SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आणा 140 अभिधानराजेन्द्रः भाग 2 आणा स:-आलोचनाचार्योऽपराक्रम: शिष्यमाज्ञापरिणामक परीक्षेत; किमेष आज्ञापरिणामक:, किंवा नेति? आज्ञापरीणामको नाम-यत् आज्ञाप्यते तत्कारणं न पृच्छति "किमर्थमेतदिति" किंत्वाज्ञया एव कर्त्तव्यतया श्रद्दधाति, यदत्र कारणं तत्पूज्या एव जानन्ते एवं य: परिणामयति स आज्ञापरीणामकस्तत्प- रीक्षा च वृक्षे बीजकाये च वक्ष्यमाणरीत्या कर्तव्या / आज्ञाप- रिणामित्वं परीक्ष्य; पुनरिदं परीक्षणीयं यथा किमेषोऽग्रहणे समर्थो धारणासमर्थश्च किंवा नेति। तत्राध्ययनादिपरीक्षया सूत्रे चशब्दात्- अर्थे वा अमोहनं-मोहरहितं समस्तम् आसमन्ताद्धारयतीत्येवं शील: अमोहधारी तं परीक्षेत। तत्र वृक्षणाऽऽज्ञापरिणामित्वपरीक्षामाहदट्ठमहं ते भक्खो, गणिओ रुक्खो विलग्गिउं डेव / अपरिणयं वेति तहिं, न वठ्ठइ रुक्खे वि आरोढुं / / 616|| किंवा मारेयय्वो, अहियंतो वेह रुक्खओ डेव। अतिपरिणामो भणति, इय हेऊ अम्ह वेसिच्छा।।६१७|| दृष्ट्वा महतो महीरुहान् गणिक:- आचार्यो ब्रूते- अस्मिन्नुचै- स्त्वेन तालप्रमाणे वृक्षे विलग्य तत आत्मानं (डिप) क्षिप्रपातंकुर्वित्यर्थः, एवमुक्ते तत्र- आज्ञापरिणामको ब्रूते-न वर्त्तते वृक्षे विलगिंतु साधो: सचित्तत्वादृक्षम्य प्रपाते च कुर्वन् आत्मविरा-धना भवति। साच भगवता निषिद्धा, किंतु-अमुनोपायेन मारयितव्योऽभिप्रेतो ब्रूथ वृक्षादात्मानं डेपेति / अतिपरिणामकः पुनरिदं भणति-इत्येव भवतु, करोमि प्रपातमिति भाव: अस्माकमप्येषा इच्छा वर्तते। वेइ गुरू अह तंतू, अपरिच्छियत्थे पभाससे एवं / किं च मए तं मणितो, आरुहरुक्खे(य) सबिते / / 618 / अथ-- अनन्तरं तमतिपरिणामकं ब्रूते--अपरीक्षिते- अपराभाविते मद्वचनस्यार्थं त्वमेवमुक्तप्रकारेण प्रभाषसे यथा करोमि प्रतापमस्माकमप्येषेच्छा वर्तते। अपरिणामक्रमधिकृत्य ब्रूते-त्वंवा मया किमेव भणितो यथा सचित्ते वृक्षे आरोहाय नोद्यते न वर्तते साधोः वृक्षे विलगितुमिति किंतुतन्मयोक्तम्। तदेवाऽऽहतवनियमनाणरुक्खं, आरुहिउं भवमहण्णवाऽऽपण्णं / संसारग(ङ)त्तकुलं, डेवे हंत मए भणितो / / 619|| तपोनियमज्ञानमयं वृक्षं भवार्णवापन्नं- भवसमुद्रमध्य- प्राप्तमारुह्य संसारग कूलं 'डिप' उल्लङ्ग्य इति मया भणित:। जो पुण परिणामो खलु, आरुह भणितो वि सो विचिंतेइ। नेच्छंति पावमेते, जीवाणं थावरा(दी)णं (पि)||६२०।। किं पुण पं.दीणं, तं भणियध्वेत्थ कारणेणं तु / आरहणववसियं तु, वारेइ गुरुववत्थंतो।।६२१|| यः पुनः खलु परिणाम:-आज्ञापरिणामक: स आरोहेति भणितश्चिन्तयति-नेच्छन्ति पापमेंतं मदीया नुरवो जीवानां स्थावराणामपि; किं पुन: पञ्चेन्द्रियाणां तस्मादत्र कारणेन भवितव्यम, एवं विचिन्त्य आरोहणे व्यवसितः / तमारोहण- व्यवसितं गुरुरवष्टभ्य- बाहौ धृत्वा वारयति / यदेवमुक्तं वृक्षे परीक्षणम्। ___ अधुना जीवेषु तदाहएवाऽऽणेह य बीयाई, मणितो पडिसेहे अपरिणामो। अइपरिणामो पोट्टल, बंधूणं आगतो तहियं / / 622|| एवम्-अमुना प्रकारेण बीजानि अनायत इत्युक्त अपरिणाम: प्रतिषेधयति-न कल्पयन्ते बीजानि गृहीतुमिति, यस्त्व-तिपरिणामक: स बीजानां पोट्टलं वद्ध्वा तत्र गुरुसमीपे समागतः / ते वि भणिया गुरूणं, भणिया नेह अमलिबीयाई। न विरोहसमत्थाई, सचित्ताई व भणियाई / / 623 / / तावत् य: अपरिणामको गुरुणा भणितो मया भणितमानय अम्लिकाबीजानिकाजिकिनीबीजानि, यदि वा-सचित्तानिविध्वस्तयोनिमयानि, यानि न विरोहसमर्थानि तान्यानयेति भणितानि / तत्थ वि परिणामो त, भणती आणेसि केरिसाईत। कत्तियमित्ताइवा, विरोहमविरोहजोग्गाइं // 624|| तत्रापि यः परिणामक: स भणति-कीदृशानि बीजान्यानयामि। विरोहयोग्यानि, अविरोहयोग्यानि वा, कियन्मात्राणि वा। सो वि गुरूहि भणितो, न ताव कज्जं पुणो भणीहामि। हसितो वमए तार्सि, वीमंसत्थं व भणितो सि / / 621|| स:-अप्याज्ञापरिणामको गुरुभिर्भणितो न तावदिदानी कार्य यदा तु कार्य भविष्यति तदा पुनर्भणिष्यामः / अथवा-हसितोऽसि मया तावदिदानी न पुनर्बीजै: प्रयोजनं, यदि वा-विमर्शार्थ तवविमर्शपरीक्षणार्थं त्वमेवं भणितोऽसि / संप्रत्यमोहनाधारिपरीक्षामाहपयमक्खरमुद्देसं, संघीसु तत्थ तदुभयं चेव। अक्खरवंजणसुद्ध,जह मणितं सो परिकहेइ 1626 / / पदमक्षरमुद्देशं सन्धिम्- अधिकारविशेषं सूत्रमर्थं तदुभयं च अक्षरव्यञ्जनशुद्धं पूर्वमवग्राहयति किमेष ग्रहणधारणायोग्य: किं वा नेति अवग्राह्य, ततो ब्रूते- उच्चारय प्रेक्षे किमपि गृहीतं न वा किं त्वगृहीतमपि किस्मृतं किंवा नेति। तत्र यदि यथा भणितं तथा सर्व परिकथयन्ति तदा ज्ञातव्य एष ग्रहणधारणे कुशल इति। एवं परिच्छिऊणं, जोग्गं नाऊण पेसये तंत। वाहितस्सगासं, सोहि सोऊण आगच्छ // 127 / / एवं परीक्ष्य-योग्यं ज्ञात्वा तं प्रेषयेत् संदिशति च व्रज तस्यसाधोरालोचयतुकामस्य शोधिम्- आलाचनां श्रुत्या पुनरत्राऽऽगच्छ। अह सो गतो उतहियं, तस्स सगासंमि सो करे सोहिं। दुगतिचउविसुद्ध,तिवेहे काले विगटभावो ||32|| अथ-प्रेषणानन्तरं यत्राऽऽलोचयतुकामो विद्यते। तत्र गतस्तस्वाऽऽगतस्य समीपे आलोचयितुकाम: प्रशस्तेषु द्रव्यादिषु शो धिम् आलो चनां करोति / कथमित्याह- द्विक दर्शना
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy