________________ आ(य)तट्ट 177 अभिधानराजेन्द्रः भाग 2 आ(य)तट्ठ व्याऽकर्तव्यज्ञतामिन्द्रियपाटवाभावादात्मनो जनयति: हिताऽहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थ:: जनयन्तीति विवेकवचनावसरे "तिडा तिङो भवन्ति'' इति बहुवचनमकारि, अथवा-तानि वा श्रोत्रविज्ञानानि परिक्षोय- माणान्यात्मनः सद्सद्विवेकशून्यतामापादयन्तीति, श्रोत्रा-दिविज्ञानानां च तृतीया प्रथमार्थे सुब्व्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम् / अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यम्- श्रोत्रेणात्मनो विज्ञानानि | चक्षुषात्मनो विज्ञानानीति ! (आचा.) अत्र च 'सोयपरिणाणेहिं परिहायमाणेही त्यादि, य उत्पत्तिं प्रति व्यत्ययेनेन्द्रियाणामुपन्यास: स एवमर्थं द्रष्टव्यः- इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इति कृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्ति: सूचिता भवति। श्रोतादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदवाह-'अभिक्केतमि' त्यादि, अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः 'अभिक्कंतं च खलु वयंसपेहाए' तत्र प्राणिनां कालकृता शरीरावस्था- यौवनादिर्वय: तज्जरामाभि मृत्युं वा क्रान्तमभिक्रान्तम्, इह हि चत्वारि क्यासि कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च- "प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम्। तृतीये न तपस्तप्तं, चतुर्थे किं करियष्यति''||२|| तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसी कौमारयौवनस्थविरत्वभेदाद् उक्तंच-"पिता रक्षति कौमारे, भर्ता रक्षति यौवन। पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥शा अन्यथा वा त्रीणि वयांसि बालमध्यमत्ववृद्धत्वभेदाद, उक्तं च-"आषोडशाद्भवेद बालो, यावत्, क्षीरान्नवर्तकः। मध्यम: सप्तर्ति याव-त्परतो वृद्ध उच्यते / / 1 / / ' एतेषु वयस्सु सर्वेष्वपि या उपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तक्या इत्युच्यते, च: समुचये, न केवलं श्रोत्रचक्षुर्घाणरसनस्पर्शनविज्ञान-य॑स्तसमत्तैर्देशत: सर्वतो वा परिहीयमानैर्वा मोढ्यमापद्यते, वयश्चातिक्रान्तंप्रेक्ष्यपर्यालोच्य, 'स' इति प्राणी खलुरिति विशेषणे विशेषेण अत्यर्थं मौढ्यमापद्यत इति आह च'ततो से' इत्यादि, 'तत' इति तस्मादिन्द्रियविज्ञानापचयाद् वयोऽतिक्रमणादा 'से' इति प्राणी एकदें ति-वृद्धावस्थायां मूढ-भावोमूढत्वं किंकर्तव्यताभावमात्मनो जनयति, अथवा-'से' तस्याऽसुभृत: श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढत्वभावं जनयन्तीति। स एवं वार्द्धक्ये मूढस्वभाव: सन् प्रायेण लोकावगीतो भवतीत्याहजेहिं वा सद्धिं संवसतिते विणं एगदा णियगा पुट्विं परिवयंति, सोऽवि ते णियए पच्छा परिव्वएज्जा, णाऽलं ते तव ताणाए वा सरणाए वा, तुम पि तेसिंणाऽलं ताणाए वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए। (सूत्र-६४) "जेहिं वे' त्यादि, वाशब्द: पक्षाचरद्योतकः।आस्तांतावत् अपरोलोको यैः पुत्रकलज्ञादिभिः सार्द्ध सह संवसति त एव भार्यापुत्रादयो णमिति वाक्यालङ्कारेणा एकदेति-वृद्धावस्थायां 'नियगा' आत्मीया ये तेन समर्थाविस्थायांपूर्वमेव पोषितास्तेतं परिवदन्ति' परि-समन्ताद्वदन्तियथाऽऽयं न मियते, नापि मञ्चकं ददाति, यदि वापरिवदन्तिपरिभवन्तीत्युक्तं भवति, अथ वा-किमनेन वद्धनेत्येवं परिवदन्ति न केवलमेषां तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह च-" वलिसंतत-मस्थिशेषितं, शिथिलस्नायुधृतं कडे (ले) वरम्। स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा''||१|| गोपालबालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो बुद्धिमधितिष्ठतीत्यतस्दाविर्भावनाय कथानकम्-कौशाम्ब्यां नगर्यामर्थवान् बहुपुत्रो धनो नाम सार्थवाहस्तेन चैकाकिना नानाविधै - रुपायैः स्वापतयमुपार्जितम्, तचाशेषदुःखितबन्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशाद् वृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभरं निचिक्षेप। तेऽपि क्यमनेनेदृशीमवस्थां नीता: सर्वजनाग्रे 'सरा विहिता' इति कृतोपकारा: सन्त: कुलपुत्रतामवलम्बमाना: स्वत: क्वचित् कार्यव्यासङ्गात्स्वभार्याभिगस्तमकल्पं वृद्धं प्रत्यजजागरन् ता अप्युदर्तन-स्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यस्ततो गच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषुजरद्धेच विवशकरणपरिचारे सर्वाङ्गकम्पनिगलदशेषश्रोतसिसति शनैः शनैरुचितमुपचारं शिथिलतां निन्यु: असावपि मन्दप्रतिजागरणतया चित्ताभिमानन विश्रसया च सुतरां दु:खसागरावगाढः सन् पुत्रेभ्यः स्नुपाक्षुण्णान्याऽऽचचक्षे ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्य: सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्य: क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपढते, यदि भवतामप्यस्माकमुपर्यवसम्भस्ततोऽन्येन विश्वसनीयेन निरूपयत तेऽपि तथैव चक्रुः तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथावसरं विहितवत्य:, असावपि पुत्रैः पुष्ट: पूर्वविक्षितचेतोस्तथैव ता अपवदति नैता मम किश्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययैकवचनादवगततत्त्वैर्यथायमुपचर्यमाणोऽपि वार्द्धक्याद्रोरुद्यते, ततस्तैरप्य-वधीरितोऽन्येषामपि यथाऽवसरे तद्भण्डनस्वभावतामाक्चक्षिरो ततोऽसौ पुत्रैरवधीरित: ग्नुभाषि: परिभूत: परिजनेनावगीतो वामात्रेणापि केनविदप्यननु-वर्त्यभान: सुखितेषुदुःखित: कष्टतरामायुः शेषामवस्थामनुभवतीति, एवमन्यो ऽपि जराभिभूत विग्रहस्तृणकुजीकरणेऽप्यसमर्थः सन् कार्येकनिष्ठ लोकात्परिभवमाप्रातीति, आह-"गात्रं संकुचितंगतिर्विगलितादन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसते वक्त्रं च लाला-यते। वाक्यं नैव करोति बान्धवजन: पत्नी न शुश्रुषते, धिक्कष्टं जरयाऽभिभूतपुरुष पुत्रोऽप्यवज्ञायते // 1 // इत्यादि, तदेवं जराभिभूतं निजा: परिवदन्त्यसावपि परिभूयमान-स्तद्विरक्तचेतास्तदपवादान्जनायाऽऽचष्टे,आह-च'सोवा' इत्यादि,वाशब्दःपूर्वापेक्षया पक्षान्तरं दर्शयति ते वा निजास्तं परवदन्ति,स वा जगर्जजरितदेहस्ताविजान् अनेकदोषौद्घट्टनतया परिवदेनिन्देद्,