________________ आणुपुथ्वी 163 अमिधानराजेन्द्रः भाग 2 आणुपुदी सइ, नाणादवाई पद्धच णिअमा सव्वलोगं फुसंति, अणाणुपुथ्वीदव्वाइं अवत्तव्वगदव्वाइंच जहा खेत्तं नवरं फुसणा | भणिअव्वा + स्पर्शनाद्वारमपि चेत्थमेव निखिलं भावनीयं नवरमत्र कस्याश्चिद्वाचनाया अभिप्रायेणानुपूर्व्यामेकद्रव्यस्य संख्येयभागा- दारभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते, अन्यस्या- स्त्वभिप्रायेण असंख्येयभागादारभ्य यावत्संपूर्णलोकस्पर्शना स्यादित्यवसीयते एतच्च द्वयमपि बुध्यत एव, यतो यदि मुख्यतया क्षेत्रप्रदेशनामानुपुर्वीत्वमङ्गीक्रियते तदाअनानुपूर्व्यवक्तव्यकयोर्निरवकाशताप्रसङ्गात्पूर्ववद्देशोनता लोकस्य वाच्या अथाऽऽनु- पूर्वीरूपे, क्षेत्रे अवगाढत्वादचित्त महास्कन्धस्यैवावुपूर्वीत्वं तेर्हि द्रव्यानुपूर्व्यामिवात्रापि संपूर्णता लोकस्य वाच्यति नचात्रापूर्व्या सकलस्यापि लोकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम्, एकैकप्रदेशरूपे द्विद्धिप्रदेशरूपे च क्षेत्रेऽवगाढानां प्रत्येकमसंख्येयानां द्रव्यभेदानां सद्भावतस्तयोरपि प्रत्येकमसंख्येयभेदयो: लोके सद्भावाद् , द्रव्यावगाहभेदेन च क्षेत्रभेदस्येह विवक्षितत्वादिति भाव: वृद्धबहुमतश्वायमाप पक्षो लक्ष्यते तत्त्वं तु के वलिनो विदन्ति / क्षेत्रस्पर्शनयोस्तु विशेष: प्राग्निदर्शित एवेति / गतं / स्पर्शनाद्वारम्। अथ कालद्वारम्णेगमववहाराणं आणुपुटवीदय्वाइं कालओ के वचिर होइ? एवं तिण्णि वि, एगं दट्वं पडुच जहनेणं एग समयं उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच निअमा सय्वर्द्ध। तत्र क्षेत्राऽवगाहपर्यायस्य प्राधान्याविवक्षया त्र्यादिप्रदेशावगाढद्रव्याणामेवाऽऽनुपूर्व्यादिभाव: पूर्वमुक्त: अतस्तेषामेवाऽव-गाहस्थितिकालं चिन्तयन्नाह- 'एगंदव्वं पञ्चे' त्यादि, अत्र भावना-इह द्विप्रदेशावगाढस्य वा एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात्प्रदेशत्रयाधवगाहभवने आनु- पूर्वीव्यपदेश: सजात: सप्तयं चैकं तद्भावमनुभूय पुनस्तथैव विप्रदेशावगाढमेकप्रदेशावगाढं वा तद् द्रव्यं संजातमित्यानुपूर्व्या: समयो जघन्याऽवगाहस्थिति: यदा तु तदेव द्रव्यमसंख्येयं काले तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाद वा जायते तदा उत्कृष्टतया असंख्येयोऽवगाहस्थितिकाल: / सिध्यति, अनन्तस्तु न भवति, विवक्षितैकद्रव्यस्यैकावगाहेनोत्कृष्टतोऽप्यसंख्यातकालमेवावस्थानादिति, नानाद्रव्याणि तु सर्वाऽद्धासर्वकालमेव भवन्ति त्र्यादिप्रदेशावगाढद्रव्यभेदानां सदैवाऽस्थानादिति, एवं यदा समयमेकं किंचिद् द्रव्यमेकस्मिन् प्रदेशे अवगाढं स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदा अनानुपूर्व्याः समयो जघन्यावगाहस्थिति:, यदा तु तदेवाऽसंख्यातं कालं तद्रूपेण स्थित्वा ततो द्रयादिप्रदेशावगाढं भवति तदोत्कृष्टतोऽसंख्येयोऽवगाहस्थितिकाल: नानाद्रव्याणि तु सर्वकालम् एकप्रदेशावगाढद्रव्यभेदानां सर्वदैव सद्भावादिति, अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकस्मि स्यादिषु वा प्रदेशेष्ववगाहप्रतिपत्तो जघन्यः समयोऽवगाहस्थिति: असंख्येयकालदूर्ध्व द्विप्रदेशावगा(हं)द परित्यज्यत उत्कृष्टतोऽसंख्येयोऽवगाह- स्थितिकाल: सिध्यति, नाना-द्रव्याणि तु सर्वकालं, दिप्रदेशावगाढद्रव्यभेदानां सदैव भावा-दिति, एवं समानवक्तव्यत्वादतिदिशति एवं 'दोषण वित्ति। इदानीमन्तरद्वारमणेगमववहाराणं आणुपुय्वीदव्वाणं अंतरं कालओ केवचिरं होइ ? तिण्ड पि एगं दवं पडुच जहण्णेणं एक्कं समयं उक्कोसेण्णं असंखेज्जंकालं,नाणादवाई पडुचनऽत्थि अंतरं / 'जहण्णेणं एगं समयं' ति-अत्र भावना इह यदा व्यादिप्रदशाव- गाढं किमप्यानुपूर्वीद्रव्यं समयमेकं तस्माद्विवक्षितक्षेत्रादन्यात्रावगाहं प्रतिपद्य पुनरपि कबलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षितत्र्याधाकाशप्रदेशेष्ववगाहते। तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकाल: प्राप्यते, 'उक्कोसेणं असंखेज्जंकाले ति-तदेव यदाऽन्येषु क्षेत्रप्रदेशेष्वसंख्येयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षित-त्र्याद्याकाशप्रदेशेष्ववगाहतेतदोत्कृष्टतोऽसंख्येयोऽन्तरकाल: प्राप्यते, पुनव्यानुपूर्व्यामिवानन्त:, यतो द्रव्यानुपूर्ध्या विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ता: प्राप्यन्ते तैश्च सह क्रमेण संयोगे। उक्तोऽनन्त: कालः। अत्र तु विवक्षितावगाहक्षेत्रादन्य- क्षेत्रमसंख्येयमेव प्रतिस्थानं चावगाहनामाश्रित्व संयोगस्थितिरत्राप्यसंख्येयकालैव। ततश्च-असंख्येये क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनान्यसंयुक्तेन वाऽसंख्येयकालात्तेष्वेव नभ: प्रदेशेष्वागतत्यावगाहनीयम्, न च वक्तव्यमसंख्येयेऽपि क्षेत्रे पौन:- पुन्येन तत्रैव परिभ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति? यत इहासंख्येयक्षेत्रे असंख्येयकालमेवान्यत्र तेन पर्यटितव्यम् तत ऊवं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे / नियमादवगाहनीयं वस्तुस्थितिस्व (स्वा) भावा (व्या)-दिति, तावदेकीयं व्याख्यानमादर्शितम्, अन्ये तुव्याचक्षतेयस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात्तदानुपूर्वीद्रव्यमन्यत्र गतं, तस्य क्षेत्रस्य स्वभावादेवासंख्येयकालादूर्ध्व तेनैवानुपूर्वी-द्रव्येणं वर्णगन्धरसस्पर्शसंख्यादिधर्म: सर्वथा तुल्येनान्येय वा तथाविधाऽऽधेयेन संयोगे सति नियमात्तथाभूता-धारतोपपत्तेरसंख्येय एवान्तरकाल इति, तत्त्वं तु केवलिनो विदन्तिगम्भीरत्वात् सूत्रप्रवृतेरिति।'नाणा- दव्वाई' इत्यादि, नहि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत्सण्यिपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि संभवति, असंख्येयानां तेषां. सर्वदैवोक्तत्वादिति भावः। अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालव- क्तव्यता केवलमनानुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्य-कद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्थाभवन अंतरकाल-चिन्तनीयः, शेषा तु व्याख्याद्वयभावना सर्वाऽपि तथैवति। उक्तमन्तरद्वारम्। साम्प्रतं भागद्वारमुच्यतेणेगमववहाराणं आणु पुटिवदवाइं से सदवाणं कइ