________________ आता 197 अभिधानराजेन्द्रः भाग 2 आता इतश्चायं प्रत्यक्षो जीव: कुत? इत्याहकयवं करेमि काहं, वाहमहं पञ्चया इमाऊ या अप्पा सप्पचक्खो, तिकालकज्जोवएसाओ।।१५५१|| 'वा' इति-अथवा-कृतवानहं, करोम्यहं, करिष्याम्यहम्, उक्तवानहं, ब्रदीम्यहं, वक्ष्याम्यहं, ज्ञातवानहं, जानेऽहं, ज्ञाम्याम्यहम् , इत्यादिप्रकारेण योऽयं त्रैकालिक: कार्यव्यपदेशस्तद्विषयप्रयुज्यमानतया तत्समुत्थो योऽयम्- 'अहंप्रत्यय' एतस्मादपि प्रत्यक्ष एवायमात्मेति प्रपद्यस्व, अयं 'हाहं प्रत्ययो' नानुमानिकः, अलैङ्गिकत्वात् नाप्यागमादिप्रमाणसंभवः, तदन-भिज्ञानानां बालगोपालादीनामप्यन्तर्मुखतया आत्मग्राहकत्वेन स्वसंविदितस्य तस्योत्पादाद् घटादौ चानुत्पादादिति। अपिचकह पडिवनमहं ति य, किमत्थि नऽत्थि त्ति संसओ कह णुः | सइ संसयंमिवायं, कस्साऽहंपचओ जुत्तो / / 1556|| हन्त कथमसति जीवे 'अहमिति' प्रतिपन्नं त्वया विषयाभावे विषयिणोऽनुत्थानप्रसङ्गादेह एवास्य प्रत्ययस्य विषय इति चेत्, न, जीवविप्रमुक्तेऽपि देहे तदनुत्पत्तिप्रसङ्गात, सति च जीवविषये अस्मिन्नहं प्रत्यये किमहमस्मि नास्मीति भवत: संशयः कथं केन प्रकारेणोपजायते ? अहंप्रत्ययग्राह्यस्य जीवस्य सद्भावाद् अस्म्यहमिति निश्चय एव युज्यते इति भावः / सति वा अस्मिन्नात्मास्तित्वसंशये कस्यायम् 'अहंप्रत्ययो' युज्यते निर्मूलत्वेन तदनुत्थानप्रसङ्गादिति। जीवाभावे संशयविज्ञानमपि न युज्यत एवेति तदर्शयन्नाहजइ नऽत्थि संसय चिय,किमथि नऽत्थि त्ति संसओ कस्सा संसइए व सरूवे, गोयम ! किमसंसय होज्जा ||1557 / / यदि संशयी जीव एवादौ नास्ति, तहस्ति नास्तीति संशयः कस्य भवतु। संशयो हि विज्ञानाख्योगुण एव, नचगुणिनमन्तरेण गुण: संभवति देहोऽत्रगुणीति चेत्, न देहस्य मूर्त्तत्वाज्जडत्वाच ज्ञानस्य चामूर्त्तत्वाद् बोधरूपत्वाच न चाननुरूपाणां गुणगुणिभावो युज्यते आकाशरूपादीनामापि तद्भाधापत्त्या अति-प्रसङ्गप्राप्तेः। 'संसइएवे' त्यादि'या' इतिअथवा संशयिते स्वरूपे गौतम! किमसंशयं शेषं भवेद् ? इदमुक्तं भवतिकिमस्मिनास्म्यहमित्येवं य:स्वरूपेऽपि संशेते-आत्मनिश्चयोऽपि यस्य नास्तीत्यर्थः, तस्य शेष कर्मबन्धमोक्षादिकं घटपटादिकं किमसंशयम्असंदिग्धं स्यात् ? न किंचित्सर्वसंशय एव तस्य स्यादित्यर्थः आत्मास्तित्वनिश्चयमूलो हि शेषवस्तुनिश्चय इति भावः। अहंप्रत्ययग्राह्यं च प्रत्यक्षमात्मानं निढुवानस्य अश्रावणः शब्द इत्यादिवत्प्रत्यक्षविरुद्धो नाम पक्षाऽऽभासः, तथा- वक्ष्यमाणात्मास्तित्वानुमानसद्भावान्नित्य: शब्द इत्यादिवदनुमानविरुद्धोऽपि। तथा- अहमस्मि संशयीति प्रागभ्युपगम्योत्तरत्र नास्मीति प्रतिजानानस्य साङ्ख्यस्य अनित्यः कर्ता अचेतन: आत्मेत्यादिवदभ्युपगमविरोध: / बाल-गोपालाङ्गनादिप्रसिद्ध चात्मानं निराकुवत: अचन्द्रः शशी इत्यादिवल्लोकविरोध:, अहं नाहं वेति गदतो 'माता में बन्ध्या' इत्यादिवत्स्ववचनव्याहतिः / एवं च प्रत्यक्षादिबाधितेऽस्मिन् पक्षे अपक्षधर्मतया हेतुरप्यसिद्धः / हिमवत्पलपरिमाणादौ पिशाचादौ: च प्रमाणपञ्चकाभावस्य प्रवृत्तेस्नैकान्तिकोऽपि वक्ष्यमाणानुमानप्रमाणसिद्धे चात्मनि विपक्ष एव वृत्तेविरुद्धश्चेति। प्रकारान्तरेणाप्यात्मन: प्रत्यक्षसिद्धतामाहगुणपबक्खत्तणओ, गुणी वि जीवो घडो व पचक्खो। घडओ विघेप्पइगुणी,गुणमित्तग्गहणओ जम्हा / / 1558|| प्रत्यक्ष एवं गुणी जीव: स्मृतिजिज्ञासाचिकीर्षाजिगमिषाशंशीत्यादिज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्ष-सिद्धत्वाद, इह यस्य गुणा: प्रत्यक्षा: स प्रत्यक्षो दृष्टो, यथा घटः, प्रत्यक्षगुणश्व जीव: तस्मात्प्रत्यक्ष: यथा घटोऽपि गुणी रूपादिगुणप्रत्यक्षत्वादेवप्रत्यक्षस्तद्वद्विज्ञानादिगुणप्रत्यक्ष- त्वादात्मापीति। आह-अनैकान्तिकोऽपं यस्मादाकाशगुण: शब्द: प्रत्यक्षोऽस्ति न पुनराकाशमिति / तदयुक्तम्, यतो नाकाशगुण: शब्द:, किंतु- पुद्गलगुणः, ऐन्द्रियकत्वात् रूपादिवदिति।। गुणानां प्रत्यक्षत्वे गुणिनस्तद्रुपतायां किमायातम् ? इति चेद्, उच्यतेअन्नोऽणण्णो व गुणी होज्ज गुणेहिं जइ नाम सोऽणन्नो। ननु गुणमेत्तग्गहणे, घेप्पइ जीवो गुणी सक्खं / / 1559 / / अह अन्नो तो एवं, गुणिनो न घडादओ वि पञ्चक्खा। गुणमेत्तग्गहणाओ,जीवम्मि कउवियारोऽयं // 1560 / / ननुभवता गुणेभ्यो गुणी किमर्थान्तरभूतोऽभ्युपगम्यते, अनर्थान्तरभूतो वा? यदि नाम-सोऽनन्यस्तेभ्योऽनन्तरभूत: तर्हि ज्ञानादिगुणग्रहणमात्रादेव गुणी जीव: प्रत्यक्षेण गृह्यत इति सिद्धमेव। प्रयोग:योयस्मादनन्तरं स तद्ग्रहणेन गृह्यते, यथा वाससि रागो गुणेभ्योऽनन्तर च गुणी, तस्माद् गुणग्राहकप्रत्यक्षेण सोऽपि गृह्यत एवेति / अथ गुणेभ्योऽन्योऽर्थान्तरभूत एवगुणी, ततएवं सतिघटादयोऽपि गुणिन: न प्रत्यक्षास्तदर्थान्तरभूतस्य रूपादिगुणमात्रस्यैव ग्रहणात्। इह यद्-यस्मादर्थान्तरभूतं तद्ग्रहणेऽपि नेतरस्य ग्रहणं, यथा घटे गृहीते पटस्य अर्थान्तरभूताश्च गुणिनो गुणा इष्यन्ते अतो गुणग्रहणेऽपि न गुणिग्रहणम्। अतो घटादीनामपि समानोऽग्रहणदोषे कोऽयं नाम भवत: केवलजीवे विचारो नास्तित्वाविवक्षा, येनोच्यते-"पचक्खं जन धिप्पड़ घडो व्व' इत्यादि, अथ द्रव्यविरहिता: केऽपि न सन्त्येव गुणा:, इत्यतस्तद्ग्रहणद्वारेण गृह्यन्त एवं घटादयः / नान्वेतदात्मन्यपि समानमव / किं च-गुणिनो गुणानामर्थान्तरत्वे अभ्युपगम्यमाने गुणीभवतु, मा भूदा प्रत्यक्षः, तथापि ज्ञानादिगुणेभ्यः पृथगात्मा गुणी त्वदभ्युपगमेनापि सिद्ध्यत्येवेति। अत्र पराभिप्रायमाशङ्कमान: प्राहअहमनसि अत्थि गुणी, न य देहत्थंतरं तओ किं तु / देहे नाणाइगुणा, सो चिय तेसिं गुणी जुत्तो // 1561 / / अथ मन्यसे अस्त्ये व ज्ञानादिगुणानां गुणिनैव तं प्रत्या