________________ आणुपुव्वी 170 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी द्वयात् परतोऽपि तिष्ठेतदा तत्राप्यानुपूर्वीत्वमनुभवेत्, ततो-ऽन्तरमेव न स्यादिति भाव: नानाद्रव्याणां तु नाऽस्त्यन्तरं सर्वदा लोकस्य तदशून्यत्वादिति। अनानुपूर्वीचिन्तायाम् ‘एगं दव्वं पडुच जहण्णेणं दो समय' त्ति-एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा समयद्वयं जघन्योऽन्तरकाल:, यदितु परिणामान्तरेणाऽप्येकमेव समयं तिष्ठेत्तदा अन्तरमेव न स्यात्, तत्राप्यनानुपूर्वीत्वाद्, अथ समयद्वयात्परतस्तिष्ठेतदा जघन्यत्वं न स्यादिति भावः। 'उक्कोसेणं असंखेज्जं कालं' ति- तदेव यदा परिणामान्तरेणासंख्येयकालमनुभूय पुनरेकसमयस्थितिक परिणाममनुभवति तदोत्कृष्टतोऽसंख्येयोऽन्तरकल: प्राप्यते। आह ननु यदिच अन्यान्यद्रव्यक्षेत्रसम्बन्धे तस्यानन्तोऽपि कालाऽन्तरे लभ्यते किमित्यसंख्येय एवोक्त ? सत्यम्, किन्तु-कालानुपूर्वीप्रक्रमात्कालस्यैवेह प्राधान्यं कर्त्तव्यम्, यदि त्वन्यान्यद्रव्यक्षेत्रसम्बन्धतोऽन्तरकालबाहुल्यं क्रियते तदा तद्द्वारेणैवान्तरकालस्य बहुत्वकरणात्तयोयोरेव प्राधान्यमाश्रितं स्यान्न कालस्य तस्मादेकास्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्ट: कालो लभ्यते स एवान्तरे चिन्त्यते, सचासंख्येय एव तत: परभेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवतः सूत्रस्य विवक्षावैचित्र्यात्सर्वं पूर्वमुत्तरत्र चागमाऽविरोधेन भावनीयमिति। नानाद्रव्याणांतुनास्त्यन्तरं प्रतिप्रदेशं लोके सवदा तल्लाभादिति / अवक्तव्यकद्रव्याचिन्ता-याम् 'जहण्णेणं एग समयं' ति-द्विसमयस्थितिकं किञ्चदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूवानुभूतमेव द्विसमयस्थितिकपरिणाममासादयति ता समयो जघन्या-न्तरकाल:। 'उक्कोसेणं असंखेज्जं कालं' ति- तदेव यदा परिणामान्तरेणासंख्येयं काले स्थित्वा पुनस्तमेव पूर्व्यानुभूतं परिणाममासादयति तदाऽसंख्यात उत्कृष्टोऽन्तरकाला भवति, आक्षेपपरिहारावत्राप्यनानुपूर्वीवत् दृष्टव्याविति। नानाद्रव्यान्तरं तु नास्ति सर्वदा लोक तद्भावादिति। उक्तमन्तरद्वारम्। भागद्वारेभाग-भाव अप्पा बहुं चेव जहा खेत्ताणुपुटवीए तहा भाणिअव्वाइं, जाव सेत्तं अणुगमे। सेत्तं नेगमववहाराणं अणोवनिहिआ कालाणुपुर्वी। (सूत्र-११२४) भागद्वारे तुयथा द्रव्य-क्षेत्रानुपूर्दोस्तथैवानुपूर्वीद्रव्याणि शेषद्रव्यभ्योऽ- | संख्येयै गैरधिकानि व्याख्येयानि, शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसंख्येयभाग एव वर्तन्ते इति, भावना त्वित्थं कर्त्तव्याइहानानुपूर्व्यामेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेप्यपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूया तु त्रिसमयचतु: समयपञ्चसमयस्थित्या दीन्येकोत्तरध्दयाऽसंख्येयसमयस्थित्यन्तान्यसंख्येयानि स्थानानि लभ्यते,इत्यानुपूर्वीद्रव्याणामसंख्येयगुणत्वम्, इतरयोस्तु तदसंख्येयभागवर्त्तित्वमिति / भावद्वारे सादिपारिणामिकभाववर्तित्वं त्रयाणामपि पूर्ववद्भावनीयम् / अल्पबहुत्वद्वारम् - सर्वस्तोकान्यवक्तव्यकद्रव्याणि द्विसमय-स्थितिकद्रव्याणांस्वभावत एवं स्तो कत्वात् अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिकद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वाद्, आनुपूर्वीद्रव्याणां तु पूर्वेभ्यो-ऽसंख्यातगुणत्वं भागद्वारे भावितमेव, शेष तु क्षेत्रानुपूर्व्या-धुक्तानुसारत: सर्ववाच्यमिति अत एव केषुचिद्वाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निर्दिष्टं दृश्यते, नतु विशेषतो लिखितमिति। 'सेत्तमि' त्यादि निगमनम् / उक्ता नैगम व्यवहारनयमतेनानोपनिधिकी कालानुपूर्वी। अथ संग्रहनयमतेन तामेव व्याचिख्यासुराहसे किं तं संगहस्स अणोवनिहिआ कालाऽऽनुपुथ्वी? संगहस्स अणोवणिहिया कालाणुपुथ्वी पंचविहा पण्णत्ता, तं जहा अट्ठपयपरूवणया 1, मंगसमुक्कित्तणया 2, भंगोव-दंसणया 3, समोतारे 4, अणगुमे / (सूत्र-११३)1 से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणया एआई पंच वि दाराइं जहा खेत्ताणुपुथ्वीए संगहस्स तहा कालाणुपुटवीए वि भाणिअथ्वाइं, णवरं ठिई, अमिलावो, जाव सेत्तं अणगुमे / सेत्तं संगहस्स अणो वनिहिआ कालाणु पुटवी / सेत्तं अणोवनिहिआ कालाणुपुथ्वी, (सूत्र-११४)। 'से किं तं' त्यादि / यथा क्षेत्रानुपुामियं संग्रहमतेन प्राग्निर्दिष्टा तथाऽत्रापि वाच्या, 'नवरं तिसमयठिइया आनुपुथ्वी जाव असंखेज्जसमयट्ठिइया आणुपुब्धी' त्यादि अभिलाप: कार्य: शेष तु तथैवोत। उक्ता संग्रहमतेनाष्यनौपनिधिकी कालानुपूर्वी, तथा च सति अवसित: तद्विचारः। इदानीं प्रागुद्दिष्टामेवोपनिधिकीं तां निर्दिदिक्षुराहसे किं तं उवनिहिआ कालाणुपुष्वी उवणिहिआ कालाणुपुव्वी तिविहा पण्णत्ता, तं जहा पुटवाणुपुटवी, पच्छाणुपुटवी, अणाणुपुथ्वी, से किं तं पुष्वानुपुष्वी ? पुव्वाणुपुव्वी। (अनु.)। एगसमयहिइए, दुसमयष्ठिइए, तिसमयट्टिइए जाव दससमयट्ठिइए संखिज्जसमयटिइए असंखिज्जसमय-द्विइए। सेत्तं पूवानुपुटवी। से किं तं पच्छानुपुव्वी ? पच्छाणुपुव्वी असंखिज्जसमयट्ठिइए जाव एगसमयट्ठिइए। सेत्तं पच्छानुपुटवी। से किं तं अणानुपुटवी ? अणाणुटवीएआए चेव एगाइआए एगुत्तरिआए असंखिज्ज-गच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो / सेत्तं अणानुपुथ्वी। ‘से किं तमि' त्यादि / एक : समय: स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसंख्येया: समया: स्थितिर्यस्य स तथेति पूर्वानुयुर्वी शेषभावना त्वत्र पूर्वक्तानुसारेण सुकरैव /