________________ आता 194 अभिधानराजेन्द्र: भाग 2 आता खाणुमणुस्साणुगया,,जह ईदा देवत्तस्स ||24|| व्या-जीवस्यैष स्वभाव:-एष धर्म:याईहासदर्थ-पर्यालोचनात्मिका, किं विशिष्टे त्याह-अस्ति, नाऽस्ति वा जीव इति लोकप्रसिद्ध निदर्शनमाह-स्थाणुमनुष्यानुगता-किमयं स्थाणुः ? किं वा पुरुष ? इत्येवंरूपा या इहादेवदत्तस्य जीवतो धर्मः। इति गाथार्थः / (भाष्यकार:) प्रकारान्तरणैतदेवाहसिद्धं जीवस्स अत्थितं, सद्दादेवाणुमीयए। नासओ भुवि भावस्स, सद्दो हवइ केवलो |25|| व्याo- सिद्धम्-प्रतिष्ठितं जीवस्योपयोगलक्षस्यास्तित्वं, कुत इत्याहशब्दादेव जीव इत्यस्मादनुमीयते, कथमेतदेव- मित्याह- 'नाऽसत' इति न असत:- अविद्यमानस्य भुवि पृथिव्यां भावस्य पदार्थस्य शब्दो भवति याचक इति, खरविषाणा-दिशब्दैर्व्यभिचारमाशङ्कयाह- केवल: शुद्धः- अन्यपदासंसृष्टः, खरादिपदसंसृष्टाश्च विषाणादिशब्दा इति गाथार्थः। एतद्विवरणायैवाह भाष्यकार:अस्थि त्ति निविगप्पो,जीवो नियमाउसद्दओ सिद्धी। कम्हा सुद्रपयत्ता, घडखरर्सिगाणुमाणाओ // 26 व्या०- अस्तीति निर्विकल्पो जीव: 'निर्विकल्प' इति- नि:संदिग्धः नियमात् नियमेनैव प्रतिपत्त्रपेक्षया शब्दत: सिद्धिः वाचकाद्वाच्यप्रतीतेः / एतदेव प्रश्नद्वारेणाह-कस्मात्युत्त एतदेव-मिति ? आह-शुद्धपदत्वात् केवलपदत्याज्जीवशब्दस्य घटखरशृङ्गानुमानादनुमानशब्दो दृष्टान्तवचन: घटखरशृङ्गदृष्टा-न्तादिति प्रयोगार्थः, प्रयोगस्तुमुख्येनार्थेनार्थवान् जीवशब्दः, शुद्धपदत्वात्घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान्न भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाथार्थः / पराभिप्रायमाशङ्कय परिहरन्नाह (भाष्यकार:) चोयग ! सुद्धपयत्ता, सिद्धी जइ एव सुण्णसिद्धि अम्हं पि। तं न भवइ संत्तेणं, जं सुन्नं सुअगेहं व / / 7 / / व्या-उक्तवच्छुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि, शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः / अत्रोत्तरमाह-तन्न भवति यदुक्तं परेण / कुत इत्याह- सता विद्यमानन पदार्थेन यद्-यस्मात् शून्यं शून्यमुच्यते ! किंवदित्याह-शून्यगृहमिव, तथा हि-देवदत्तेन रहितं शून्य गृहमुच्यते / निवृत्तो-घटो नष्ट इति, न त्वनयोर्जीवशब्दस्य जीववदवशिष्टं वाच्यमस्तीति गाथार्थः / प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह (भाष्यकार:) मिच्छा भेवउ सवऽत्था,जे केई पारलोइया। कत्ता चेवोपभोत्ता य, जइ जीवो न विज्जइ||२८|| व्या.- मिथ्या भवेयु:-अनृताः स्युः सर्वेऽर्था ये केचन पारलौकिका | दानादय: यदि किमित्याह-कर्ता चैव कर्मण: उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते परलोकथायीति गाथार्थः / एतदेवाव्युत्पन्नशिष्यानुग्रहार्थं स्पष्टतरमाह (भाष्यकार:) पाणिदया-तव-नियमा, बम्मं दिक्खाय इंदियनिरोहो। सव्वं निरत्थमेयं, जइ जीवो न विज्जई ||29|| व्या.--प्राणिदया-तपो-नियमा:-करुणोपवासहिंसाविरत्या-दिरूपाः तथा ब्रह्म-ब्रह्मचर्यम्, दीक्षा च योगलक्षणा इन्द्रिय-निरोधः प्रव्रज्याप्रतिपत्तिरूप: सर्व निरर्थक -निष्फलमेतत् यदि जीवो न विद्यते परलोकयातीति गाथार्थः। किंच शिष्टाचरितो मार्ग:शिष्टैरनुगन्तव्य इति। ___ तन्मार्गख्यापनायाह (भाष्यकार:)लोइया वेइया चेव, तहा सामाइया विऊ। निबो जीवो पि हो देहा, इह सव्वे ववत्थिया ||30| व्या०- लोक भवा लोके वा विदिता इति लौकिका- इतिहासादिकर्तारः। एवं वैदिकाश्चैव- वैविधवृद्धास्तथा सामायिका: त्रिपिटकादिसमयवृत्तयो विद्वांस:-पण्डिता: नित्यो जीवो नानित्यः / एवं पृथग् देहात् शरीरादित्येवं सर्वे व्यवस्थिता नान्यथेति गाथार्थः / एतदेव व्याचष्टे (भाष्यकार:) लोगे अच्छेज्ज भेज्जो, वेए सुपरीसदद्धगसियालो। समए अहमासि गओ, तिविहो दिव्वाइसंसारो ||31|| व्या- लोक अच्छेद्योऽभेद्य आत्मा पठ्यते, यथोक्तं गीतासु"अच्छेद्योऽयमभेद्योऽय-मविकार्योऽयमुच्यते। नित्यः सर्वगत: स्थाणुरचलोऽयं सनातनः॥११॥" इत्यादि।तथा वेदे-"सपुरीषो दग्धः शृगाल पठ्यते" इति, यथोक्तम्-"शृगालो वैएष जायते य: सपुरीषो दह्यते'' - अथाऽपुरीषो दह्यते "आक्षोधुका अस्य प्रजा: प्रादुर्भवन्ती'' त्यादि। तथा समये"अहमासीद्रजः" इति पठ्यते, तथा च बुद्धवचनम्-"अह मासं भिक्षवो हस्ती, षड्दन्तः शङ्कसंनिभः / शुकः पञ्चरवासी च शकुन्तो जीवजीवकः''||१|| इत्यादि। तथा त्रिविधो दिव्यादिसंसार: कैश्चिदिष्यते / देवमानुषतिर्यग्भेदेन, आदि-शब्दाचतुर्विधःकैश्चिन्नारकाधिक्येनेति गाथार्थः / अत्रैव प्रकारान्तरेण तदस्तित्वमाह (भाष्यकार:)अस्थि सरीरविहाया, पइनिययागारयाइभावाओ। कुंभस्स जह कुलालो, सो मुत्तो कम्मजोगाओ ||3|| व्या०- अस्ति शरीरस्यौदारिकादेर्विधाता विधातेतिकर्ता। कुत इत्याह'प्रतिनियताकारादिसद्भावात्; आदिमत्प्रति-नियताकारत्वादित्यर्थः / दृष्टान्तमाह- कुम्भस्य यथा कुलालो विधाता कुलालयदेवमसावपि मूर्त: प्राप्नोतीति। विरुद्धमाशय परिहरन्नाह-स आत्मा यः शरीर विधाता। असौ मूर्तः कर्मयोगादितिमूर्तकर्मसंबन्धा-दिति गाथार्थः। (भाष्यकार:) अत्रैव शिष्यव्युत्पत्तये अन्यथा तदग्रहण-विधिमाहफरिसेण जहा वाऊ, गिज्जई कायसंसिओ। नाणाईहिं तहा जीवो, गिज्भई कायसंसिओ // 33 //