________________ आणुपुव्वी 158 अभिधानराजेन्द्रः भाग 2 आणुपुदी अणं ताई? नो संखिज्जाइं, नो असंखिज्जाइं, नो अणंताई। निअमा एगो रासी, एवं दोण्णि वि + द्रव्यप्रमाणद्वारे यदुक्तं नियमा 'एगो रासि' त्ति-अत्राह-ननु यदि संख्येयादिस्वरूपाण्येतानि न भवन्ति तर्केको राशिरित्यपि नोपपद्यते, द्रव्यबाहुल्ये सति तस्योपपद्यमानत्वाद्, व्रीह्यादिराशिषु तथैव दर्शनात, सत्यं किंत्वेकोराशिरितिवदत:कोऽभिप्राय: बहूनामपितेषामानुपूर्वत्विसामान्येनैकेन क्रोडीकृतत्वादेकत्वमेव, किं च यथा विशिष्टैकपरिणामपरिणते स्कन्धे तदारम्भकाऽवय-वानां बाहुल्येऽप्येकतैव मुख्या तद्वदवात्राऽऽपूर्वीद्रव्यबाहुल्येऽपि तत्सामान्यस्यैकरूपत्वादेकत्वमेव मुख्यमसौ नयः प्रतिपद्यते, तद्वशेनैव तेषामानुपूर्वीत्वसिद्धेः, अन्यथा तदभावप्रसङ्गात्, तस्मान्मुख्यस्यैकत्वस्याऽनेन कक्षीकृतत्वात्संख्येयरूपतादि-निषेधो गुणभूतानि तू द्रव्याण्याश्रित्य राशिभावोऽपि न विरुध्यते, एवमन्यत्रापि भावनीयमित्यलं प्रपञ्चेन। संगहस्स आणुपुटिवदव्वाइं लोगस्स कइ भागे होज्जा ? किं संखेज्जइभागे होज्जा असंखेजइभागे होज्जा। संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सवलोए होज्जा ? नो संखिज्जइभागे होज्जा नौ असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा णो असंखेज्जेसु भागेसु होज्जा; णिअमा सय्वलोए होज्जा, दोण्णि वि / संगहस्स आणुपुट्विदव्वाइं लोगस्स किं संकेज्जइभागं फुसंति असंखेज्जइभागं फुसति / संखेज्जे भागे फुसंति असंखेज्जे भागे फुसंति सव्वलोअं फुसंति, नो संखेज्जइमार्ग फुसंति नो असंखेज्जइभागं फुसंति। नो संखेज्जे भागे फुसंति, नो असंखेज्जे भागे फुसति / णिअमा सव्वलोगं फुसंति / एवं दोण्णि वि+1 "क्षेत्रद्वारे' नियमा सव्वलोए होज्ज' त्ति आनुपूर्वासामान्यस्यैकरूपत्वाद् सर्वलोकव्यापित्वाचेति भावनीयम, (एकत्वमेव मुख्यमसौ नयः प्रतिपद्यते तद्वशेनैव तेषामानुपूर्वीद्वाराण्येव) एवमितरद्वयेऽप्यन्यूह्यमिति स्पर्शनाद्वारमप्येवमेव चिन्तनीयमिति। संगहस्स आणुपुटिवदव्वाइं कालओ केवगिरं होन्ति ? णिअमा सव्वद्धा, एवं दोण्णि वि। संगहस्स आणुपुस्विदव्वाणं कालओ केवचिरं अंतर होइ? नऽत्थि अंतरं, एवं-अणाणूपुथ्वीदव्वाणं, अवत्तव्वगदव्वाण वि। कालद्वारेऽपि तत्सामान्यस्य सर्वदा अव्यवच्छिन्नत्वात् त्रयाणामपि सर्वाऽद्धावस्थानं भावनीयमिति, अत एवाऽन्तरद्वारे नास्त्यन्तरमित्युक्तं तद्भावव्यवच्छेदस्य कदाचिदप्यभावादिति। संगहस्स आणु पुटिवदवाई से सदव्वाणं कति भागे होज्जा? किं संखेज्जइ भागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा? नो संखेज्जइभागे होज्जा नो असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा णियमा तिमागे होज्जा, एवं दोण्णि वि+। भागद्वारे- 'नियमा तिभागे होज्ज' त्ति-त्रयाणां राशिनामेको राशिस्त्रिभाग एव वर्तत इति भाव:, यत्तु राशिगतद्रव्याणां पूर्वोक्तमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणां प्रस्तुतनयमते व्यवहारसंवृत्तिमात्रेणैव सत्त्वादिति। संगहस्स आणुपुटिवदव्वाइं कतरम्मि भावे होज्जा ? णिअमा साइपारिणामिए भावे होज्जा, एव दोण्णि वि+ | भावद्वार- 'सादिपारिणामिए भावे होज्ज' त्ति- यथा आनुपूर्व्यादिद्रव्याणामेतद्भावर्त्तित्वं पूर्व भावितं, तथा अत्रापि भावनीयम् तेषां यथास्वं सामान्यादव्यतिरिक्तत्वादिति। संगहस्स अप्पावडं नऽत्थिा सेत्त अणुगमे / सेत्तं संगहस्स अणोवणिहिया दव्वाणुपुय्वी। सेत्तं अणोवणिहिया दव्वाणुपुथ्वी। (सूत्र-९५) अल्पबहुत्वद्वाराऽसंभवस्तु उक्त इति समर्थितोऽनुगमः, तत्स-समर्थने च समर्थिता संग्रहनयमतेनानौपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथापीयम, अत: 'सेत्तमि' त्यादि, निगमनत्रयम / गता अनौपनिधिकी द्रव्यानुपूर्वी। (6) साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकी द्रव्यानुपूर्वी व्याचिख्या-सुराहसे किं तं उ (ओ)वणिहिया दवाणुपुथ्वी ? उवणिहिया दवाणुपुव्वी तिविहा पण्णत्ता, तं जहा-पुथ्वाणुपुथ्वी, पच्छागुपुथ्वी, अणाणुपुथ्वी य / (सूत्र-९६) 'से किं तमि' त्यादि, अथ केयं प्राग्निीतशब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, अत्र निर्वचनम् औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वी त्यादि, उपनिधिनिक्षेपो विरचनं प्रयोजनमस्या इत्यौपनिधिकी द्रव्य-विषया आनुपूर्वीपरिपाटिद्रव्यानुपूर्वी सा त्रिप्रकारा, तत्र विविक्षितधस्तिकायादिद्रव्यर्विशेषस्तत्समुदाये य: पूर्व:- प्रथम: तस्मादारभ्यानुपूर्वी-अनुक्रमः परिपाटिर्निक्षप्यते-विरच्यते यस्यां सा पूर्वानुपूर्वी तत्रैव य: पाश्चात्य:चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी परिपाटिर्विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी न आनुपूर्वी अनानुपूर्वी / यथोक्तप्रकारद्वयाति-रिक्तस्वरूपेत्यर्थः। तत्राऽऽधभेदं तावन्निरूपयितुं प्रश्नमाहसे किं तं पुष्वाणुपुदी 1, पुष्वाणुपुटवी छविहा पण्णत्ता, तं जहा-धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए। सेत्तं पुव्वाणुपूर्वी+। (धर्मास्तिकायपदव्याख्या 'धम्मत्थिकाय' शब्दे चतुर्थे भागे वक्ष्यते) (अधर्मास्तिकायव्याख्या 'अध(ह)म्मत्थिकाय'