SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आणा 132 अमिधानराजेन्द्रः भाग 2 आणा स्थिता महत्स्था तां च; प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महापूजोच्यतेतस्यां स्थिता महास्थातां, तथा चोक्तम्-'सव्वसुरासुर-- माणुसजोइसवंतरसुपूइयं णाणं ! जेणेह गणहराणं, छुहंति चुण्णे सुरिंदावि।।२।' तथा 'महानुभावा' मिति तत्र महान्- प्रधान: प्रभूतो वाऽनुभाव:- सामर्थ्यादिलक्षणो यस्याः सा तथा तां, प्राधान्य चास्याश्चतुर्दशपूर्वा विदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च प्रभूतकार्यकरणाद्, उक्तं च- 'पभू णं चोद्दसपुव्वी घडाओ घडसहस्सं करित्तए' इत्यादि, एवमिहलोके परत्र तु जघन्यतोऽपि वैमानिकोपपात:, उक्तं च- 'उववाओ लंतगंमि, चोद्दसपुव्वीस्स होइ उजहण्णो। उक्कोसो सव्वद्वे, सिद्धिगमो वा अकम्मस्स ||1||' तथा 'महाविषया' मिति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वाद्, उक्तं च- 'दव्वओ सुयनाणी उवउत्ते सव्वदव्वाईजाणई - त्यादि कृतं विस्तरेणेतिगाथार्थः / जाइज्जा निरवज्जं, जिणाणमाणं जगप्पईवणिं। अणिउणजणदुण्णेयं, नयभंगपमाणगमगहणं / / 6 / / व्याख्या- 'ध्यायेत्' चिन्तयेदिति सर्वपदक्रिया, 'निरवद्या' मिति अवयं- पापमुच्यते निर्गतमवद्यं यस्या: सातथा ताम्, अनृतादिद्वात्रिंशदोषावधरहितत्वात्, क्रियाविशेषणं वा, कथं ध्यायेत्? निरवद्यम् - इहलोकाधासंसारहितमित्यर्थः, उक्तं च- 'नो इहलोगट्ठयाए नो परलोगट्ठयाए नो परपरिभवओ अहं नाणी त्यादिकं निरवचं ध्यायेत्, 'जिनाना' प्राग्निरूपितशब्दार्थानाम् 'आज्ञा' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टा ? जिनाना- केवलालोकेनाशेष-संशयतिमिरनाशनाज्जगत्प्रदीपानामिति, आज्ञैव विशेष्यते- 'अनिपुणजनदु यां' न निपुण: अनिपुणः, अकुशल इत्यर्थ: जन:- लोकस्तेन दुर्जेयामिति- दुरवगमा, तथा 'नयभङ्गप्रमाण- गमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणनिचगमाश्चेति विग्रहस्तैर्महना- गह्वरा तां, तत्र नैगमादयो नयास्ते चानेकभेदाः, तथा भङ्गा: क्रमस्थानभेदभिन्नाः, सत्र क्रमभङ्गा यथाएको जीव एक एवाजीव इत्यादि, स्थापना ||5155 ISISS 155 स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः, नो दृढधर्मेत्यादि, तथा / प्रमीयते ज्ञेयमेभिरिति प्रमाणानिद्रव्यादीनि, यथा-ऽनुयोगद्वारेषु गमा:चतुर्विंशति-दण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकाऽऽदाविति कृतं विस्तरेणेति गाथार्थः / ननुयाएवंविशेषणविशिष्टा सा बोद्धमपि न शक्यतेमन्दधीभिः, आस्तां तावद्ध्यातुं, ततश्च यदि कथञ्चिनावबुध्यते तत्र का वार्तेत्यत आहतत्थ य मइदोब्बलेणं, तट्विहाऽऽयरियरिहओ वाऽवि। णेयगहणत्तणेण य, णाणावरणोदएणं च ||7|| व्याख्या-'तत्र' तस्यामाज्ञायां, चशब्द: प्रस्तुतप्रकरणानुकर्ष- णार्थ: किं? जडतया चलत्वेन वा मतिदौर्बल्येनबुद्धेः, सम्यगर्थानवधारणेनेत्यर्थ; तश'तनिशचार्यविरहतोऽपि तातदिध सम्यगविपरीततत्व प्रतिपादन कुशल: आचर्यतेऽसावि- त्याचार्य: सूत्रार्थावगमार्थ; मुमुक्षुभिरासेव्यत इत्यर्थः, तद्विध- श्वासावाचार्यश्च तद्विधाचार्य: तद्विरहत: तदभावतश्च, चशब्द: अबोधे द्वितीयकारणसमुचयार्थः, अपिशब्द: क्वचिदुभयवस्तू- पपत्तिसम्भावनार्थ: तथा'ज्ञेयगहनत्वेन च' तत्र ज्ञायत इति ज्ञेयं- धर्मास्तिकायादि तद्गहनत्वेन- गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः, तथा 'ज्ञानावरणोदयेन थ' तत्र ज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाके न, चशब्दश्चतुर्थाबोधकारणसमुचयार्थः, अत्राह-ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहनाप्रतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषाभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थ:। तथाहेऊदाहरणासं-भवे य सइ सुटु जं न बुज्जेज्जा। सवण्णुमयमवितह, तहावितं चिंतए मइमं / / 4 / / व्याख्या- तत्र हिनोति- गमयति जिज्ञासितधर्मविशिष्टाना- निति हेतु:- कारको व्यञ्जकश्च, उदाहरणं- चरितकल्पितभेदं, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात्, तस्मिंश्च, चशब्द: पञ्चमषष्ठकार-णसमुच्चयार्थ:, 'सति विद्यमाने, किं ? 'यद्' वस्तुजातं'न सुष्ठु बुद्ध्येत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथापि तचिन्तयेन्मतिमा' निति तत्र सर्वज्ञा:- तीर्थकरास्तेषां मतं सर्वज्ञमतं- वचनं, किं? वितथम्- अनृतंन वितथम्- अवितथं; तथापि तदबोधकारणे सत्यनवगच्छन्नपि 'तत्' मतं वस्तु वा 'चिन्तयेत्' पर्यालोचयेत् 'मतिमान् बुद्धिमानिति गाथार्थः। किमित्येतदेवमित्यत आहअणुवकयपराणुग्गह-परायणाजं जिणा जगप्पवरा। जियरागदोसमोहा,यणण्णहावादिणो तेणं // 49|| आव० 4 अ। दर्श। (अस्या गाथाया व्याख्या जिण' शब्दे चतुर्थे भागे 1462 पृष्ठे वक्ष्यतो) (3) आज्ञाग्राहकेण च सदैव भवितव्यम् सयाऽऽणागाहगे सिया, सयाणाभावगे सिया, सया-णापरितंते सिया, आणा हि मोहविसपरममंतो, जलं रोसाइजलणस्स, कम्मवाहितिगिच्छासत्थं, कप्पपायवो सवफलस्स। (सूत्र 2+) सदाज्ञाग्राहक: स्यात्, अध्ययनश्रवणाभ्याम्, आज्ञाआगम उच्यते। सदाज्ञाभावक: स्यात्, अनुप्रेक्षादारेण सदाज्ञापरतन्त्र: स्यादनुष्ठानं प्रति / किमेवमित्याह-आज्ञा हि मोहविषयपरम- मन्त्र: तदपनयनेन। जलं, द्वेषादिज्वलनस्य, तद्विध्यापनेन कर्मव्यधिचिकित्साशास्त्रं, तत्ज्ञयकारणत्वेन कल्पपादप: सर्वफलस्य, तदबन्ध्यसाधकत्वेन। पं० सू.२ सूत्र। (आज्ञा-ग्राह्यार्थस्याज्ञयैवव्याख्यानमिति वक्खाण' शब्दे षष्ठेभागे वक्ष्यते) (यत्राऽऽज्ञा न स्खलति स एव गच्छ:)जत्थ य उसभाऽऽदीणं, तित्थयराणं सुरिंदमहियाणं।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy