________________ आता 191 अभिधानराजेन्द्रः भाग 2 आता य'त्ति-अतिदेशः, तस्माचेदंलब्धम्-'जस्स कसायाया तस्सदसणाया नियमं अत्थि' दर्शनरहितस्य घटादे: कषायात्मनोऽभावात् 'जस्स पुण दसणाया तस्स कसायाया सिय अस्थि सिय नऽत्थि' दर्शनवता कषायसद्भावात्तदभावा-चेति, दृष्टान्तार्थस्तु प्राक् प्रसिद्ध एवेति 'कसायाया य चरित्ताया य दोवि परोप्परं भइयव्वाओ' त्ति भजना चैवम्यस्य कषायात्मा तस्य चारित्रात्मा स्यादस्ति, स्यान्नास्ति, कथं कषायिणां चारित्रस्य सद्भावात्, प्रमत्तयतीनामिव तदभावाचासंयतानामिवेति, तथा यस्य चारित्रात्मा तस्य कषायात्मास्यादस्तिस्यान्नास्ति, कथं सामायिकादिचारित्रिणां कषायाणां भावाद्यथाख्यातचारित्रिणां च तदभावादिति / 'जहा कसायाया य जोगाया य तहा कसायाया य वीरियाया य भाणियव्याओ' त्ति-दृष्टान्त: प्राक् प्रसिद्धः, दान्तिकस्त्वेवम्- यस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य पुनर्वीर्यात्मा तस्य कषायात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्याद्यथाऽसंयत: अकषायोऽपि स्याद्यथा केवलीति।।६।। अथ योगात्माऽग्रेतनपदैः पञ्चभिः सह चिन्तनीयस्तत्रच लाघवार्थमतिदिशन्नाह- ‘एवं जहा कसायायावत्तव्वया भणिया तहा जोगायाए वि उवरिमाहिं समं भाणियव्य' ति-सा चैवम्-यस्य योगात्मा तस्योपयोगात्मा नियमात् यथा सयोगना, यस्य पुनरुपयोगात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां स्यान्नास्ति यथा- अयोगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यगदृष्टीनामिव, स्यान्नास्ति मिथ्यादृष्टीनाभिव, यस्य ज्ञानात्मा तस्यापि योगात्मा स्यादस्ति, योगिनामिव, स्यान्नास्ति अयोगिनामिवेति, तथा यस्य योगात्मा तस्य दर्शनात्मास्त्येवेति योगिनामिव, यस्य च दर्शनात्मा तस्य योगात्मा स्यादस्ति योगवतामिव स्यानास्त्ययोगिनामिय, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति विरतानामिव, स्यान्नास्त्यविरतानामिव, यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव, स्यान्नास्त्योगिनामिवेति, वाचनान्तरे पुनरिदमेवं दृश्यते- 'जस्सचरित्ताया तस्स जोगाया नियम' ति-तत्र च चारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात्तस्य च योगाविनामावित्वाद्यम्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यते इति, तथा यस्य योगात्मा तस्य वीर्यात्मास्त्येव योगसद्भावे वीर्यस्यावश्यं भावात्, यस्य तु वीर्यात्मा तस्य योगात्मा भजनया यतो वीर्यविशेषवान् सयोग्यपि स्यात् यथा सयोगिकवल्यादिरयोग्यपि स्याद्ययाऽयोगे-केवलीति ||6|| अथोपयोगात्मना सहान्यानि चत्वारि चिन्त्यन्ते। तत्रा-तिदेशमाहजहा दवियाताए वत्तव्वया भणिया तहा उवओगाताए वि उवरिल्लाहिं समं भाणियव्वा। एवं च भावना कार्या यस्योपयोगात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृशां, स्यान्नास्ति यथा मिथ्यादृशां, यस्य च ज्ञानात्मा तस्यावश्यमुपयोगात्मा सिद्धानामिवेति, तथा यस्योपयोगात्मा तस्य दर्शनात्मास्त्येव, यस्यापि दर्शनात्मा तस्योपयोगात्मास्त्येव यथा सिद्धादीनामिति२, तथा यस्योपयोगात्मा तस्य चारित्रात्मा स्यादस्ति, स्यान्नास्ति, यथा संयतानाम, असंयतानां च, यस्य तु चारित्रात्मा तस्योपयोगात्मास्त्येव यथा संयतानां 3, तथा यस्योपयोगात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धा-नामिव, यस्य पुनर्वीर्यात्मा तस्योपयोगगात्मास्त्येव संसारिणा-मिवेति / / अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्तेजस्स णाणाऽऽया तस्स दसणाया णियमं अत्थि, जस्स पुण दंसणाया तस्सणाणाया भयणाए,जस्सणाणाया तस्स चरित्ताया सिय अस्थि सिय णत्थि, जस्स पुण चरित्ताया तस्स णाणाया णियमं अत्थि,णाणाता वीरियाता दो वि परोप्परं भयणाए। तत्र यस्य ज्ञानात्मा तस्य दर्शनात्मास्त्येव सम्यग्दृशामिव, यस्य च दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृशां, स्यान्नास्ति यथा मिथ्यादृशामत एवोक्तम्- 'भयणाए' त्ति, 1, तथा' जस्स नाणाया तस्स चरित्ताया सिय अत्थि' त्ति। संयतानामिव। 'सिय नत्थि' त्ति, असंयतानामिव 'जस्स पुण चरित्ताया तस्स नाणाया नियमं अत्थि' त्ति, ज्ञानं विना चारित्रस्याभावादिति 2, तथा- 'नाणाये' त्यादि / अस्यार्थ:- यस्य ज्ञानात्मा तस्य वीर्यात्मा स्यादस्ति केवल्यादीनामिव, स्यान्नास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति, सम्यगदृष्टेरिव, स्यान्नास्ति मिथ्यादृश इवेति 3/ अथदर्शनात्मना सह द्वेचिन्त्येतेजस्स दंसणाया तस्य उवरिमाओ दो वि भयणाए, जस्स पुण ताओ तस्स दंसणाया णियमं अस्थि / जस्स चरित्ताया तस्स वीरियाता णियमं अत्थि, जस्स पुण वीरियाता तस्स चरित्ताया सिय अस्थि सिय णत्थि। 'जस्स दंसणाये' त्यादि, भावना चास्य- यस्य दर्शनात्मा तस्य चारित्रात्मा स्यादस्ति संयतानामिव, स्यान्नास्त्य-संयतानामिव, यस्य च चारित्रात्मा तस्य दर्शनात्मास्त्येव साधूनामिवेति, तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव, स्यानास्ति सिद्धानामिव, यस्य च वीर्यात्मा तस्य दर्शनात्मास्त्येव संसारिणामिवेति ॥शा अथान्तिमपदयोर्योजना-'जस्स चरित्ते' त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्मास्त्येव वीर्यं विना चारित्रस्याभावात्, यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव, स्यान्नास्ति असंयतानामिवेति। अधुनैषामेवात्मनाल्पबहुत्वमुच्यतेएयासि णं भंते ! दवियाऽऽताणं कसायाऽऽताणं जाव वीरियायाणं कयरे कयरेहिंतो अप्पा वाजाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा चरित्तायाओ णाणायाओ अणंतगुणाओ, कसायायाओ अणंतगुणाणो जोगायाओ