SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आता 200 अभिधानराजेन्द्रः भाग 2 आता भाव: प्रतिपाद्यते। तत्र 'नास्ति गृहे देवदत्त' इत्यादिषु गृह-देवदत्तादीनां सतामेव संयोगमात्रं निषिध्यते, न तु तेषां सर्व-थैवास्तित्वमपाक्रियते। तथा-'नास्ति खरविषाणम् इत्यादिषु खरविषाणादीनां सतामेव समवायमानं निराक्रियते / तथा- 'नास्त्यन्यश्चन्द्रमाः' इत्यादिषु विद्यमानस्यैव चन्द्रमसोऽन्य-चन्द्रनिषेधाचन्द्रसामान्यमानं निषिध्यते, न तु सर्वथा चन्द्राभाव: प्रतिपाद्यते। तथा-'न सन्ति घटप्रमाणा मुक्ता' इत्यादिषु घटप्रमाणतामात्ररूपो विशेषो मुक्तानां निषिध्यते, न तु मुक्ताभावः, ख्याप्यत इति, एव च सति 'नास्त्यात्मा' इत्यत्र विद्यमानस्यैवात्मनो यत्र वचन येन केनचित्सहसंयोगमात्रमेव त्वया निषेद्धव्यम्, यथा 'नास्त्यात्मा वपुषी' त्यादि न तु सर्वथात्मनः सत्त्वमिति। अत्राह कश्चित्-ननु यदि यन्निषिध्यते तदस्ति, तर्हि मत्रिलोकेश्वरताप्यस्ति, युष्मदादिभिर्निषिध्य-मानत्वात्; तथा-चतुर्णा समवायादिप्रतिषेधानां, पञ्चमोऽपि प्रतिषेधप्रकारोऽस्ति त्वयैव निषिध्यमानत्वात्, तदयुक्तत्रि- लोक्येश्वरताविशेषमात्रं भवतो निषिध्यते, यथा घटप्रमाणत्वं मुक्तानां, न तु सर्वदेवेश्वरता, स्वशिष्यादीश्वरतावास्तवा- पिविद्यमात्वात्। तथा- प्रतिषेधस्यापि पञ्चसंख्याविशिष्ट- त्वमपाक्रियते, न तु सर्वथा प्रतिषेधस्याभाव:, चतु:संख्या- विशिष्टस्य तस्य सद्भावात्। ननु सर्वमप्यसंबद्धमिदम्, तथाहि- मत्रिलोकेश्वरत्वं तावदसदेव निषिध्यते, प्रतिषेधस्यापि पञ्चसंख्याविशिष्टत्वमविद्यमानमेव निवार्यते, तथा संयोग समवायसामान्य-विशेषाणामपि गृहदेवदत्तखरविषाणादिष्व-सतामेव प्रतिषेधः इत्यत: 'यन्निषिध्यते तदस्त्येव' इत्येतत्कथं नप्लवते इतयाशङ्कयाह'संयोगाइचउक्कं पी' त्यादि, इदमुक्तं भवति- देवदत्तादीनां संयोगादयो गृहादिष्वेवाऽसन्तो निषिध्यन्तो अर्थान्तरे तुतेषां ते विद्यन्तएव; तथाहिगृहेणैव सह देवदत्तस्य सेयोगो न विद्यते, अर्थान्तरेण तु क्षेत्रहट्टयामादिना सह तस्यासौ समस्त्येव, गृहस्यापि देवदत्तेन सह संयोगो नास्ति, खवादिना तुसह तस्यासौ विद्यतएव, एवं विषाणस्यापिखर एव समवायो नास्तिगवादावस्त्येव; सामान्यमपि द्वितीयचन्द्राभावाचन्द्र एव नास्ति, अर्थान्तरे तु घटगवादावस्त्येव; घटप्रमाणत्वमपि मुक्तासु नास्ति, अर्थान्तरे तु-कूष्माण्डादावस्त्येवा त्रिलोकेश्वरताऽपि भवत एव नास्ति, तीर्थकरादावस्त्येव पञ्चसंख्याविशिष्टत्वमपि प्रतिषेधेनाऽस्ति, अर्थान्तरे त्वनुत्तरविद्यमानादावस्त्येव, इत्यनया विवक्षया ब्रूम:- 'यन्निषिध्यते तत्सामान्येनाऽस्त्येव, नत्वेवं प्रतिजामीमहे- यद् यत्र निषिध्यते तत्तत्रैवास्ति, इति, येन व्यभिचार: स्यात्। वयमपि शरीरे जीवं निषेधयामो नान्यत्रेति चेत् साधूक्तम, अस्मत्समीहितस्य सिद्धत्वात्, जीवसिद्ध्यर्थमेव हि यतामहे वयं, स चेत्सिद्धः, तर्हि तत्सिद्धपन्यथानुपपत्तेरेव तदाश्रयः सेत्स्यति किं तया चिन्तया? नच शरीमन्तरेण जीवस्याश्रयान्तरमुपपद्यते, तत्रैव तदवस्थानलिङ्गोपलब्धेः, न च वक्तव्यम् शरीरमेव जीवो, 'जीवति मृतो मूर्च्छित' इत्यादि व्यवस्थानुपपत्ते:, इत्यादेरभिधास्यमानत्वादिति। जीवसिद्धावेवोपपत्त्यन्तरमाह जीवो त्ति सत्थयमिणं सुद्धत्तणओ घडाभिहाणंव। जेणऽत्येण सदत्थं, सो जीवो अह मई होज्ज।१५७५|| अत्थो देहो चिय, से नो पज्जायवयणभेयाओ। नाणाइगुणो यजओ,भणिओ जीवो न देहो त्ति // 1576|| जीव इत्येतद्ववचनं सार्थकमिति प्रतिज्ञा, प्युत्पत्तिमत्त्वे सति शुद्धपदत्वात्, इह यद् व्युत्पत्तिमत्त्वे सति शुद्धपदं तदर्थवद् दृष्टं यथा घटादिकं, तथा च जीवपदं, तस्मात्सार्थकं, यत्तु सार्थकं न भवति तद्व्युत्पत्तिमच्छुद्धपदं च न भवति, यथा डित्थादिकं खरविषाणादिकं च, न च तथा जीवपदं, तस्मात्सार्थकम् / यद्व्युत्पत्तिमन्न भवति तच्छुद्धपदमपि सद् न सार्थकम् / यथा डित्थादिपदम्, इति हेतोरनैकान्तिकतापरिहारार्थं व्युत्पत्ति- मत्त्वविशेषेणं द्रष्टव्यम् / यदपि शुद्धपदं न भवति किंतु सामासिकं तदपि व्युत्पत्तिमत्त्वे सत्यपि सार्थक न भवति, यथा खर-विषाणादिकम्, इति शुद्धत्वविशेषणम्। अथ मन्यसे देह एवास्य जीवपदस्यार्थो न पुनरर्थान्तरम्, उक्तं च-"देह एवायमनुप्रयुज्यमानो दृष्टो, यथैष जीव:, एनं न हिनस्ति" इति अतो देह एवास्यार्थी युक्त इति। तदेतन्न, कुत:? इत्याह- देहजीवयो: पर्यायवचनभेदात्, यत्र हि पर्यायवचनभेदस्तत्रान्यत्वं दृष्टम्, यथा घटाकाशयोः तत्र घटकुटकुम्भकलशादयो घटस्य पर्यायाः, नमोव्योमान्तरिक्षाऽऽकाशादयस्तु आकाशपर्यायाः / प्रस्तुते च जीवो जन्तुरसुमान्प्राणी सत्त्वो भूत इत्यादयो जीवपर्यायाः, शरीरं वपुः कायो देह: कलेवरमित्यादयस्तुशरीरपर्यायाः। पर्यायवचनभेदेऽपिचवस्त्वेकत्वे सर्वैकत्वप्रसङ्गोऽत्र बाधकम्। यत्पुनरिदमुक्तम्- "देह एवायमनुप्रयुज्यमानो दृष्टः" इत्यादि, तच्छरीरसहचरणावस्थानादित; शरीरे जीवोपचारः क्रियते। किं च-इत्थमपि श्रूयत एव- 'गत: स जीव:, दह्यतामिदं शरीरम्' इति। किं च 'नाणाई' इत्यादि, यस्मान्य ज्ञानादिगुणयुतो जन्तुः, जडश्च देहः, तत्कथं देह एव जीव: / प्रागिहैवचोक्तम्-न ज्ञानादिगुणो देहः, मूर्तिमत्त्वाद्, घटवत्; तथा देहेन्द्रियातिरिक्त आत्मा, तदुपरमेऽपि तदुपलब्धार्था- नामनुस्मरणात्, वातायनपुरुषवदिति। तदद्याप्यप्रतिबुध्यमाने इन्द्रभूतौ भगवानाहजीवोऽस्थि वओ सचं, मव्वयणाओऽवसेसवयणं व। सवण्णुवयणओवा, अणुमयसवण्णुवयणं व / / 1577 / / 'जीवोऽस्ति' इत्येतद्वचः सत्यं मद्वचनत्वात्, भवत्संशयविषयाद्यवशेषवचनवत्, यच सत्यं न भवति तद् मदीयवचनमपि न भवति यथा कूटसाक्षिवचनम्। अथ वा-सत्यं 'जीवोऽस्ति' इतिवचनं सर्वज्ञवचनत्वाद्भवदनुमतसर्वज्ञवचनवदिति। यदिवाभयरागदोसमोह-भावाओ सयमणइवाई च। सव्वं चिय मे वयणं, जाणयममत्थवयणं व / / 1178 / / सर्वमपि मद्ववचनं सत्यम् अनतिपाति च बोद्धव्यं भयरागद्वेषाज्ञानरहितत्वात् इह यद्भयादिरहितस्य वचनं त
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy