________________ आणुपुव्वी 154 अमिधानराजेन्द्रः भाग 2 आणुपुव्वी उक्कोसेणं अणंतं कालं, नाणादव्वाइं पडुन णऽत्थि अंतरं। णेगमववहाराणां अणाणुपुथ्वीदव्वाणं अन्तरं कालओ केवचिरं होइ? एगं दट्वं पडुच जहण्णेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, नाणादवाइं पड़च णऽत्थि अन्तरं। णेगमववहाराणं अवत्तव्वगदव्वाणं अन्तरं कालओ केवचिरं होइ? एगं दव्वं पडुच जहण्णेणं एगं समयं उक्कोसेणं अणंतं कालं / नाणादवाई पडुच्च णऽत्थि अंतरं / (सूत्र-८६) नैगमव्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालत: कियच्चिरं भवतीति प्रश्न: अन्तरम् - व्यवधानं, तच क्षेत्रतोऽपि भवति, यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यतस्तद्व्यवच्छे दार्थ मुक्त कालत:कालमाश्रित्य, तदयमत्रार्थ:-आनुपूर्वीद्रव्याण्या- नुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति; आनुपूर्वीत्वपरित्याग-पुनर्लाभयोरन्तरे कियान् कालो भवतीत्यर्थः / अत्र निर्वचनम् - 'एग दव्वमि' त्यादि, इयमत्र भावना-इह विवक्षितंत्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात्प्रयोगपरिणामाद्वा खण्डशो वियुज्य परि-त्यक्तानुपूर्वीभावं संजातं एकस्माच समयादूर्द्धवं विश्रसादिपरिणामात्पुनस्तैरेव परमाणुभिस्तथैव तन्निष्पन्नामित्येवं जघन्यत: सर्वस्तोकतया एकं द्रव्यमाश्रित्याऽऽनुपूर्वीत्वपरित्या- गपुनर्लाभयोरन्तरे समय: प्राप्यते, उत्कृष्टत: सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं किमप्यानुपूर्वीद्रव्यं तथैव भिन्न भित्त्वा च ते परमाणवोऽन्येषु परमाणुव्यणुकत्र्यणुकादिषु अनन्ताणुस्कन्धपर्यन्तेषु अनंतस्थाने पूत्कृष्टान्तराधिकारादसकृत्प्रतिस्थानमुत्कृष्ट स्थितिमनुभवन्त: पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वाद्विश्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते, तदाऽनन्त उत्कृष्टान्तरकाल: प्राप्यते, नानाद्रव्याण्यधिकृत्य पुनर्नाऽस्त्यन्तरम, नहि स कश्चित्कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति अनन्तानन्तैरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याऽशून्यत्वादिति भावः / अनानुपूर्वीद्रव्यान्तरकालचिन्तायाम्- 'एग दव्यं पडुच्च जहन्नेणं एक्कं समय' ति-इह यदा किंचिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्येन परमाणुव्यणुकत्र्यणुकादिना केनचित् द्रव्येण सह संयुज्य समयादूर्ध्व वियुज्य पुनरपितथा स्वरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकाल: प्राप्यते, 'उक्कासेणं असंखेज कालं' ति-तदेवाऽनानुपूर्वीद्रव्यं यदा अन्येन परमाणुढ्यणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते तत् संयुक्तं चाऽसंख्येय कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव भवति तदा असंख्यात उत्कृष्टान्तरकालो लभ्यते / अत्राह-ननु अनानुपूर्वीद्रव्यं यदा अनन्ताऽनन्तपरमाणु- प्रचितस्कन्धेन सह संयुज्युते, तत्संयुक्तं चासंख्येयं कालमवतिष्ठते ततोऽसौ स्कन्ध उद्भिद्यते भिन्ने च तस्मिन् यस्तस्माल्लघुस्कन्धो भवति तेनापि सह संयुक्तमसंख्यातं कालभवतिष्ठते पुनस्त-स्मिन्नपि भिद्यमाने य: तस्माल्लघुतर: स्कन्धो भवति तेनापि संयुक्तमसंख्येयकालमवतिष्ठते पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतमः स्कन्धो भवति तेनापि संयुक्तमसख्येयं कालमवतिष्ठते इत्येवंतत्र भिद्यमाने क्रमेण कदाचिदनन्ता अपि स्कन्धा: संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसंख्येय एवोक्त:, अत्रोच्येतस्यादेवं, हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेदेतच्च नास्ति, पुद्रलसंयोगस्थिते-रुत्कृष्टतोऽप्यसंख्येयकालत्वादित्युक्तमेव, अथ ब्रूयात-यस्मि- न्नेव स्कन्ध संयुज्यते असौ परमाणु:सचेत्स्कन्ध: असंख्येय-कालाद्भिद्यतेतर्खेतावतैव चरितार्थ: पुद्रलसंयोगाऽसंख्येय- कालनियमो, विवक्षितपरमाणुद्रव्यस्यतु वियोगो मा भूदपीति नैतदेवं, यस्या अन्येन संयोगो जातस्तस्यासंख्येयकालाद्वियोगश्चिन्त्यते, यदि च परमाण्वाश्रय: स्कन्धो वियुज्यतेतर्हि परमाणो: किमायांत ? तस्यान्संयोगस्य तदवस्थत्वात, तस्मादणुत्वेनासौ संयुक्तोऽसंख्येयकालादणुत्वेनैव वियोजनीय इति यथोक्तएवान्तरकालो नत्वनन्त इति, कथं पुनरणुत्वेनैव तस्य वियोगाश्चिन्तनीय इति चेत् सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणो: पुन: परमाणुभवने संख्येयरूपस्यैवान्तरकालस्योक्तत्वाद् इत्यलं विस्तरेण / 'नाणादवाइं पडुचे' त्यादि, पूर्ववद्भावनीयम् / अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् 'एगं दव्वं पडुचे त्यादि / अत्र भावना-इह कश्चिद द्विप्रदेशिक: स्कन्धो विघटित: स्वतंत्र परमाणुद्वयं जातं, समयं चैकं तथा स्थित्वा पुनस्ताभ्यामेव परमाणुभ्यां द्विप्रदेशिक: स्कन्धो निष्पन्नः, अथवा- विघटित एव द्विप्रदेशिक: स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूयं पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरप्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते,'उक्कोसेणं अणंतं कालं' इति कथम् ? अत्रोच्यते-अवक्तव्यकद्रव्यं किमापि विघटितं विशकलितपरमाणुद्वयं जातं तचानन्तैः परमाणुभिरनन्तै व्यणुकस्कन्धैरनन्तैस्त्र्यणुकस्कन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः सह क्रमेण संयोगमासाद्य उत्कृष्टान्तराधिकारच प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव व्यणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैकद्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकाल: प्राप्यते नानाद्रव्यपक्ष-भावनालोकेसर्वदेवतद्भावात् पूर्ववद्वक्तव्याः उक्तमन्तरद्वारम। साम्प्रतं भागद्वारं निर्दिदिक्षुराहणेगमववहाराणं आणुपुटिवदवाई सेसदव्वाणं कति भागे होज्जा ? किं संखिज्जइ भागे होज्जा असंखिज्जइ भागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा ? नोसंखिज्जइ भागे होज्जानो असंखिज्जइभागे होज्जा नोसंखेज्जेसु भागेसुहोज्जा, नियमाअसंखेज्जेसुभागेसुहोज्जा। गमववहाराणं अणाणुपुग्विदवाई सेसदवाणं कति भागे होज्जा? किं संखिज्जइ भागे होज्जा असंखिज्जइ भागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु मागेसु होज्जा ? वो