________________ आणुपुव्वी 155 अभिधानराजेन्द्रः भाग२ आणुपुव्वी संखेज्जइ भागे होज्जा नो असंखिज्जइ भागे होज्जा नो संखेज्जेसु भागेसु होज्जा, असंखेज्जेसु भागे होज्जा / एवं अवत्तव्वगदव्वाणि वि माणिअव्वाणि। (सूत्र-८७) नैगमव्यवहारयोस्त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्ध- पर्यन्तानि सर्वाण्यप्यानुपूर्वीद्रव्याणि शेषद्रव्याणां समस्तानानुपूर्यवक्तव्यकद्रव्यलक्षणानां 'कति भागे होज्ज' त्ति-कति भागे भवन्तीत्यर्थः, किं संख्याततमभागे भवन्ति, यथा असत्कल्पनया शतस्य विंशतिमिता: किमसंख्याततमे भागे भवन्ति ? यथा शतस्यैव दश, अथ संख्यातेषु भागेषु भवन्ति? यथा शतस्यैव चत्वारिंशत्षष्टिा, किमसंख्यातेषु भागेषु भवन्ति ? यथा शतस्यैवाशीतिरिति प्रश्न: अत्रनिर्वचनम् '-नो संखेज्जइभागे होज्जा' इत्यादि, नियमात् 'असंखेज्जेसु भागेसु होज्ज' त्ति-इह तृतीयार्थे सप्तमी, ततश्चानुपूर्वीद्रव्याणि शेषेभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्योसंख्येयै गैरधिकानि, भवन्तीनि वाक्यशेषो द्रष्टव्य: ततश्चायमर्थः प्रतिपत्तव्य:-आनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयगुणानि, शेषद्रव्याणि तु तदसंख्येयभागे वर्तन्ते, न पुनः शतस्याशीतिरिवानुपूर्वीद्रव्याणि शेषेभ्य: स्तोकानीति कस्मादेवं ? व्याख्याते- स्तोकान्यपि तानि भवन्त्विति चेत् नैतदेवम, अघटमानकत्वात् , तथाहि- अनानुपूर्व्यवक्तव्यकद्रव्येषु एकाकिन परमाणुपुद्गला व्यणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि द्रव्याणि समस्ता-न्यप्यानुपूर्वीरूपाण्येव तानि च पूर्वेभ्योऽसंख्येयगुणानि, यदुक्तम्-"एएसि णं भंते ! परमाणुपोग्गलाणं संखिज्जपएसियाणं असंखेज्जपएसियाणं अणंतपएसियाण य खंधाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा! सव्वत्थोवा अणंतपएसिया खंधा, परमाणुपोग्गला अणंतगुणा, संखिज्जपएसिया खंधा संखिज्जगुणा असंखेज्जपएसिया खंधा असंखेज्जगुणा'' तदर्थ सूत्रे पुगलजाते; सर्वस्यापि सकाशादसंख्यातप्रदेशिका: स्कन्धा असंख्यातगुणा उक्तास्ते चानुपूर्व्यामन्तर्भवन्ति, अत: तदपेक्षया आनुपूर्वीद्रव्याणि शेषात्समस्तादपि द्रव्यादसंख्यातगुणानि, किं पुनरनानुपूर्य-वक्तव्यकद्रव्यमात्रात्, ततो यथोक्तमेव व्याख्यान कर्तव्यमित्यलं विस्तेरण। 'अणाणुपुव्विदव्वाइमि' त्यादि। इहानानुपूर्वीद्रव्या-ण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणां यथा असंख्याततम एवं भागे भवन्ति, नशेषभागेषु तथा अनन्तरोक्तन्यायादेव भावनीयमिति / उक्तं भागद्वारम। साम्प्रतंभावद्वारमाहणेगमववहाराणं आणुपुग्विदवाइं कतरंमि भावे होज्जा? किं उदइए भावे होज्जा उवसमिए भावे होज्जा खइए भावे होज्जा खओवसमिए भावे होज्जा पारिणामिए भावे होज्जासंनिवाइए भावे होज्जा? णिअमा सादिपारि- णामिए भावे होज्जा, अणाणुपुटिवदव्वाणि, अवत्तव- गदवाणि अ; एवं चेव भाणिअव्वाणि (सूत्र-८८) 'नेगमववहराणमि' त्यादि प्रश्नः, अत्र चौदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् स्वस्थान एव वक्ष्यते, अत्र निर्वचनसूत्रे नियमा 'साइपारिणामिए भावे होज्जत्ति-परिणमनं-द्रव्यस्य तेन तेन रूपेण वर्तन- भवनं परिणाम:, स एव पारिणामिकः तत्र भवस्तेन वा निवृत्त इति वा पारिणामिकः, स च द्विविध:-सादिः, अनादिश्वा तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिपरिणामोऽनादिकालत्तद्रव्यत्वेन तेषां परिणतत्वाद, रूपिद्रव्याणां तु सादि: परिणाम: अभ्रेन्द्रधनुरादीनां तथा परिणतेरनादित्वाभावाद्, एवं च स्थिते नियमाद् अवश्यंतया आनुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीत्वपरिणतेरनादित्वासंभवात, विशिष्टैकपरिणामेन पुद्गलानामसंख्येयकालमेवावस्थानादिति भावः / अनानु-पूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति। उक्तं भाव-द्वारम। इदानीमल्पबहुत्वदारं विभणिषुराहएएसिं णं मंते ! णेगमववहाराणं आणुपुटवीदवाणं अणाणुपुव्विदव्वाणं अवत्तव्वगदव्वाण य दवट्ठयाए पएसट्टयाए दवट्ठपएसट्ठयाए कतरे कतरेहिंतो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआवा? गोयमा! सवत्थो-वाई णेगमववहाराणं अवत्तव्वगदव्वाइं दवट्ठयाए अणा- गुपुटिवदव्वाइं दवट्ठयाए विसेसाहियाई आणुपुट्विदव्वाई दवट्ठयाए असंखेज्जगुणाई पएसठ्ठयाए णेगमववहाराणं सव्वत्थोवाइं अणाणुपुटिवदव्वाई अपएसट्टयाए अवत्त- व्वगदप्वाइं पएसट्टयाए विसेसाहिआई आणुपुटिवदव्वाइं पएसट्टयाए अणंतगुणाई दवठ्ठपएसट्टयाए सव्वत्थोवाइं णेगमववहाराणं अत्तव्वगदवाई दवट्ठयाए अणाणुपुवि- दवाई दवट्ठयाए अपएसट्ठयाए विसेसाहियाई अवत्तव्व- गदव्वाईपएसट्ठयाए विसेसाहियाइं आणुपुटिवदव्वाई दवट्ठयाए असंखेज्जगुणाई ताई चेव पएसट्टयाए अनंतगुणाई। सेत्तं (तं) अणुगमे / सेत्तं (तं) णेगमववहाराणं अणोवणिहिआ दव्वाणुपुथ्वी। (सूत्र-८९) द्रव्यमेवाओं द्रव्यार्थस्तस्य भावो द्रव्यार्थता तया; द्रव्यत्वेन इत्यर्थ:, प्रकृष्टो- निरंशो देश: प्रदेश: स चासावर्थश्व प्रदेशार्थस्तस्य भावः प्रदेशार्थता तया, परमाणुत्वेनेति भावः, द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूपतयेति भाव:, तदयमर्थः एतेषां आनुपूर्व्या-दिद्रव्याणां मध्ये 'कयरे-कयरेहिंतो' त्ति-कतराणि कान्याश्रित्य द्रव्यापेक्षया प्रदेशापेक्षया उभयापेक्षया वाऽल्पानि। विशेषहीन-त्यादिना बहूनि असंख्येयगुणत्वादिना तुल्यानि समसंख्यत्वेन विशेषाधिकानि किंचिदाधिक्येनेति वाशब्दा: पक्षान्तरवृत्ति-द्योतकाः, इति पृष्टे वाच: क्रमवर्तित्वाद् द्रव्यार्थतापेक्षया तावदुत्तर-मुच्यते, तत्र 'सव्वत्थोवाई नेगमववहाराणं अवत्तव्वगदव्वाई दवट्ठयाए' त्तिनैगमव्यवहारयोः द्रव्यार्थतामपेक्ष्यतावद-वक्तव्यकद्रव्याणिसर्वेभ्योऽन्येभ्य:स्तोकानिसर्वस्तो