________________ आता 198 अभिधानराजेन्द्रः भाग 2 आता चक्ष्महे, एतत्तु नाभ्युपगच्छामो यद्देहादर्थान्तरं तकोऽसौ इति, किन्तुदेह एव ज्ञानादयो गुणा: समुपलभ्यन्ते अत: स एव तेषां गुणी युक्तो, यथा रूपादीनां घट: प्रयोग: देहगुणा एव ज्ञानादयः, तत्रैवोपलभ्यमानत्वागौरकृशस्थूलतादिवदिति। अत्रोत्तरमाहनाणादओन देहस्स, मुत्तिमत्ताइओ घटस्सेव। तम्हा नाणाइगुणा, जस्स संदेहाहिओ जीवो / / 1562|| प्रयोगो देहस्य संबन्धिनो ज्ञानादयोगुणा नभवन्त्येव तस्य मूर्त्तिमत्त्वात्, चाक्षुषत्वाद्वा, घटवत् / न च द्रव्यरहितो गुणः समस्ति ततो यो ज्ञानादिगुणानामनुरूप: अमूर्तः, अचाक्षुषश्च गुणी स देहातिरिक्तो जीवो ज्ञातव्य: / आह-ज्ञानादयो न देहस्येति प्रत्यक्षबाधितमिदम्, देह एव ज्ञानादिगुणानां प्रत्यक्षेणैव ग्रहणात्। तदयुक्तम, अनुमानबाधितत्वादस्य प्रत्यक्षस्य, तथा हि- इहेन्द्रियातिरिक्तो विज्ञाता, तदुपरमेऽपि तदुलब्धार्थानु-स्मरणात्, यो हि यदुपरमेऽपि यदुपलब्धमर्थमनुस्मरति स तस्मादर्थान्तरं दृष्टो, यथा-पञ्चवातायनोपलब्धार्थानुस्मर्त्ता देवदत्त इत्यादि वायुभूतिप्रश्ने। वक्ष्याम इति। उपसंजिहीर्षुराहइय तुह देसेणाऽयं पचक्खो सव्वहा महं जीवो। अविहयनाणत्तणओ, तुह विन्नाणं व पडिवज्जा।।११६३।। 'इति'-एवम्-उक्तप्रकारेण स्वशरीरेतवापि देशत: प्रत्यक्षो-ऽयमात्मा छद्मस्थत्वेन भवत: सर्वस्यापि वस्तुनो देश- विषयत्वात्, घटवत्, तथाहि-सर्वमपि-स्व- परपर्यायतो- ऽनन्तपर्यायं वस्तु छद्ममस्थश्च प्रत्यक्षेण साक्षात् तद्देशमेव गृह्णाति / प्रत्यक्षेण च प्रदीपादिप्रकाशेनैव देशत: प्रकाशिता अपि घटादयो व्यवहारत: प्रत्यक्षा उच्यन्ते एव / सर्वात्मना च केवली प्रत्यक्षमेव वस्तु प्रकाशयति अतो ममाऽप्रतिहताऽनन्तज्ञानत्वेन सर्वात्मनापि प्रत्यक्षोऽयं जीवो यथा-ऽतीन्द्रियमपि त्वत्संशयविज्ञानमिति प्रतिपद्यस्वेति। परशरीरे तर्हि कथमित्याहएवं विय परदेहे, ऽणुमाणओ गिण्ह जीवमत्थि त्ति। अणुवित्तिनिवित्तीओ, विण्णाणमयं सरूवे व्व / / 1564|| यथा स्वदेहे, एवं परदेहेऽपि गृहाण जीवमनुमानतः कथम् ? इत्याहअस्ति-विद्यते इति / कथंभूतं जीवम् ? इत्याह- विज्ञा- नमयंविज्ञानात्मकम् अनुमानमेव सूचयन्नाह-"अणुवित्तिनित्तीओ''सरूवे व' त्ति-इदमुक्तं भवतिपरशरीररेऽप्यस्ति जीवः / इष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात् यथा-स्वरूपे स्वात्मनि इह यत्रेष्टानिष्टयो: प्रवृत्तिनिवृत्ती दृश्येते तत्सात्मकं दृष्टं यथा स्वशरीरं तथा च प्रवृत्तिनिवृत्ती दृशयेते परशरीरे, अतस्तदपि सात्मकम् आत्माभावे चेष्टानिष्टप्रवृत्तिनिवृत्ती न भवतो, यथा घटे इत्यनुमानात्परशरीरेऽपि जीवसिद्धिः / अत्र परमतमाशयोत्तरमाह जंच न लिंगेहिं समं, मन्नसि लिंगी पुरा जओ गहिओ। संगं ससेण व समं, न लिंगओ तोऽणुभेए सो।।१५६५।। सोऽणेगंतो जम्हा, लिंगेहि समं न दिद्वपुथ्वो वि। गहलिंगदरिसणाओ, गहोऽणुमेओ सरीरम्मि||१५६६।। यच न य जीवलिङ्गसंबन्धदरिसणमभू०।१५५१।।' इत्यादि पूर्वोक्तपूर्वक्षानुसारेण मन्यसे त्वम् / किमित्याह-ततो न लिङ्गतोलिङ्गादनुमेयोऽसौ जीवः / यत: किमित्याह-यतोनखलु लिङ्गैः कैश्चिदपि समं लिङ्गी जीव: क्वापि केनापि पुरा पूर्व गृहीत:, किंवदित्याह-शृङ्गमिव शशकेन समं ततो लिङ्गलिङ्गिनो: पूर्व संबन्धाग्रहणान्न लिङ्गाज्जीवोऽनुमीयत इति यन्मन्यसे त्वं, तत्र प्रतिविधीयते-सोऽने कान्त: यस्माल्लिङ्गैः समम् अदृष्ट-पूर्वोऽपि ग्रहो-देवयोनिविशेषत:, शरीरे हसनगानरोदनकर-चरणभूविक्षेपादिविकृतग्रहलिङ्गदर्शनादनुमीयत इति बालानामपि प्रतीतमेवेति। अनुमानान्तरमप्यात्मसाधकमाहदेहस्सऽथिविहाया, पइनिययागारओ घडस्सेव। अक्खाणं च करणओ, दंडाईणं कुलालो व्व ||1567 / / हेहस्याति विधाता-कर्तेति प्रतिज्ञा, आदिमत्प्रतिनियता-कारत्वाद्, घटवत्, यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथा अभ्रविकारः, यश्च देहस्य कृत स जीवः / प्रतिनियताऽऽकारत्वं मेर्वादीनामप्यस्ति, न च तेषां कश्चिद्विधाता, इति तैरनैकान्तिको हेतु: स्याद्, अतोऽनुक्तमप्यादिमत्त्वविशेषणं द्रष्टव्यमिति। तथा अक्षाणाम्इन्द्रियाणामस्त्यधिष्ठाता इत्यध्याहारः, करणत्वात् यथा चक्रचीवरमृत्सूत्रदण्डादीनां कुलाल:, यच्च निरधिष्ठातृकं तत्करणमपि न भवति यथा आकाश, यश्चेन्द्रियाणामधिष्ठाता स जीव इति। तथाअत्थिदियविसयाणं, अयाणादेयभावओऽवस्सं। कम्मार इवादाया, लो संडासलोहाणं // 1568|| इह यत्रादानादेयभावस्तत्रावश्यमादाता समस्ति, यथा लोके संदंशकलोहानां कारोऽयस्कार: विद्यते चेन्द्रियविषयाणामादानादेयभावः, अतस्तेषामप्यस्त्यादाता, सच जीवः, यत्र त्वादाता नास्ति, तत्रादानादेयभावोऽपि न विद्यते यथा आकाश इति। तथा - भोत्ता देहाईणं, भोज्जत्तणओ नरो व्व भत्तस्स। संघायाइत्तणओ, अस्थिय अत्थी घरस्सेव / / 1569|| इह देहादीनां भोक्तासमस्ति भोग्यत्वात्, यथाशाल्यादिभक्तवस्त्रादीनां नरः, यस्य च भोक्ता नास्ति तद्भोग्यमपि न भवति यथा खरविषाणं, भोग्यं च शरीरादिकं ततो विद्यमानभोक्तृकमिति। तथा अर्थी-स्वामी। ततश्च देहादीनां विद्यते स्वामी, संघातरूपत्वाद् आदिशब्दात- मूर्तिमत्त्वात् ऐन्द्रियत्वाचाक्षुपत्वाद् इत्यादयोऽप्यनैकान्तिकत्वपरिहारार्थं संभवद्विहितविशेषणा हेतवो योजनीयाः, यथा गृहादीनां सूत्रधारादय इति दृष्टान्त:, यत पुनरस्वामिकं तत्संघातादिरूपमपि न भवति, यथा गगनकु सुमं संघातादिरूपं च देहादिकं तस्माद्विद्यमानस्वामिकमिति /