SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आता 196 अभिधानराजेन्द्रः भाग 2 आता न्तः / अणवोऽपि ह्यप्रत्यक्षाः, किंतु-घटादिकार्यतया परिणतास्ते प्रत्यक्षत्वमुपयान्ति, न पुनरेवमात्मा कदाचिदपि भावप्रत्यक्षमुपगच्छत्योऽत्रात्यन्तविशेषणमिति। एवं चमन्यसे त्वं किमित्याहनय सोऽणुमाणगम्मो, जम्हा पञ्चक्खपुटवयं तं पि। पुथ्वोबलद्धसंबं-धसरणओ लिंगलिंगीणं / / 2550 / / नचासावात्मानुमानगम्य: यस्मात्तदप्यनुमानं प्रत्यक्षपूर्वकं प्रर्वत्तते, कुत्त इत्याह-'पुव्वोबलद्धे' त्यादि लिङ्गयतेगम्यतेऽतीन्द्रियार्थोऽनेनेति लिङ्गम् ; अथ वा-लीनं-तिरोहितमर्थं गमयतीति लिङ्ग धूमकृतकत्वादिकं, तदस्यास्तीति लिङ्गी वयनित्यत्वादिस्तयोर्लिङ्गलिङ्गनोर्य: पूर्व महानसादौ प्रत्यक्षा-दिना उपलब्धकार्यकारणभावादिकः / संबन्धस्तस्य यत् स्मरणं तस्मादिति। इदमुक्तं भवति-पूर्व महावसादावग्निधूमयोलिङ्गिलिङ्गयोरन्वयव्यतिरेकवन्तमविनाभावमध्यक्षतो गृहीत्वा तत उत्तरकालं क्वचित्कान्तारपर्वतनितत्वाऽऽदौ गगना ऽवलम्बिनीं धूमलेखामवलोक्य प्राग्गृहीतं संबन्धमनुस्मरति, तद्यथा"यत्र यत्रधूमस्तत्र तत्र प्रागहं वह्निम् अद्राक्षं यथा- महानसादौ, धूमश्चात्र दृश्यते तस्मादह्निनापीह भवितव्यम् इत्येवं लिङ्गग्रहणसंबन्धस्मरणाभ्यां तत्र प्रमाता हुतभुजमवगच्छति; न चैवमात्माना लिङ्गिना सार्द्धकस्यापि लिङ्गस्य प्रत्यक्षेण संबन्ध: सिद्धोऽस्ति, यत: तत्संबन्धमनुस्मरत: पुनस्तल्लिङ्गदर्शनाज्जीवे संप्रत्यय: स्यात् / यदि पुनर्जीवलिङ्गयो: प्रत्यक्षत: संबन्धसिद्धिः स्यात्तदा जीवस्यापि। प्रत्यक्षत्वापत्त्यानुमानवैयर्थ्य स्यात्तत एव तत्सिद्धेरिति। एतदेवाहनय जीवलिंगसंबं-घदरिसणमभू जओ पुणो सरओ। तल्लिंगदरिसणाओ, जीवे संपचओ होज्जा ||1551|| गतार्था। न च वक्तव्यं सामान्यतो दृष्टात् अनुमानात् आदित्यादिगतिवज्जीव: सिध्यति, यथा-गतिमानादित्यो, देशान्तरप्राप्ते:, देवदत्तवदिति, यतो हन्त देवदत्ते दृष्टान्तधर्मिणि सामान्येन देशान्तरप्राप्ति गतिपूर्विका प्रत्यक्षेणैव निश्चत्त्य सूर्येऽपि तां तथैव प्रमाता साधयतीति युक्तम्, न चैवमत्र क्वचिदपि दृष्टान्ते जीवसत्त्वेनाविनाभूतः कोऽपि हेतुरध्यक्षेणोपलक्ष्यते इति / अतो न सामान्यतो दृष्टादप्यनुमानात्तगतिरिति / न चाऽऽगमगम्योऽपि जीव इति दर्शयतिनाऽऽगमगम्मो वितओ, भिज्जइ जं नागमोऽणुमाणाओ। नय कासइपचक्खो, जीवो जस्साऽगमोवयणं ।।१५५२शा न चागमगम्योऽपि तकोऽसौ जीवो, यद्-यस्मादागमोऽपि अनुमानाद् भिद्यते (इत्यादिगाथार्द्धव्याख्यानं आगम' शब्दे- ऽस्मिन्नेव भागे गतम्) न चैवमसौ आत्मशब्द: शरीराद् ऋते- अन्यत्र प्रयुज्यमान: क्वचिदुपलब्धो / यत्र खल्वात्मशब्दश्रवणाद् आत्मा इति प्रत्ययो भवेदिति। यदपि स्वर्गनरकाद्यदृष्टार्थविषयं शाब्दं प्रमाणं, तदपि तत्त्वतोऽनुमानं, नात्तिवर्तते। तथाहि- प्रमाणं स्वर्गनरकाद्यदृष्टार्थविषयं वचनम्, अविसंवादिवचनाप्तप्रणीतत्वाचन्द्रार्कोपरागादिवचनवदित्येवमनुमानादेव तत्र प्रमाणता। न चैवं भूतमाप्तं कमपि पश्यामो, यस्यात्मा प्रत्यक्ष इति तद्वचनमागम इति प्रतिपद्येमहि इति शेषः / किंचजंचाऽऽगमा विरुद्धा, परोप्परमओ वि संजुत्तो। सव्वप्पमाणविसया-इओजीवो त्ति तो बुद्धी॥१५५३|| यतश्च तीथिकानां संबन्धिन: सर्वेऽप्यागमा: परस्परविरोधिनः खल्वतोऽपि संशय एवात्मनो युक्तो; न तु निश्चयः, तथाहि- केचिदागमा आत्मनो नास्तित्वमेव प्रतिपादयन्ति यदा-हुर्नास्तिका:-"एतावानेव लोकोऽयं यावानिन्द्रियगोचरः / भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः" ||1|| इत्यादि, भट्टोऽप्याह-"विज्ञानघन एवैतेभ्यो भूतेभ्य: समुत्थाय तान्येवानुविनश्यति न च प्रेत्य संज्ञास्ति।" सुगतस्त्वाह-" नरूपं भिक्षव: पुद्गलः" इत्यादि आत्मास्तित्ववचनान्यप्यागमेषु श्रूयन्ते, तथा च वेद:-"नह वैसशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत" इति / तथा-"अग्निहोत्रं जुहुयात्स्वर्गकाम:" इत्यादि। कापिलागमे तुप्रतिपाद्यते-"अस्तिपुरुष: अकर्ता निर्गुणो भोक्ता चिद्रूपः" इत्यादि। तस्मादागमानां परस्परविरुद्धत्वान्नागम-प्रमाणादप्यात्मसत्त्वसिद्धिः। इदं च वैशेविषकमतेन प्रत्यक्षानुमाना-गमलक्षणं प्रमाणत्रयमुपन्यस्तम्॥ एतच स्वयं द्रष्टव्यम्- उपमाप्रमाणगम्योऽपि जीवो न भवति / तत्र हि 'यथा गौस्तथा गवय इत्यादावेव सादृश्य-मसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति।न चेहाऽन्यः कश्चित त्रिभुवनेऽप्यात्मसदृश: पदार्थोऽस्ति, यदर्शनादात्मानम वगच्छामः। कालाऽऽकाशदिगादयो जीवतुल्या विद्यन्ते इति चेत् ? न तेषामपि विवादास्पदीभूतत्वेन तदंहि (ङ्घि) वद्धत्वात् / अर्थापत्तिसाध्योऽपि जीवो न भवति न हि दृष्टः श्रुतो वा कोऽप्यर्थ आत्मानमन्तरेण नोपपद्यते, यदलात्तं साधयामः, तस्मात्सर्वप्रमाणविषयातीतो जीव इति तव बुद्धिः भावोपलम्भप्रमाणपञ्चक विषयातीतत्वात् प्रतिषेधसाधकाऽ-भावाख्यषष्ठ - प्रमाणविषय एव जीव इत्यर्थः इति पूर्वपक्षः। अर्थतत्प्रतिविधानमाहगोयमा पचक्खो चिय, जिवो जं संसयाइविनाणं। पचक्खं च न संज्मं,जह सुह-दुक्खा सदेहन्मि / / 1554 // गौतम ! भवतोऽपि प्रत्यक्ष एवायं जीव:, किमन्येन प्रमाणान्तरोपन्यासेन ? कोऽयं जीवो मम प्रत्यक्ष? इति चेत्, उच्यते- यदेतत्तवैव संशयादिविज्ञानं स्वसंवेदनसिद्ध हृदि स्फुरित / स एव जीव:, संशयादिज्ञानस्यैव तदनन्यत्वेन जीवत्वात् / यच्च प्रत्यक्षं तद् न प्रमाणान्तरेण साध्यं, तथा / - स्वशरीर एवात्मसंवेदनसिद्धा: सुखदु:खादयः, प्रत्यक्षसिद्धमपि सग्रामनगरं विश्वं शून्यवादिनं प्रति साध्यत एवेति चेत, नैवम्, निरालम्बना: सर्वे प्रत्ययाः, प्रत्ययत्वात्, स्वप्नप्रत्ययवद्, इत्यादेस्तदुद्भावितबाधक प्रमाणस्यैव तत्र निराकरणाद्, अत्र त्वात्मग्राहके प्रत्यक्षे बाधकप्रमाणाऽभावादिति।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy