________________ आता 192 अभिधानराजेन्द्रः भाग२ आता विसेसाहियाओ, वीरियाताओ विउवयोगदवियदसणा-याओ तिन्नि वितुल्लाओ, विसेसाहियाओ। (सूत्र-४६७) तत्रच 'सव्वत्थोवाओ चारित्तायाओ' त्ति चारित्रिणां संख्या-तत्वात्। नाणायाओ अणंतगुणाओ' त्ति सिद्धादीनां सम्यग्दृशां चारित्रिभ्योऽनन्तगुणत्वात् / 'कसायायाओ अणंतगुणाओ' 'त्ति, सिद्धेभ्यः कषायोदयवतामनन्तगुणत्वात् 'जोगायाओ विसेसाहियाओ' त्तिअपगतकषायोदपैर्योगवद्भिरधिका इत्यर्थ: वीरियायाओ विसेसाहियाओ' त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्त्वादीति,'उवओगदवियदंसणायाओ तिण्णि वितुल्लाओ विसेसाहियाओ' त्ति-परस्परापेक्षया तुल्याः सर्वेषां सामान्यजीवरूपत्वात्, वीर्यात्मभ्य: सकाशादुपयोगद्रव्यदर्शनात्मानो विशेषाधिका:, यतो वीर्यात्मन: सिद्धाश्च मीलिता उपयोगाद्यात्मनो भवन्ति, ते च वीर्यात्मभ्य: सिद्ध-राशिनाऽधिका भवन्तीति। भवन्ति चात्र गाथा"कोडिसहस्सपुहुत्तं, जईण तो थोदियाउ चरणाया। नाणायाणंतगुणा, पडुच्च य सिद्धाओ ||1|| होंति कसायायाओ-ऽणंतगुणा जेण ते सरागाणं / जोगायाभणियाओ, अजोगिवज्जाण तो अहिया / / 2 / / जं सेलेसिगयाण वि, लद्धी विरियं तओ समहियाओ। उवओगदवियदसण-सव्वजियाणं तवो अहिया'' ||3|| इति। भ०१२ 2010 उ। (5) जीवा: सूक्ष्मा:, बादराश्च (नवविधाश्च) यथा सन्ति तथाऽह भाष्यकार:दुविहाय हुंति जीवा सुहमा तह बायरा य लोगम्मि। सुहुमा य सव्वलोए दो चेव य बायरविहाणे ||9|| व्या- द्विविधाश्च-द्विप्रकाराश्च, चशब्दात्- नवविधाश्च पृथिव्यादिद्वीन्द्रियादिभेदेन भवन्तिजीवा:, द्वैविध्यमाहसूक्ष्मा, तथा बादराश्चा तथा सूक्ष्मनामकर्मोदयात् सूक्ष्मा:, बादरनामकर्मोदयाच बादरा इति, 'लोके इति लोकग्रहणम-लोकेजीवभवनव्यवच्छेदार्थ तत्र सूक्ष्माश्च सर्वलोक इति चशब्दस्यावधारणार्थत्वात् सूक्ष्मा एव सर्वलोकेषु न बादरा:! क्वचित्तेषामसंभवात् 'द्वे एव च पर्याप्तकाऽपर्याप्तकलक्षणे 'बादरविधाने' | बादरविधौ चशब्दात् सूक्ष्मविधाने च / तेषामपि पर्याप्तकाऽपर्यातकरूपत्वादिति गाथार्थः / एतदेव स्पष्टयन्नाह (भाष्यकार:)सुहमा य सव्वलोए, परियावन्ना भवंति नायव्वा। दो चेव बायराणं पज्जत्तियरे अनायव्वा // 10 // व्या.-सूक्ष्मा एव पृथिव्यादय, सर्वलोके चतुर्दशरज्जवात्मकेपर्यायापन्ना भवन्ति-ज्ञातव्याः, पर्यायापन्ना' इति-तमेव सूक्ष्म-पर्यायमापन्ना भावसूक्ष्मानतुभूतभाविनो द्रव्यसूक्ष्मा इति भावः। तथा द्वौ भेदौबादराणां पृथिव्यादीनां चशब्दात्सूक्ष्माणां च पर्याप्तके तरौ ज्ञातव्यौ पर्याप्तकाऽपर्याप्तकाविति गाथार्थ: / दश०४ अ। (6) (लक्षणद्वारम्'लक्खण' शब्दे षष्ठे भागे वक्ष्यते)। तत्रादानादीनां दृष्टान्तानाह (भाष्यकार:) अयगारकूरपरसू, अग्गिसुवने य खीरनरवासी। आहारो दिटुंता, आयाणाईणजहसंखं ||13|| व्या.-अयस्कार: क्रूरस्तथा परशुरग्निः सुवर्णं च क्षीरनरवाश्य: तथा आहारो दृष्टान्ता आदानादीनां प्रक्रान्तानां यथासंख्यं प्रतिज्ञाद्युल्लङ्घनेन चैतदभिधानं परोक्षार्थप्रतिपत्तिं प्रति प्राय: प्रधानाङ्गताख्यापनार्थमिति गाथार्थः। सांप्रतं प्रयोगानाह (भावष्यकार:)देहिंदियाइरित्तो, आया खलु गमगाहगपओगा। संडासा अयपिंडो, अयकाराइव्व विनेओ॥१४|| ध्यान- देहेन्द्रियातिरिक्त आत्मा। खलुशब्दो विशेषणार्थ:, कथंचित, न सर्वथा अतिरिक्त एव तदसंवेदनादिप्रसङ्गादिति अनेन प्रतिज्ञार्थमाह, प्रतिज्ञा पुन: अर्थेन्द्रियाण्यादेयादानानि विद्यमानादातृकाणि, कुतः इत्याह-गाह्यग्राहकप्रयोगात्। ग्राह्या-रूपादयः। ग्राहकाणीन्द्रियाणि तेषां प्रयोग:- स्वफलसाधनव्यापारस्तस्मान्न ह्यमीषां कर्मकरणभाव: करिमन्तरेण स्वकार्यसाधनप्रयोग: संभवत्यनेनापि हेत्वर्थमाह / हेतुश्चादेयादानरूपत्वादिति। दृष्टान्तमाह- संदंशादादानात्अयस्पिण्डादादेयात् 'अयस्कारादिवत्' लोहकारवद्विज्ञेयः अतिरिक्तो विद्यमान आदानत्यनेनापि दृष्टान्तार्थमाह दृष्टान्तस्तु संदंशकायस्पिण्डवत्। यस्तु तदनतिरिक्त: न ततो ग्राह्यग्राहकप्रयोगः। यथा देहादिभ्य एवेति व्यतिरेकार्थः, व्यतिरेकस्तु यानि विद्यमानादातृकाणि न भवन्ति तान्या-दानादेयरूपाण्यपि न भवन्ति / यथा मृतकद्रव्येन्द्रियादीनीति गाथार्थ: / उक्तमादानद्वारम्। (7) अधुना (भाष्यकार:) परिभोगद्वारमाहदेहो सभोत्तिओखलु, भोज्जत्ता ओयणाइथालंव। अन्नप्पउत्तिगा खलु, जोगा परसुव्व करणत्ता ||15|| व्या०- देह: सभोक्तृक: खल्विति प्रतिज्ञा, भोग्यत्वादिति हेतु: ओदनादिस्थालवत्- स्थालस्थितौदनवदिति दृष्टान्त: / भोग्यत्वं च देहस्य जीवेन तथानिवसतोपभुज्यमानत्वादिति। उक्तं परिभोगद्वारम् / अधुना योगद्वारमाह- अन्यप्रयोक्तृकाः खलु योगा:, योगा:-साधनानि मन:प्रभृतीनि करणानीति प्रतिज्ञार्थ: करणत्वादिति हेतु:, परशुवदिति दृष्टान्तः / भवति च विशेषे पक्षीकृते सामान्यं हेतुः, यथा अनित्यो वर्णात्मकः शब्दः, शब्दत्वात् मेघशब्दवदिति गाथार्थ: / उक्तं योगद्वारम्। साम्प्रतम् (भाष्यकार:) उपयोगद्वारमाहउवओगानाभावो, अग्गि व सलक्खणा परिचाया। सकसाया णाभावो, पज्जयगमणा सुवनंव ||16|| व्या.- उपयोगात्-साकारानाकारभेदभिन्नात् 'नाभावो' जीव इति गम्यते, कुत इत्याह-स्वलक्षणापरित्यागादुपयोगलक्षणासाधारणात्मीयलक्षणाऽपरित्यागात् अनिवद्यथाऽनिरौष्ण्यादिस्व लक्षणापरित्यागानाभावस्तथा जीवोऽत्पीति प्रयोगार्थः प्रयोगस्तु सन्नात्मा स्वलक्षणापरित्यागाद्, अग्निवदिति। उक्तमुपयोगद्वारम्। अधुना कषायद्वारमाह- सकषयत्वाद् अचेतनविलक्षणक्रोधादिपरिणामोपेतत्वादित्यर्थः / नाभावो जीवः / कुत