________________ आणुपुव्वी 162 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी होज्जा? एगं दव्वं पडुछ लोगस्स संखिज्जइभागे वा होज्जा असं खिज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखेज्जेसु भागेसु वा होज्जा देसूणे वा लोए होज्जा, नाणादवाइं पडुन निअमा सवलोए होज्जा, नेगमववहाराणं अणाणुपुव्विदव्वाणं पुच्छा-एगं दध्वं पडुच नो संखिज्जइभागे होज्जा, असंखिज्जइभागे होज्जा, नो। संखेज्जेसुनो असंखेज्जेसुनो सबलोगे होज्जा, नाणादवाई पडुच निअमा सव्वलोए होज्जा, एवं अवत्तगदवाणि वि माणिअव्वाणि | 'एग दव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जे' त्यादि, इह स्कन्धद्रव्याणां विचित्ररूपत्वात् कश्चित स्कन्धो लोकस्य संख्येयं भागमवगाह्य तिष्ठति, अन्यस्त्वसंख्येयम्, अन्यस्तु संख्येयास्तद्भागानवगाह्मवर्तते, अन्यस्त्वसंख्येयान् इत्य-तस्तत्स्कन्धद्रव्यापेक्षया सङ्घचेयाऽऽदिभागवर्त्तित्वं भावनीयम् विशिष्टक्षत्रावगाहो पलक्षितानां स्कन्धद्रव्याणामेव क्षेत्रानु-पूर्वीत्वेनोक्रत्वादिति भावः। 'देसूणे वा लोए होज्ज' त्ति-देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति, अत्राहनन्वचित्तमहा-स्कन्धस्य सर्वलोकव्यापकत्वं पूर्वमुक्ततस्य च समस्तलोकवर्त्यसंख्येयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्या-त्परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किंचिद्विरुध्यते , अत: तदपेक्षे क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकव्यापिता प्रोच्यते ? सत्यं, किन्तु-लोकोऽयमानु- पूय॑नानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाऽशून्य एवैष्टव्ये इति-समयस्थिति: यदिचात्रानुपूर्व्याः सर्वलोकव्यापिता निर्दिश्यते तदाऽनानुपुर्व्यवक्तव्यकद्रव्याणां निरवकाशतया अभाव: प्रतीयते, तत:अचित्तमहास्कन्धपूरिते अपि लोकेजघन्यतोऽप्येक: प्रदेशोऽनानुपूर्वीविषयत्वेन प्रदेशद्वयं चाऽ- वक्तव्यकविषयत्येन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षणा-दिति भावः, ततोऽनेन प्रदेशत्रयलक्षणेन देशेनहीनोऽत्रलोक: प्रतिपादित इत्यदोष: उक्तंच पूर्वमुनिभि:-"महखंधा पुण्णे वि, अवत्तव्वगणाणुपुव्विदव्वाइं / जद्देसोगाढाइं तद्देसेणं स लोगूणो ||1||" ननु यद्येवं तर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन तत्राप्यभावप्रतीतिप्रसङ्गात् , सर्वकालं च तेषामप्यवस्थितिप्रतिपादनात् , नैतदेवं, यंतो द्रध्यानुपूया द्रव्याणामेवानुपूर्व्यादिभाव उक्तो, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वाद्, द्रव्याणां चानुपूर्व्यादीनां परस्परभिन्नानामप्येकत्रापि क्षेत्रेऽवस्थानं न किंचिद्विरुध्यते, एकाऽपवरकान्तर्गताऽनेकप्रदीपप्रभावस्थानदृष्टान्तादिसिद्धत्वात्, अतो न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभावो मुख्यस्तु क्षेत्रस्यैव क्षेत्रानुपूर्व्यधिकारात् ततो यदि लोकप्रदेशा: सामस्त्येनैवानुपूा क्रोडीकृता: स्युस्तदा किमन्यदनानुपूर्व्यवक्तव्यकतया प्रतिपद्येत, यस्त्विहवै येष्वाकाशप्रदेशेप्वानुपूर्व्यस्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेदस्य विवक्षणात्, अत्र तु तदविवक्षणादिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति। अथवा आनुपूर्वीद्रव्यस्य स्वावयव-रूपा देशाः कल्प्यन्ते यथा पुरुषस्याङ्गुल्यादयः ततश्च विवक्षिते कस्मिंश्चितद्देशे देशिनोऽसद्भवोविवक्ष्यते, यथा पुरुषस्यवा-कुलीदेशे देशित्वस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः, नचवक्तव्यं देशिनो देशान कश्चिदिनो दृश्यते, एकान्ताभेदे देशमात्रस्य देशिमात्रस्य चाभावप्रसङ्गात्, ततश्च समस्तलोक क्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणादत्राचित्तमहास्कन्धस्यानुपूर्वीत्वेऽपि देशोन एव लोकः, स्वकीयै कस्मिन्देशे तस्याऽभावविक्षणात्, तस्मिंश्चानुपूर्व्यव्याप्तदेशे इतरयोरवकाश: सिद्धो भवतीति भावः / न च देशदेशिभावः कल्पनामात्र सम्मत्यादिन्यायनिर्दिष्ट्युक्तिसिद्धत्वात् इत्यलं प्रसङ्गेन। 'नाणा-दव्वाइमि' त्यादि त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रानुपूर्वीणां नानात्वं, तैश्व त्र्यादिप्रदेशावगाढैः द्रव्यभेदैः सर्वोऽपि लोको व्याप्त इति भावः। अत्रानानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोक-स्यासंख्येयभागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनात्, एकप्रदेशस्य च लोकाऽसंख्येयभागवर्तित्वादिति, 'नाणादव्वाइं पडुच नियमा सव्वलोए होज्ज' त्ति- एवैकप्रदेशावगाडैरपि द्रव्यमैदे: समस्तलोकव्याप्सेरिति एवम्-' अवत्तव्वगदव्वाणि वित्ति-अवक्तव्यकद्रव्यमप्येक लोका-संख्येयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवाऽवक्तव्यकत्वे- नाभिधानात्, प्रदेशद्वयस्य च लोकाऽसंख्ययभागवर्तित्वादिति, तथा प्रत्येकं द्विप्रदेशावगाडैरपि द्रव्यभेदैः समस्तलोकव्याप्तैर्नानाद्रव्याणामत्रापि सर्वलोकव्यापित्वमवसेयमिति / अत्राऽऽहनन्वानुपूर्व्यादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापी-नीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भाव: प्रतिपादितो भवति कथं चैतत्परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमैकस्य स्यात् ? अत्रोच्यते-इह व्यादिदेशावगाढात् द्रव्याद्भिन्नमेव तावदेकप्रदेशावगाद ताभ्यां च भिन्नं द्विप्रदेशावगाद ततश्चाधेयस्यावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेद: स्यादेव, तथांचव्यप्रदेशभेदो युक्त एव अनन्तधर्माध्यासिते च वस्तुनि तत्तत्सहकारिसन्निधानात्तत्तधर्माभिव्यक्तौ दृश्यत एव समकालं व्यवप्रदेशभेदो, यथा खङ्गकु तकवचादियुक्ते देवदत्ते खड्गी कुन्ती कवचीत्यादिरिति इह क्वचिद्वाचनान्तरे- 'अणाणुपुव्विदव्याइं अव्वत्तव्यगदव्वाणि यजहेव हिढे' त्ति-अतिदेश एव दृश्यते तत्र 'हेढे त्ति-यथाऽधस्ताद्रव्यानुपूामनयोः क्षेत्रमुक्तः तथाऽत्रापि ज्ञातव्यमित्यर्थः, तस्स व्याख्यातमेव, इत्येवमन्यत्रापि यथासंभवं वाचनान्तरमवगन्त- व्यमिति / गतं क्षेत्रद्वारम। णेगमववहारणं आणुपुटिवदवाइं लोगस्स किं संखेज्जइभागं फुसन्ति असं खिज्जइभागं फुसंति संखिज्जे भागे फुसंति जाव सवलोगं फुसंति? एगं दव्वं पडुम संखिज्जइभागं वा फुसइ संखज्जिइ भागे असंखिज्जइ भागे संखेज्जे वा असंखेज्जे भागे वा देसूर्ण वा लोगं फु