SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आजीव 115 अमिधानराजेन्द्रः भाग 2 आजीव साधुर्भिक्षार्थमटन् ब्राह्मणगृहे प्रविष्ट: सन् तस्य पुत्र होमादि-क्रिया: कुर्वाण दृष्टा तदभिमुख प्रति स्वजातिप्रकटनाय जल्पति होमादिक्रियाणामवितथकरण एष एव पुत्रो ज्ञायते- यथा श्रात्रियस्य पुत्र इति।यादवा-उषितएष सम्यग्गुरुकुले इतिज्ञापते। अथवा-सूचयतिएष तव पुत्र आत्मन आचार्य्यगुणान् ततो नियमदिप महानाचार्यो भविष्यतीति। तत एवमुक्त स ब्राह्मणो वदति साधो ! त्वमवश्य ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि, साधुश्च मौनेनाऽवतिष्ठते, एतच सूचया स्वजातिप्रकटनम्, अत्रच अनेकेदोषाः, तथाहि-यदि स ब्राह्मणो भद्रकस्तर्हि स्वजातिपक्षपातात्प्रभूत- माहारादिकं दापयति। तदपि च जात्युपजीवनानमित्तमिति भगवता प्रतिषिद्धम, अथ प्रान्तस्तर्हि भ्रष्टाऽयं पापाऽऽत्मा ब्राह्मण्यं परित्यक्तमिति विचिन्त्य स्वगृहनिष्काशनादि करोति, असूचया तु जात्या जीवनं पृष्टोऽपृष्टो वा आहा राद्यर्थं स्वजाति प्रकटयति- यथा- 'अहं ब्राह्मण' इति, तत्राऽप्यनन्तरोक्ता एव दोषा:, एवं क्षत्रियाऽदिजातिष्वपि, प्रविष्टोऽपि, एवं कुलादिष्वपि भावनीयम्। पिंछा प्रकला एतदेव किचिंव्यक्तीकुर्वन्नाहसम्ममसम्मा किरिया, अणेण ऊणाहिया च विवरीया। समिहामंताहुयट्ठा- जागकाले य घोसाई ||44011 साधुभिक्षार्थमटन क्वचित् ब्राह्मणगृहे प्रविष्टः सन् तस्य पुत्रं होमाऽऽदिक्रिया: कुर्वाणं दृष्ट्रा पितरं स्वजातिप्रकटनाय जल्पति अनेन तव पुत्रेण सम्यक् असम्यग्वा होमादिका क्रिया कृता, तत्राऽसम्यक् त्रिधा, तद्यथा- न्यूना, अधिका, विपरीता वा / सम्यक् समिधादीन्घोषादींश्च यथावस्थितानाश्रित्य तत्र समिधः- अश्वत्थादिवृक्षाणां प्रतिशाखाखण्डानि, मन्त्रा:- प्रणवप्रभृतिका अक्षरपद्धतयः, आहुति:- अग्नौ घृतादे प्रक्षेपः, स्थानम्- उत्कुटादि, यागः अश्वमेधादिः, काल:प्रभातादिः, घोषा: उदात्तादय:, आदिशब्दात्-हस्वदीर्धादिधर्मपरिग्रहः, एवं चोक्ते स साधुं ब्राह्मणं जानाति। तथा च सति भद्रे, प्रान्ते वा पूर्ववत् दोषा वक्तव्याः / उक्तं जातेरुपजीवनम्। अथकुलाद्यपजीवनमाहउग्गाइकुलेसु वि एवा- मेव गणिमण्डलप्पवेसाइ। देउलदरिसणभासा-उवणयणे दंडमाईया ||4|| एवमेव-जात्यादिवत्कुलादिष्वपि उग्रादिषूपजीवनभव- गन्तव्यम्, यथा कोऽपि साधुरुग्रकुले भिक्षार्थ प्रविष्टस्तत्र च तत्पुत्रं पदातीन् यथावदारक्षककर्मसु नियुञ्जानं दृष्ट्वा तत्पितरमाह- योऽयं 'ते' तव पुत्रोऽप्रवेदितोऽपि यथायोगं पदातीनां नियोजनेनोग्रकुले सम्भूत इति। तत: स जानात्येषोऽपि साधुरुग्रकुलसमुत्पन्न इति, इदं तु सूचया स्वकुलप्रकाशनम्, यदा तुस्फुटंवां चैप स्वकुलमावेदयतियथाहमुग्रकुलो भोगकुल इत्यादि / तदा असूचया प्रकटनं तेषा भद्रप्रान्तत्वे पूर्वोक्तानुसारेण दोषा वक्तव्याः। तथा-'गणे'-गणविषये मण्डलप्रवेशादि इहाङ्कखलकेप्रविष्टस्यैकस्य मल्लस्य यल्लभ्यं भूखण्ड तन्मण्डलं तत्र वर्तमानस्य प्रतिद्वन्द्विनो मल्लस्य विबोधाय य: प्रवेशस्तदादिशब्दात्ग्रीवा ग्रहादिपरिग्रहः, तथा देवाकुलदर्शनं युद्धप्रदेशे चामुण्डाप्रति माप्रणमनं, भापोपनयनं प्रतिमल्लह्वानाय तथा तथा वचनढौकनं दण्डादिका: धरणि-पातच्छुप्ताङ्कयुद्धप्रभृतयः, एतान् गुणान् गृह प्रविष्ट: सन्तत्पुत्रस्य प्रशंसात, तथा च सति तेन ज्ञायते- ययैषाऽपि साधुर्मल्ल इत्यादि प्राग्वत्। कर्म-शिल्पयागजीवनमाहकतरि पओयणावे- क्खवत्थुबहुवित्थरेस एमेव। कम्मेसु य सिप्पेसु य, सम्ममसम्मेसु सू इयरा 442|| कर्मसु, शिल्पषुच एवमेव-कुलादाविवोपजीवनं वक्तव्यम्, कथमित्याह'कर्त्तरि' कर्मणां शिल्पानां च विधायके, उपलक्षणमेतद्विधायके च वणिजादौ, सप्तमी चात्र षष्ठ्यर्थे, ततोऽयमर्थ:- कर्तुः कारापकम्य च प्रयोजनापेक्षेषु भूमिविले- खनादिप्रयोजनननिमित्तं ध्रियमाणेषु हलादिषु वस्तुषु सूत्रे चात्र विभक्तिलोप अषित्वात्। बहुविस्तारेषु-प्रभूतेषु नानाविधोषु च सम्यक् असम्यगिति वा प्रोच्यमानेषु शोभनानि अशोभनानीति वा कथ्यमानेषु यदात्मनि कर्मणि शिल्पे वा कौशलज्ञापनं तत्तयोरुपजीवनम्, इयमत्र भावना- भिक्षार्थ प्रविष्ट: सन् साधुः कृष्पादेः कर्तुः कारापकस्य वा तत्प्रयोजनापेक्षणीयानि नानारूपाणि हलादीनि बहूनि वस्तूनि तानि दृष्ट्वा आत्मन: कर्मणि शिल्पे वा कौशलज्ञापनाय शोभनान्यशोभनानीति वा यत् वक्ति तत्कमशिल्पयागजीवनम् / अनेन च प्रकारण कौशलज्ञापनं, सूचा स्पुटवचनन च कौशलकथनम् असूचा। पिं०। नि.चू। __आजीविकपिण्डग्रहणे दोषा: सूत्रमजे भिक्खू आजीवियं पिंडं मुंजइ भुजंतू वा साइज्जइ ||6|| जातिमातिभाव उवजीवति त्ति आजीवणपिंडो। गाहाजे भिक्खू जीवपिंडं, गेण्हेज्ज सयंत अहवाँ सातिज्जे। सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ||14ll स्वय हण्हति, अण्णं वा गेण्हावति, अणुजाणातिवा, तस्स आणादिया य दोषा, चउलहुं च पाच्छत्तं / नि०चू. 13 उछ। आजीवति, कर्तरि अच् / आजीवनकारिणि, कर्माजीवनृपाजीव इत्यादौ तु आजीव अण् उप, स० इति भेदः / वाच / कुशीलभेदे, प्रक०२ द्वार।व्या आजीवनम्- उपजीवन जांति-कुलगणशिल्पादिना करोतीति। दर्श. 4 तत्त्व। सच पञ्चविध:पंचविहे आजीवे पण्णत्ते,तं जहा-जाइआजीये, कुलाऽऽजीवे, कम्माऽऽजीवे, सिप्पाऽऽजीवे, लिंगाऽऽजीवे। (सूत्र-१०७) कुशीलभेदे, व्य। (अस्य सप्त भेदा:)जाती कुले गणे वा, कम्मे सिप्पे तवे सुए चेव। सत्तविहं आजीवं, उवजीवइ जो कुसीलो उ / / 213|| जातिमातृकी, कुले पैतृकं, गणो मल्लगणादिः, कर्मअना- चार्यकम्, आचार्योपदेशजं शिल्पम्। तप:- श्रुते, प्रतीते। एवं सप्तविधम् आजीवं य उपजीवति- जीवनार्थमाश्रयति, त
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy