________________ आता 195 अभिधानराजेन्द्रः भाग 2 आता व्या.- स्पर्शन-शीतादिना यथा वायुर्गृह्यते कायसंसृतोदेह-सङ्गत: अदृष्टोऽपितथा ज्ञानादिभिर्ज्ञानदर्शनेच्छादिभिर्जीवो गृह्यते कायसंसृतो देहसङ्गत इति गाथार्थः। असकृदनुमानादस्तित्वमुक्तं जीवस्य, अनुमानं च प्रत्यक्षपूर्वकं न चैनं केचन पश्यन्तीति ततश्चाशोभनमेतदित्याशङ्कयाह (भाष्यकार:) अर्णिदियगुणं जीवं, दुग्नेयं मंसचक्खुणा। सिद्धा पासंति सव्वन्नू, नाणसिद्धा य साहूणो // 34 // व्या-अनिन्द्रियगुणम्- अविद्यमानरूपादीन्द्रियग्राह्यगुणं जीवम्अमूर्त्तत्वादिधर्माकं दुर्जेयं-दुर्लक्ष्यं मांसचक्षुषाछद्मस्थेन पश्यन्ति, सिद्धा:-सर्वज्ञा अञ्जनसिद्धादिव्यवच्छेदार्थ सर्वज्ञग्रहणं; ततश्च ऋषभादय इत्यर्थः, ज्ञानसिद्धाश्च साधवोभवस्थकेवलिन इतिगाथार्थः / सांप्रतमागमादस्तित्वमाह (भाष्यकार:)अत्तवयणं उ सत्थं, दिट्ठाय तो अइंदियाणं पि। सिद्धी गहणाईणं, तहेव जीवस्स विन्नेया॥३५|| व्या-आप्तवचनं तु शास्त्रम् आप्तो रागादिरहित: तुशब्दो-ऽवधारणे, आप्तवचनमेव अनेक अपौरुषेयव्यवच्छेदमाह, तस्याऽसंभवादिति। दृष्टा | च तत इत्युपलब्धा च तत आप्तवचनशास्त्रात् अतीन्द्रियाणामपि इन्द्रियगाचरातिक्रान्तानामपि, सिद्धिग्रहणादीनामिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थ; तथैव जीवस्य विज्ञेयेति / अतीन्द्रियस्याप्याप्तवचनप्रामाण्यादिति गाथार्थः। मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारम्। दश०४ अर (11) अभ्याख्यानम्। आत्मनोऽस्तित्वेणेव सयं लोग अब्भाइक्खेज्जा, व अत्ताणं अब्भाइक्खेज्जा / जे लोयं अन्भाइक्खइ से अत्ताणं अम्बाइक्खइ, जे अत्ताणं अन्माइक्खइसे लोयं अब्माइक्खइ। (सूत्र-३१+) नैवात्मानं शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत तस्य शरीराधिष्ठातृत्वेनाहृतमिदं शरीरं केनचिदमि-संधिमता तथा त्यक्त्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमा- दिभिर्हेतुभिः प्रसाधितत्वात्, न च साधितसाधनं पिष्टपेषणवत् विद्वज्जनमनांसिरञ्जयति। आचा.१श्रु 104 उा इत्यसिद्धो हेतु: नासर्वज्ञेन सर्वे पुरुषा: सर्वदा सर्वत्रात्मानं पश्यन्तीति वक्तुं शक्यमिति, किंञ्च-विद्यते आत्मा, प्रत्यक्षादिमिरुपलभ्यमानत्वात्, घटवदिति न चायमसिद्धो हेतु: यतोऽस्मादिप्रत्यक्षेणाप्यात्मा तावद्गम्यतएव आत्मा हि ज्ञानादनन्य:, आत्मधर्मत्वात् ज्ञानस्य, तस्य च स्वसंविदितरूपत्वात्, स्वसंविदितत्वं च ज्ञानस्य नीलज्ञानमुत्पन्नभासीदित्यादिस्मृतिदर्शनात्न ह्यस्वसंविदिते ज्ञाने स्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचर- त्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्त ज्ञानगुणप्रत्यक्षत्वे आत्मा गुणी प्रत्यक्ष एव, रूपगुणप्रत्यक्षल्वे घटगुणीप्रत्यक्षत्ववदिति उक्तञ्च विशेषावश्यके"गुणपचक्खत्तणओ, गुणी वि जीवो घड़ो व्व पञ्चक्खो। घडओ व्व धिप्पइ गुणी, गुणमित्तम्गहणओ जम्हा // 1958 // " तथा'अण्णोऽणन्नो व गुणी, होज्ज गुणेहिं ? जइणाम सोऽणन्नो। णाणगुणमित्तगहणे, धिप्पइ जीवो गुणी सक्खं / / 1559|| अह अन्नो तो एवं गुणिणो न घडादयो वि पचक्खा। गुणमित्तग्गहणाओ, जीवंमि कुतो विआरोयं / / 1560 // " इति, ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति। तथाऽनुमानगम्योऽप्यात्मा, तथाहिविद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद, ओदनादिवत् व्योमकुसुमं विपक्ष: स च कर्ता जीव इति, नन्वोदनकर्तृवन्मूर्त आत्मा सिद्ध्यतीति साध्यविरुद्धो हेतुरिति नैव, संसारिणो मूर्तत्वेनाप्यभ्युपगमात्, आह च"जो कत्ता सो जीवो, सब्भविरुद्धो त्तितेमई होज्जा / मुत्ताइय संगाओ, तत्तो संसारिणो दोसो" ||1| इति। न चायमेकान्तो; यदुतलिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्यैव एकान्ततोऽप्रवृत्तिरिति हसितादिलिङ्गविशेषस्य ग्रहाख्या-लिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्। न च देह एव ग्रहो येनाऽन्यदेहे दर्शनमविनाभावग्रहणनियामकं भवतीति, उक्तश्च (विशे०)-"सोनेगंतो जम्हा, लिंगेहिं समं अदिपट्टपुव्दो वि। गहलिंगदरिसणाओ, गहोऽणुमेओ सरीरम्मि // 1556 / / " इत्यागमगम्यत्व त्वात्मन:-' एगे आया' अत एव वचनात्, न चास्यागमान्तरैर्विसंवाद: सम्भावनीयः / सुनिश्चिता-सप्रणीत त्वादस्येति, बहुवक्तव्यमत्र तत्तु स्थानान्तरादवसेय-मिति / किञ्चआत्माभावे जातिस्मरणादयस्तथा प्रेती-भूतपितृपितामहादि कृतानुग्रहोपघातौ च न प्राय॒युरिति। स्था० 10 ठा०। (12) इन्द्रभूतिमुद्दिश्य भगवता महावीरेणोक्तं विस्तरत: जीवास्तित्वम्जीवे तुह संदेहो, पचक्खं जन धिप्पड घडो व्व। अचंता पचक्खं, न नऽस्थि लोएखपुष्पं वा१५४९।। आयुष्मन् ! इन्द्रभूते! तवैष संदेह: / किमयमात्मा-अस्ति ? नास्ति वा ? उभयहेतुसद्भावात्, तत्र नास्तित्वहेतवोऽमीनास्त्यात्मा, प्रत्येक्षणात्यन्तमगृह्यमाणत्वाद, इह यदत्यन्त प्रत्यक्षं तल्लोकेनास्त्येव, यथा-खपुष्पं यत्त्वस्ति तत्प्रत्यक्षेण गृह्यत एव, यथा-घटः इत्यसौ व्यतिरेकदृष्टा अन्यच्च आत्मा न विद्यते; तस्य प्रत्यक्षाऽऽदिभिरनुपलभ्यमानत्वात्, तथाहिन प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्, नाप्यनुमान-ग्राह्यः, अनुमानस्य लिङ्गलिङ्गिनो: साक्षात्सम्बन्धदर्शनेन प्रवृतेरिति, आगमगम्योऽपि नाऽसौ आगमानामन्योऽन्यं विसंवादादिति, अत्रोच्यते-केयमनुपलभ्यमानता ? किमेक- पुरुषाश्रिता? सकलपुरुषाश्रिता वा ? यद्येकपुरुषाश्रिता न तयाऽऽत्माऽभावः सिध्यति सत्यपि वस्तुनि तस्या: सम्भवात, न हि कस्यचित्पुरुषविशेषस्यघटाद्यर्थग्राहकं प्रमाणन प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णेतुं शक्य इति, नहि प्रमाणनिवृत्तौ प्रमेयं विनिवर्त्तते, प्रमेयकार्यत्वात् प्रमाणस्य न च कार्याभावे कारणाभावो दृष्ट इत्यनैकान्तिकताऽनुपलम्भहेतोः, सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध