तथाचोक्तम्-"हस्तस्पर्शादिबान्धेनविषमे पथि धावता। अनुमानप्रधानेन, विनिपातो न दुर्लभ:" // 1 // अनुमानं चात्रोपलक्षणमागमादीनामपि / साक्षादर्थसंबन्धाभावाद्ध-स्तस्पर्शनेव प्रवृत्तिरिति। तस्मात्प्रत्यक्षमेवैकं प्रमाणं, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणम् / यत्तु चैतन्यं तेषूपलभ्यते तद्भूतेष्वेव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवदिति / तथा न भूतव्यतिरित्तं चैतन्यं तत्कार्यत्वाद् घटादिवदिति तदेवं भूतव्यतिरिक्तस्यात्मनोऽभावाद् भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुदबुदाभिव्यक्तिवदिति / केषांचिल्लोकायतिकानामाकाशस्यापि भूतत्वेनाभ्युपगमाद्भू-तपञ्चकोपन्यासो न दोषायेति। ननुचयदिभूतव्य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy