________________ आता 193 अभिधानराजेन्द्रः भाग 2 आता इत्याह पर्यायगमनात् क्रोधमानादिपर्यायप्राप्तेः / सुवर्णवत् कटकादिपर्यायगमनोपेतसुवर्णवदिति प्रयोगार्थाः प्रयोगस्तु, सन्ना- त्मा पर्यायगमनात्सुवर्णवदिति गाथार्थ: / उक्तं कषायद्वारम्। इदानी (भाष्यकार:) लेश्याद्वारमाहलेसाओ णाऽभावो, परिणमणसभावाओ य खीरंव। उस्सासाणाभावो,समसटमावाखउव्व नरो।।१७।। व्या- लेश्यातो लेश्यासद्भावेन न अभावो जीवः, किंतुभाव इति, कुत इत्याह-परिणमनस्वभावत्वात्कृष्णादिद्रव्यसाचिष्येव जम्बूखादकाद्रिदृष्टान्तसिद्धतथाविधपरिणामधर्मत्वात्, क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु सन्नात्मा परिणाम-मित्वात् क्षीरवदिति। गतं लेश्याद्वारम् / प्राणापानद्वारमाह-उच्छ्वासादिति अचेतनधर्मविलक्षण-प्राणापानसद्भावान्नाऽभावो जीव:, किन्तु - भावः एव इति, श्रमसद्भावेन परिस्पन्दोपेतपुरुषवदिति प्रयोगार्थः / प्रयोगस्तु पुनरत्र व्यतिरेकी द्रष्टव्यः / सात्मकं जीवच्छरीरं प्राणादिमत्वात् यत्तु सात्मकं न भवति तत्प्राणादिमदपि न भवति, यथा-ऽऽकाशमिति गाथार्थः / उक्तं प्राणापानद्वारम्। (८)(भाष्यकारेण) अधुनेनिन्द्रयद्वारमुच्यतेअक्खाणेयाणि पर-त्वगाणि वासाइवेह करणत्ता। गहवेयगनिज्जरओ, कम्मस्सन्नो जहाहारो / / 18 ध्या०- अक्षाणीन्द्रियाणि एतानीति लोकप्रसिद्धानि देहाश्रयाणि परार्थानि-आत्मप्रयोजनानि वास्यादिवदिह करणत्वादिहलोके वास्यादिवदिति प्रयोगार्थः / आह- आदावान्येवेन्द्रियाणि तत्किमर्थं भेदोपन्यास: ? उच्यते विवृत्युपकरणद्वारेण द्वैविध्यख्यापनार्थ ततश्च तत्रोपकरणस्य ग्रहणमिह तु निवृत्तेरिति, प्रयोगस्तु-परार्थाश्चक्षुरादय: संघातत्वाच्छयनासनादिवत् न चायं विशेषविरुद्धः, कर्मसंबद्धस्यात्मनः संघातरूपत्वाम्युपग-मात् / उक्तमिन्द्रियद्वारम् / इदानी (अधुना) बन्धादिद्वाराण्याह- ग्रहणवेदकनिजरकः कर्मणोऽन्यो, 'यथाहार' इति-तत्र गृहणं - कर्मणो बन्धः वेदनम्-उदय: निजरा-क्षयः, 'यथाहारे' इति-आहराविषयाणि ग्रहणादीनिन कादिव्यतिरेकेण तथा कर्मणो-ऽपीति प्रयोगार्थः। प्रयोगस्तु विद्यमानभोक्तृकमिदं कर्मग्रहणवेदननिर्जरणसद्भावात् आहारवदिति गाथार्थः / उक्तानि बन्धादिद्वाराणि / व्याख्याता च प्रथमा प्रतिद्वारगाथा। (9) सांप्रतं द्वितीयामधिकृत्य चित्ता-दिस्वरूपव्याचिख्यासयाऽऽहचित्तं तिकालविसयं,चेयणपचक्खसन्नमणुसरणं। विण्णाणणेगमेयं, कालमसंखेयरं धरणा ||19|| व्या-चित्तं त्रिकालविषयम् ओघतोऽतीतानागतवर्तमानग्राहि चेतनं चेतना सा प्रत्यक्षवर्तमानार्थग्राहिणी। संज्ञानं संज्ञा सा अनुस्मरणम् इदं तदिति ज्ञानम्, विविधं ज्ञानं विज्ञानमनेकभेदम्-अनेकप्रकारम्, अनेकधर्मिणि वस्तुनि तथा, तथाऽध्यवसाय इत्यर्थः / कालमसंख्येयेतरम्' असंख्येयं संख्येयं वा धारणा अविच्युतिस्मृतिवासनारूपा, तत्र वासनारूपा संख्येयवर्षा-युषामसंख्येयम्, संख्येयवर्षायुषां च संख्येयमिति गाथार्थ:। (भाष्यम्)अत्थस्स ऊहबुद्धी, ईहा चेतृत्थअवगमो उमई। संभावणत्थतक्का, गुणपश्चक्खा घडो व्व ऽस्थि / / 20 / / व्याख्या-अर्थस्येहा बुद्धिः संज्ञिनः परिनिरपेक्षार्थपरिच्छेद इति भावः, ईहा-चेष्टा किमयं स्थाणुः किं वा पुरुष इति, सदर्थपर्यालोचनरूपा, अश्वयमस्तु अर्थपरिछे दस्तु शिरः कण्डूयनादिधर्मोपपत्ते, पुरुष: एवायमित्येवरूपा मति: 'संभावणत्थतक्क' त्ति-प्राकृतशैल्या अर्थसंभावना / एवमेव चायमर्थ उपपञ्चत इत्यादिरूपा तर्का / इत्थं द्वाराणि व्याख्याय सर्व एते चित्तादयो गुणा वर्त्तन्त इति जीवाख्यगुणप्रतिपादकेन प्रयोगार्थेनोपसंहरन्नाहगुणप्रत्यक्षत्वाद्धेतो: घटवदस्ति जीव इति गम्यते। एष गाथार्थ: / (भाष्यकार:) एतदेवस्फुटयतिजम्हा चित्ताईया, जीवस्स गुणा हवंति पचमक्खा। गुणपचक्खत्तणओ, घडु व्व जीवा अओ अत्थि।।२।। व्याख्या-यस्माञ्चित्तादयोऽनन्तरोक्ता जीवस्य गुणाः, नाऽजीव-स्य शरीरादिगुणविधर्मत्वात् / एते च भवन्ति प्रत्यक्षाः स्वसंवेद्यत्वात्, यतश्चैवम्-गुणप्रत्यक्षत्वाद्धेतोर्घटवज्जीव: / अतोऽस्तीति प्रयोगार्थः / प्रयोगस्तु सन्नात्मा गुणप्रत्यक्षत्वात् घटवन्नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्धः "विरुद्धो-ऽसति बाधने" इति वचनात्, एतचैतन्य प्रत्यक्षेणैव बाधनमिति गाथार्थः / व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारद्वयेन लक्षण-द्वारम्। (20) इदानीमस्त्वित्वद्वारावसरः, तथा चाह भाष्यकार:अस्थि त्ति दारमहुणा, जीवस्सइ अस्थि विज्जए नियमा। लोआययमनघाय-त्थमुथए तरिथमो हेऊ / / 2 / / व्याख्या- अस्तीति द्वारमधुना सांप्रतमवसरप्राप्तम् तत्रैत-दुच्यतेजीव: सन, पृथिव्यादिविकारदेहमात्ररूप: सन्निति। सिद्धिसाध्यता। न तु ततोऽन्योऽस्तीत्याशङ्कापनोदावाह- अस्त्यन्यश्चेतन्यरूपस्तदपि मातृचैन्तयोपादानं भविष्यति परलोकयायी तु न विद्यत इति मोहापोहायाहविद्यते नियमात्-नियमेन, तथाधाहलोकायतमतघातार्थम्- नास्तिकाभि-प्रायनिराकरणार्थमुच्यते एतत्, तस्य चानन्तरोदित एवाभिप्राय इति सफलानि विशेषणानि तत्र लोकायतमतविघाते कर्तव्ये अयम् - वक्ष्यमाणलक्षणो हेतुः, अन्यथानुपपत्तिरूपो युक्तिमार्ग इति गाथार्थः / (भाष्यम)जो चिंतेइ सरीरे, नऽत्थि अहं स एव होइ जीवो त्ति। नहु जीवम्मि असंते, संसय, उप्पायओ अन्नो ||23|| व्याख्या-यश्चिन्तयति शरीरे अत्र लोकप्रतीतेनास्त्यहं सएव चिन्तयिता भवति 'जीव इति' कथमेतदेवमित्याह-न यस्माज्जीवे असति मृतदेहादौ संशयोत्पादक: अन्य:-प्राणादि: चैतन्यरूपत्वात्संशयस्येति गाथार्थ: एतदेव (भाष्यकार:) भावयतिजीवस्स एस धम्मो, ईहा अस्थि नऽत्थि वा जीवो।