________________ आणुपुव्वी 164 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी भागे होज्जा? तिण्णि वि जहा दव्वाणुपुथ्वीएx। तत्र च यथा द्रव्यानुपूर्त्यां तथाऽत्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्यः शेषद्रव्येभ्योऽसंख्येयैगिरधिकानि, शेषद्रव्याणि तु तेषामसंख्येभागे वर्तन्त इति / अत्राह- ननु त्र्यादिप्रदेशावगाढानि द्रव्याण्यानुपूर्दा एकैक प्रदेशा-वगाढान्यनानुपूर्दो द्विद्विप्रदेशावगाढान्यवक्तव्यकानीतिप्राक् प्रतिज्ञातम्, एतानि चानुपूर्व्यादीनि सर्वस्मिन्नपि लोक सन्त्यतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि-असत्कल्पनया किललोके त्रिशत्प्रदेशाः, तत्र चानानुपुर्वीद्रव्याणि त्रिशदेव, अवक्तव्यकानि तु पञ्चदश आनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति, शेषभ्य: स्तोकान्येव प्राप्नुवन्ति, कथमसंख्येयगुणानि स्युरिति ? अत्रोच्यते- एकस्मिन्नापूर्वीद्रव्ये ये नभ:प्रदेशा: उपयुज्यन्ते ते यद्यन्यस्मिन्नपिनोपयुज्येरैस्तदास्यादेवंतचनास्तियत एकस्मिन्नपि प्रदेशत्रयनिष्पत्रे आनुपूर्वीद्रव्ये ये त्रयः प्रदेशास्तएवाऽन्यान्यरूपतयाऽवगाढे नाधेयद्रव्येणाऽऽक्रान्ता: सन्त: प्रत्येक मने के षु त्रिकसंयोगेषुगण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात, तद्भेदे चाधारभेदादिति भावः / एवमन्यान्यपि चतु:- प्रदेशावगाढाद्याधेयेनाध्यासितत्वात् त एवानेकेषु चतुष्कसंयोगेष्वनकेषु पञ्चकसंयोगेषु यावदेने केवससंख्येयक संयोगेषु प्रत्येक-मुपयुज्यन्ते, एवं चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषु ये चतुरादय: प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावनीया, तस्मादसंख्येयप्रदेशात्मकेष्वस्थित्या व्यवस्थिते लोक यावन्तस्त्रिकसंयोगादयोऽसंख्येयकसंयोगपर्यन्ता: संयोगा जायन्तेतावन्त्यापूर्वीद्रव्याणि भवन्ति, प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावाद, आधेयभेदे चाधारभेदात्, नहिनभ: प्रदेशा येनैव स्वरूपेणैकस्मिन्नाधेये उपयुज्यन्ते तेनैव स्वरूपे- णाधेयान्तरेऽपि आधयैकताप्रसङ्गाद्, एकस्मिन्नाधारस्वरूपे तदवगाहाभ्युपगमात्, घटे तत्वस्वरूपबत्, तस्मात्त्र्यादिसं-योगाना लोकेबहुत्वादानुपूर्वीणां बहुत्वं भावनीयम् / अवक्त- व्यकानि तु स्तोकादि द्विकसंयोगानां तत्र स्तोकत्वाद्, अनानु- पूर्योऽपि स्तोका एव लोकप्रदेशसंख्यमात्रत्वाद् अत्र सुखप्रति- पत्त्यर्थलोकेकिल पञ्चाकाशप्रदेशा: कल्प्यन्ते, तद्यथा 00000 अत्रानुपूर्यस्तात्पश्चैव प्रतीता: अवक्तव्यकानि त्वष्टौ द्विकसंयोगानामिहाष्टानामेव संभवाद्, आनुपूर्यस्तु षोडश सभवन्ति, दशानां त्रिकसंयोगानां पञ्चानां चतुष्कसंयोगानामे-कस्य तु पञ्चकयोगस्येह लाभाद्, दश त्रिकयोगा: कथमिह लभ्यन्ते? इति चेत्, उच्यते-षड् तावत् मध्यव्यवस्थापितेन सहलभ्यते चत्वारस्तु त्रिकसंयोगादिव्यवस्थापितैश्चतुभिरेव केवलैरिति, चतुष्कयोगास्तु चत्वारो मध्यव्यवस्थापितेन सह लभ्यन्ते, एकस्तु तन्निरपेक्षैर्दिव्यवस्थितैरेवेति सर्वे पञ्च, पञ्चकयोगस्तुप्रतीत एवेति, तदेवं प्रदेशपञ्चकप्रस्तारेऽप्या-नुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेण सद्भावतोऽसंख्येयकप्रदेशात्मकेलोकेत्रानुपूर्वीद्रव्याणां शेषेभ्यो-ऽसंख्यातगुणत्वं भावनीयमित्यलं विस्तरेण। उक्तं भागद्वारम। साम्प्रतं भावद्वारमाहगमववहाराणं आणुपुटवीदवाई कत (य) रंमि भावे होज्जा? तिण्णि विणिअमा साऽऽदिपारिणामिए भावे होज्जा / / एवं दोण्णि विx तत्र च द्रव्याणांत्र्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च सादिपारिणामिकत्वात् त्र्याणामपि सादिपारिणामिकभाववर्त्तित्वं भावनीयमिति / अल्पबहुत्वद्वारेएएसि णं मंते ! णे गमववहाराणं आणुपुटिवदवाणं अणाणुपुस्विदव्वाणं अवत्तव्वगदवाण य दवट्ठयाए पएसट्टयाए कतरे कयरेहिंतो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआ वा,जहादव्वाणुपुष्वीएतहा माणिअव्वं,णवरं अणंतर्गनऽत्थि / / (गोयमा ! सय्वत्थोवाइं णेगमववहाराणं अवत्तव्वगदव्वाइं दवट्ठयाए अणाणुपुथ्वीदवाई दवट्ठयाए विसे साहियाई आणुपुटवीदवाई दवट्ठयाए असंखेज्जगुणाई, पएसट्टयाए सव्वत्थोवाइंणेगमववहाराणं अणाणुपुथ्वीदवाइं अपएसट्टयाए अवत्तध्वगदव्वाइं पएसट्टयाए विसेसाहियाइं आणुपुथ्वीदव्वाई पएसट्टयाए असंखेज्जगुणाई, दव्वट्ठपएसट्टयाए सव्वत्थोवाई णेगमववहाराणं अवत्तय्वगदव्वाइंदवट्ठयाए अणा-णुपुथ्वीदव्वाइं दवट्ठयाए अपएसहयाए विसे साहियाई अवत्तव्यगदवाई पएसट्टयाए विसेसाहियाइं आणुपुटवी-दवाई दवट्ठयाए असंखेज्जगुणाईताइंचेव पएसट्ठयाए असंखेज्जगुणाई।) सेत्तं अनुगमो (मे) सेत्तंणेगमववहाराणं अणोवणिहिआखेत्ताणुपुष्वी। सूत्र-९०५) इह द्रव्यगणनं द्रव्यार्थता, प्रदेशगणनं प्रदेशार्थता, उभयगणनं तूभयार्थता, तत्रानुपूया विशिष्टद्रव्यावगाहोपलक्षिता- स्त्र्यादिनभ:प्रदेशसमुदायास्तावद् द्रव्याणि / समुदायराम्भ-कास्तु प्रदेशा: अनानुपूया त्वेकैकप्रदेशावगाहिद्रव्योपलक्षिता: सकलनभः प्रदेशा: प्रत्येक द्रव्याणि, प्रदेशास्तु न संभवन्ति, एकैकप्रदेशद्रव्ये हि प्रदेशान्तरायोगाद्, अवक्तव्यकेषु तु यावन्तो लोकेद्विकयोगा: संभवन्ति तावन्ति प्रत्येकं द्रव्याणितदारम्भ-कास्तुप्रदेशा इति, शेषात्वत्र व्याख्या द्रध्यानुपूर्वीवत्कर्तव्येति 'नवरं सव्वत्थोवाइं नेगमववहाराणं अव्वत्तव्वदव्वाइमि' त्यादि, अत्राह- ननु यदा पूर्वोक्तयुक्तया एकैको नभ:प्रदेशोऽनेकेषु द्विकसंयोगेषुपयुज्यते तदा अनानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यत: पूर्वोक्तायामपि पञ्चप्रदेशनमःकल्पनायावक्तव्यकद्रव्याणामेवाऽष्टसंख्योपेतानां पञ्चसंख्येभ्योऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दृष्टं तत्कथमत्र व्यत्यय: प्रतिपाद्यते ? सत्यम्, असत्येतत्केवलंलोकमध्ये, लोकपर्यन्तवर्तिनिष्कुटगतास्तुयेकण्टकाकृतयो विश्रेण्या निर्गता एकाकिन:प्रदेशास्ते विश्रेणिव्यवस्थितत्वादवक्तव्यक