________________ आ(य)तट्ठ 178 अभिधानराजेन्द्रः भाग 2 आ(य)तट्ठ अनुस्वार लोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तमॊहूर्तिकत्वाच छाद्यस्थिकोपयोगस्य मुहूर्त्तमित्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेदिति याच्यं, तदुक्तम"संप्राप्य मानुषत्वं, संसारासारतां च विज्ञाय। हे जीव ! किं प्रमादा-नचेष्टसे शान्तये सततम्॥१॥ ननु पुनरिदमतिदुर्लभ- मगाधसंसारजलधिविभ्रष्टम्। मानुष्यं खद्योतक-तडिल्लताविलसितप्रतिमम्' ||2|| इत्यादि, किमर्थश्च नो प्रमादयेदित्याह- 'वयो अच्चेइ' त्ति-वय: कुमारादि 'अत्येति' अतीव एति-याति अत्येति, अन्यच. "जोव्वणं व''त्ति-अत्येत्यनुवर्तते, यौवनं वाऽत्येति- अति-क्रामति, वयोग्रहणेनैव यौवनस्यावगतत्वात्तदुपादानं प्राधान्य-ख्यापनार्थ, धर्मार्थकामानां तन्निबन्धनत्वात् सर्ववयसां यौवनं साधीय: तदपि त्वरित यातीति, उक्तं च- नईवेगसमंचवलं, जीवियंजोव्वणञ्चकुसुमसमा सोक्खंचजं अणिचं तिण्णि वि तुरमाणभोज्जाइं" ||1|| तदेवं मत्वा अहो विहारायोत्थानं श्रेय इति। अथ वा- खिद्यमानार्थतया तानसाववगायति; परिभवतीत्यर्थः। येऽपि पूर्वकृतधर्मवशात्तं वृद्धंन परवदन्ति तेऽपि तद्-दुःखाऽपनयनसमर्था न भवन्ति, आह च. 'नालामि' त्यादि- नाऽलं-न समस्ते पुत्रकलत्रादयस्तवेति। प्रत्यक्षभावमुपगतं वृद्धमाह-त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थ त्राणमुच्यते, यथा महाश्रोतोऽभिरुह्यमान: सुकर्णधाराऽधिष्ठितं प्लवमासाद्या- ऽऽपस्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत्पुनर्दुर्ग-पर्वत: पुरुषो वेति, एतदुक्तं भवति-जराभिभूतस्य न कश्चित् त्राणाय, शरणाय वा, त्वमति तेषां नालं त्राणाय शरणायवेति, उक्तञ्च-"जन्मजरामरणभयै-रभिद्रुते व्याधि- वेदनाग्रस्ते / जिनवरवचनादन्य-त्र नास्ति शरणं क्वचिल्लोके॥१॥'' इत्यादि, सतुतस्यामवस्थायां किंभूतो भवतीत्याह'से ण हस्साए' इत्यादि, स जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् नपरान्हसितुंयोग्यो भवतीत्यर्थः। सच समक्ष परोक्षंवा एवमभिधीयते जनै:-किं किलास्य हसितेन हास्यास्पदस्येति। न च क्रीडायै न च लङ्घनवल्गना-स्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति रतिरिह विषयगता गृह्यते सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यव-जुगूहिषु: स्त्रीभिरभिधीयते-न लज्जते भवान्न पश्यतिआत्मानं नावलोकयति शिर:पलितभस्मावगुण्डितं मां दुहि- तृभूतामेवं गूहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलिक: स नैव शोभते. उक्तश्च"न विभूषणमस्य युज्यते, न च हास्यं कुत्त एव विभ्रम: ? अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् // 1 // "जंज करेइ तंतं, न सोहए जोव्वणे अतिक्कते। पुरिसस्स महिलियाए, एक्कं धम्म पमुत्तूणं" ||2|| गतमप्रशस्तं मूलस्थानम्। सांप्रतं प्रशस्तमुच्यतेइच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं संपेहाए धीरे मुहत्तमवि णो पमायए वओ अच्चेति जोव्वणं व (सूत्र-६५) अथ वा-यत एवं ते सुहृदो नाऽलं त्राणाय शरणाय वा अत: किं विदध्यादित्याह- इचेवमि' त्यादि, इतिरूपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्मफलं प्राणिानामित्येवं मत्वा, समुत्थितःसम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानामधितिष्ठन् 'अहो' इत्याश्चर्ये, विहरणं विहार आश्चर्यभूतो विहारोऽहोविहारो यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थित: सन् क्षणमपि नो प्रमादयेदित्युत्तरेण सण्ट- ङ्कः। किंच- 'अन्तरं चे' त्यादि, अन्तरमिति- अवसरस्तचार्यक्षेत्रसुकुलोत्पत्तियोधिलाभसर्वविरत्यादिकं, च: समु-चये, खलुरवधारणे इममिति अनेनेदमाह-विनेयस्तप:संयमा- दाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपद-याभिधीयते- तवायमेवंमूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति, अतस्तमवसरं संपेक्ष्य पर्यालोच्य धीर: सन् मुहूर्तमप्येकं नो प्रमादयेत्- नो प्रभादवशगो भूयादिति, संपेक्ष्येत्यत्र ये पुन: संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवन्तीत्याहजीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुपिता उद्दवित्ता उत्तासइत्ता, अकडं करिस्मामि ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वाणं एगया नियगा तं पुट्विं पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा नाऽलं ते तव ताणाए वा सरणाए वा, तुमं पितेसिं नाऽलं ताणाए वा सरणाए वा। (सूत्र-६६) 'जीविए' इत्यादि, ये तु वयोऽतिक्रमणं नावगच्छन्ति, ते 'इह' इतिअस्मिन्नसंयमजीविते प्रमत्ता अभ्युपपन्ना विषयकषायेषु प्रमाद्यन्ति प्रमत्ताश्वाहर्निशं परितप्यमानाः कालाऽकाल- समुत्थायिन: सन्त: सत्त्वोपघातकारिणी: क्रियाः समारम्भत, इति, आह च -' से हंता' इत्यादि 'से' इत्यप्रशस्त-गुणमूलस्थानवान्विषयाभिलाषी प्रमत्तः सन् स्थावरजङ्गमा नामसुमतां हन्ता भवतीति, अत्र च बहुवचन- प्रक्रमेऽपि जात्येपक्षयैकवचननिर्देश इति, तथा छेत्ता कर्णनासिकादीनां भेत्ताशिरोनयनोदरादीनां लुम्पयिता ग्रन्थिच्छेदनादिभि-विलुम्पयिता ग्रामघातादिभिरपद्रावयिता प्राणव्यपरोपको विषशस्वादिभिरपदावयिता वा उत्त्रासको, लोष्टप्रक्षेपादिभिः स किमर्थं हननादिकाः क्रिया: करोतीत्याह- 'अकडं' इत्यादि अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्यामीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिक्रियायु प्रवर्तते स एवं क्रूरकर्मा -अतिशयकारी समुद्रलङ्घनादिका: क्रिया: कुर्वन्नप्यला भोदयादपगतसर्वस्वः किंभूतोभवतीत्याह- 'जेहिं वा' इत्यादि। वाशब्दो भिन्नक्रमः पक्षान्तरद्योतको, यैर्मातापितृस्वजनादिभिः सार्द्ध संवसत्यसौ त एव वा णमिति वाक्यालङ्कारे, एकदेतिअर्थनाशाद्यापि शैशवे वा निजा आत्मीया बान्धवाः सुहृदो वा