________________ आ(य)तट्ट 179 अमिधानराजेन्द्रः भाग 2 आ(य)तट्ठ 'पुट्विं' पूर्वमेव तं सर्वोपायक्षीणं पोषयन्ति स वाऽप्रासेष्ट - मनोरथलाभ: संस्तान्निजान् पश्चात्पोषयेदर्थदानादिना सम्मानयेदिति / ते च पोषका: पोष्या वा तवापगतस्य न त्राणाय भवन्तीत्याह- 'नालं' इत्यादि। तेज निजा मातापित्रा-दयस्तवेत्युपदेशविषयापन्ना, उच्यतेत्राणायआपद्रक्षणार्थं शरणाय-निर्भयस्थित्यर्थं नालं-नसमर्थाः, त्वमपि तेषां त्राण-शरणे कत्तुं नालमिति : तदेवं तावत् स्वजनो न आणाय भवतीत्येत्प्रतिपादितम्। अर्थोऽपि महता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येतत्प्रतिपिपादयिषुराहउवादितसेसं तेण वा संणिहिसंणिचओ किज्जइ, इहमे-गेसिं असंजयाणं भोयणाए, तओ से एगया रोगसमुप्पाया समुप्पज्जंति, जेहिं वा सद्धिं संवसति, ते वा णं एगया णियगा तं पुट्विं परिहरंति, सो वा ते णियए पच्छा परिहरेज्जा, णालं ते तव ताणाए वा सरणाए वा तुमं पि तेसिं णालं ताणाए वा सरणाए वा, (सूत्र-६७) 'उवादिते' ति-'अद्' भक्षणे इत्येतस्मादुपपूर्वानिष्ठाप्रत्ययः, तत्र बहुलं छन्दसीतीडागम:, उपादितम्- उपभुक्तं, तस्य शेषमुपभक्तशेष, तेन वा वाशब्दादनुपभुक्तशेषेण वा सन्निधामं सन्निधिस्तस्य सन्निचयस्सन्निधिसन्निचयः अथ वा- सम्यग्निधीयते-स्थाप्यत उपभोगाय योऽर्थः स संनिधिस्तस्य सन्निचयः प्राचुर्यमः; उपभोग्यद्रव्यनिचय इत्यर्थः स इहास्मिन् संसारे एवेषाम-असंयतानां; संयताऽऽभासानां वा केषां चिरोजनाय-उपभोगार्थ क्रियते-विधीयत इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह- 'तओ से' त्यादि, ततो द्रव्यसंनिधिसंनिचयादुत्तरकालमुपभोगाऽवसरे से तस्य बुभुक्षोरेकदेति द्रव्यक्षेत्रकालभावनिमित्ता-विर्भावितवेदनीयकर्मोदये रोगसमुत्पादा:-ज्वरादिप्रादुर्भावाः समुत्पद्यन्त' इति-आविर्भवन्ति। सच तै: कुष्ठराज-यक्ष्मादिभिरभिभूत: सन् भग्नासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाऽऽकुल: किंभूतो भवति इत्याह- 'जेहिं इत्यादि, यैम्मातापित्रादिभिर्निजैः सार्द्ध संवसति त एव वा निजा एकदा रोगोत्पत्तिकाले पूर्वमेव तंपरिहरन्ति,सवातान्निजान्पश्चात्परिभवोत्थापितविवेकः परिहरेत् त्यजेत्तन्निर-पेक्ष: सेडुकवत्स्यादित्यर्थ; ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तो अपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति- 'नालं' इत्यादि, पूर्ववद्, रोगाद्यभिभूतान्त:करणेन- चाऽपगतत्राणेन न च किमालम्ब्य सम्यक्करणेन रोगवेदना: सोढव्या इति आहजाणित्तु दुक्खं पत्तेय सायं / (सूत्र-६८) 'जाणितु', इत्यादि, ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं शातं वा दीनमानसेन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्मफलमवश्यमनुभवनीयमीति मत्वा न वैक्लव्यं कार्यमिति, उत्युक्तंच-'सह कले (डे) वर! दु:खमचिंतयत्, स्ववशता हि पुनस्तव दुर्लभा। बहुतरं च सहिष्यसि जीव हे ! परवशो न च तत्र गुणोऽस्ति ते" // 12 // यावच्च श्रोतादिभिर्विज्ञानैरपरिहीयमानैर्जराजीणं न निजा: परिवदन्ति, यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावादात्मार्थोऽनुष्ठेय इत्येतद्दर्शयतिअणमिक्कंतं च खलु वं संपेहाए ! (सूत्र-६९) 'अणभिक्कंतञ्च' इत्यादि, चशब्द: आधिक्ये खलु शब्द: पुन:शब्दार्थ पूर्वमभिक्रान्तं वयं: समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वय: संप्रेक्ष्य'आयटुंसम्म समणुवासेज्जासि' (सूत्र७१) इत्युत्तरेण संबन्धः, आत्मार्थम् आत्महितं समनुवासयेत् ; कुर्यादित्यर्थः। किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापीति ? परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतदर्शयतिखणं जाणाहि पंडिए (सूत्र-७०) क्षण: अवसरो धर्मानुष्ठानस्य स चार्यक्षेत्रसकुलोत्पत्त्यादिक: परिवादपोषणपरिहारदोषदुष्टानां जराबालभावरोगाणामभावे सति, त क्षणं जानिहि अवगच्छ पण्डित!-आत्मज्ञ! अथवा-अवसीदन् शिष्य: प्रोत्साह्यते-हे अनतिक्रान्तयौवन ! परिवादादिदोषत्रयास्पृष्टपण्डित ! द्रव्यक्षेत्रकालभावभेदभिन्न क्षणम्-अवसरमवंभूतंजानीहि-अवबुध्यस्व / आच०। (क्षण-स्वरूपम् 'खण' शब्दे 3 भागे दर्शयिष्यते) एवंभूतमवसरमवाप्यात्मार्थ समनुवासयेदित्युत्तरेण सम्बन्धः। किञ्चजाव सोत्तपरिणाणा अपरिहीणा णेत्तपरिण्णाणा अपरिहीणा घाणपरिणाणा अपरिहीणा रसणपरिण्णाणा अपरिहीणा फासपरिणाणा अपरिहीणा इचेतेहिं विरूव-रूवेहिं पण्णाणेहिं अपरिहायमाणेहिं आयटुं सम्मं समणुवासेज्जासि त्ति बेमि / (सूत्र-७१) 'जाव' इत्यादि-, यावदस्य-विशरारो: कायापसदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति एवं नेत्रघ्राणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते इत्येतैर्विरूपरूपैःइष्टानिष्टरूपतया नानारूपैः प्रज्ञानै:- प्रकष्टैनिरपरिक्षीयमाणैः सद्भिः किं कुर्यात, इत्याह- 'आयटुं' इत्यादि, आत्मनोऽर्थ आत्मार्थः स च ज्ञान-दर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव / अथवा आत्मने हितं प्रयोजनमात्मार्थतच चारित्रानुष्ठानमेव!अथवा आयत:- अपर्यवसानान् मोक्ष एव स चासावर्थश्वायतार्थोऽतस्तम्, यदि वा-आयत्तो-मोक्ष: अर्थ:प्रयोजनं यस्य दर्शनादित्रयस्य तत्तथा 'समनुवासयेद्' इति-'वस' निवासे, इत्यस्माद्धेतुमण्णिजन्ताल्लिट, (सिप्) सम्- सम्यग्यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तंवयं: संप्रेक्ष्य क्षणम् अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानांवा प्रहीणतामधि-गम्यततआत्मार्थसमनुवासये:-आत्मनि विदध्याः / अथ वा अर्थवशाद्विभक्तिपुरुष-विपरिणाम इति कृत्वा तेन