________________ आता 201 अभिधानराजेन्द्रः भाग 2 आता त्सत्यं दृष्टम्, यथा मार्गज्ञस्य भयरहितस्य प्रष्टरि रागद्वेष-रहितस्य मार्गोपदेशवचनम्, तथा च मद्वध: तस्मात्सत्य मनतिपाति चेति। अत्र गौतममाशय भगवानुत्तरमाहकह सवण्णु त्ति मई,जेणाहं सव्व संसयच्छेई। पुच्छसु वजन जाणसि, जेण व ते पचओ होज्जा / / 1179 / / कथं नाम 'त्वंसर्वज्ञः' इतितेमति:? एवं त्वं मन्यसे, तथा भयरागद्वेषमोहाभावश्चासिद्ध इति मन्यसे, तदयुक्तम् येनाहं सर्वसंशयच्छेदी यश्च सर्वसंशयच्छेता स सर्वज्ञ एव। दृष्टान्ताभावेनान्वयासिद्धेरनैकान्तिकोऽयं हेतुरिति चेत्, नसर्वसंशयच्छेतृत्वानुपपत्तिरेवेह विपर्यये बाधकं प्रमाणं, किमि-हान्वयान्वेषणेन? यदि वापृच्छ्यतां यत्रैलोक्यान्तर्गतं, वस्तुत्वं न जानासि, येन सर्वज्ञत्वप्रत्ययस्तव जायते / भयाद्यभावोऽपि तल्लिङ्गादर्शनात् मयि सिद्ध एवेति स्वयमेव द्रष्टव्यम् / कदाचिदपि लिङ्गादर्शने लिङ्गिनोऽस्तित्वशङ्कायामतिप्रसङ्ग इति। अथोपसंहरन्नाहएवमुवओगलिंगंगोयम! सव्वप्पमाणसंसिद्ध / संसारीयरथावर-तसाइभेयं मुणे जीवं / / 1580 / / एवम्- उक्तेन प्रकारेण जीवम्-आत्मानं गौतम ! मुणप्रति-पद्यस्वेति संबन्ध: / कथंभूतम्? उपयोग एव लिङ्ग यस्य स तथा, सर्वैः प्रत्यक्षानुमानागमप्रमाणैः संसिद्धम्प्रतिष्ठितम्, तथा संसारीतरस्थावर सादिभेदम् / संसारिणश्च इतरेसिद्धा: / आदिशब्दाचसूक्ष्मबादरपर्याप्तापर्याप्तादि भेदपरिग्रह इति। विशे। (जीवस्यैकत्वनिराकरणयुक्ति: 'एगावाइ' शब्दे तृतीय-भागे 34 पृष्ठे वक्ष्यते) अथ "विज्ञानघन एवैतेभ्यो भूतेभ्य: समुत्थाय तान्येवानु-विनश्यति; न प्रेत्य संज्ञाऽस्ति" इत्यावेद दिवाक्यार्थमनुभाव-यतस्त्यजतोऽपि मम संशयोऽतिविरोधिताहित इव पृष्ठं न मुञ्चति, तत्किं करोमि? इति चेत्तदयुक्तं कुत:? इत्याहगोयम! वेयपयाणं, इमाण अत्थं च तं नयाणासि। जं विश्नाणघणो चिय, भूएहिंतो समुत्थाय / / 1588 // मनसि मज्जंगेसु व, मयभावो भूयसमुदउन्मूओ। विण्णाणमेत्तमाया, भूएऽणुविणस्सई सम्भूओ॥१५८९ / / अत्थि न ये पेच सण्णा, जं पुष्वभवेऽभिहाणममुगो त्ति। जं भणियं न भवाओ, भवंतरं जाइ जीवो त्ति // 1590 // गौतम ! इत्यामन्त्रणम्, वेदपदानाम् - श्रुतिवाक्यानाममीषां "विज्ञानधन एवैतेभ्यः' इत्यादीनां चेतसि वर्तमानानामर्थ यथास्थितं त्वं जानासि-नावबुध्यसे। किमिति? अत आह-यद्यस्मात्त्वमात्माभिप्रायेणैवंभूतमिहार्थमन्यसे विकल्पयसीति संबन्धः / कथंभूतम्? इत्याह'विण्णाणघणो चिय' त्ति पृथिव्यादिभूतानां विज्ञानलवसमुदायो विज्ञानघन: पृथिव्यादिवि- ज्ञानांशानां पिण्ड इत्यर्थः अवधारणं त्वात्मवादिपरिकल्पितस्य भूतसमुदायातिरिक्तस्य ज्ञानदर्शनादिगुणाश्रयस्यात्मनो निरा- सार्थम् / भूतेभ्य:- पृथिव्यादिभ्यः समुदितेभ्यो न तु व्यस्तेभ्यो, ज्ञानस्य तत्समुदायपरिणामाङ्गीकारादिति भावः, मद्याङ्गेषु- मद्ययकारणेषु धातक्यादिषु मद्भाव इव, कथंभूतो विज्ञानघन:? इत्याह- 'भूयसमुदउब्भूओ विण्णाणमेत्तमाय' त्ति - भूतसमुदा यादुद्भूतस्तदैव जातो न तु परभावात्कश्चिदायातो; विज्ञानमात्ररूप आत्मेत्यर्थः, समुत्थाय- उत्पद्य ततस्तान्येवपृथिव्यादिभूतानि विनाशमश्नुवानान्यनु लक्षीकृत्य भूयःपुनरपि स विज्ञानधनो-विज्ञानामात्ररूप: आत्मा विनश्यति, न त्वात्मवादिनामिवान्यभवं याति / अत एव न प्रेत्य भवेपरभवे संज्ञास्ति, यत्पूर्वभवे नारकादिजन्मन्यभिधानमासीत्तत्परभवे नास्ति, यदुत-अमुको नारको देवो वा भूत्वा इदानीं मनुष्य: संवृत्त इत्यादि, नारकादेः प्रागेव सर्वनाशं नष्टत्वादिति भाव: किमिह वाक्ये तात्पर्यवृत्त्या प्रोक्तं भवति? इत्याह'जं भणियमि त्यादि सर्वथात्मन: समुत्पद्य विनष्टवान्न भवाद्भवान्तरं कोऽपि यातीत्युक्तं भवति। यद्येवभूतमस्य वेदवाक्यस्यार्थमहम वगच्छामि तत: किम् ? इत्याहगोयम ! पयत्थमेवं मन्नंतो नऽत्थि मन्नसे जीवं। वक्कंतरेसु य पुणो, मणिओ जीवो जमत्थि त्ति ||1591 / / अग्गिहवणाइकिरिया-फलंच तो सेसयं कुणसि जीवे / मा कुरु न पयत्थोऽयं, इमं पयत्थं निसामेहि / / 1592 / / गौतम! अस्य वाक्यस्य दर्शितरूपमेव पदार्थं मन्यमानस्त्वं 'नास्ति' इत्येवं जीवं मन्यसे। यस्माच पुन: "नह वैसशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत:" इत्यादिषु वेदवाक्यान्तरेषु 'अस्ति' इत्येवं जीवो भणित:- प्रतिपादितः, तथा"अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादिवचनादग्रिहवनादिक्रियायाः फलं च पारभविक श्रूयते / न चेदं भवान्तरयायिनमात्मानमनन्तरेणोपपद्यते। अत: किं जीव: अस्ति,नास्ति वा इत्येवं संशयं जीवे करोषि त्वम्; तदमुं मा कृथा: यस्माद् "विज्ञानघन एव "इत्यादिवाक्यस्य नाऽयमों यं भवानध्यवस्यति; किंत्वमुम्-वक्ष्यमाणं पदार्थमिह निशमय-आकर्णयेति। तमेवदर्शयतिविण्णाणाओऽणण्णो, विण्णाणघणो त्तिसव्वओवाऽवि॥ स भवइ भूएहितो, घडविण्णाणाइभावेण / / 1993 / / ताई चिय भूयाई, सोऽगणुविस्सइ विणस्समाणाई / अत्यंतरोवओगे, कमसो विण्णेयभावेणं // 1594 / / इह विज्ञानधनो जीव उच्यते। कथम? इति चेत् उच्यते-विशिष्टं ज्ञान विज्ञानं, ज्ञानदर्शनोपयोग इत्यर्थः, तेन विज्ञानेन सहानन्यभूतत्वादेकतया घनत्वं निविडत्वमापन्नो विज्ञानघनो जीव: उच्यते / यदि वा'सव्वओ वा वि' त्ति-सर्वत: प्रतिप्रदेशमनन्तान्तविज्ञानपर्यायसंघातघटितत्वाद्विज्ञानधनो जीव: / एवकारेण तु विज्ञानघन एवासौ, न तु नैयायिकादीनामिव 'स्वरूपेण निर्विज्ञानत्वाज्जडोऽसौ, बुद्धिस्तु तत्र समवेतैव' इति नियम्यते। स भवति उद्यत इति क्रिया। केभ्य? इत्याह'भूएहितो त्तिभूतानीह घटपटादिज्ञेयवस्तुरूपाण्यभिप्रेतानि, तेभ्योज्ञेय