________________ आगार 108 अभिधानराजेन्द्रः भाग आगार समवेतस्येव शब्दस्य ब्रह्मभाषितस्याप्युपलम्भोऽस्मदादि (दे) भवेत् निरवयवैकाकाशश्रोत्रसमवेतत्वात् / अथ धर्माधर्माभिसंस्कृतकर्णशष्कुल्यवरुद्धाकाशदेश एव श्रोत्रं तत्र न च ब्रह्मभाषितस्यासमवायान्नाऽस्मदादिभिः श्रवणम् / नन्वेवम्सैव सावयवत्वप्रशक्तिः श्रोत्राकाशप्रदेशात् ब्रह्मशब्दाधाराकाश- देशस्यान्यत्वात्। यदि चसावयवमाकाशं न भवेत, शब्दस्य नित्यत्वं सर्वगतत्वं च स्याद् आकाशैकगुणत्वात्तन्महत्त्ववत् / अथ क्षणिकैकदेशवृत्तिविशेषगुणत्वस्य शब्दे प्रमाणत: प्रतिसिद्धेनयिं दोषः / नन्वेवमेकदेशवृत्तिविशेषगुणत्वाभ्युपगमे कथं न शब्दाधारस्याकाशस्य सावयवत्वप्रसिद्धिः? 'न हि निरवयवत्त्वे तस्यैकदेशे एव शब्दो वर्तते न सर्वत्र' इति व्यपदेश: संगच्छते। न च संयोगस्याव्याप्यवृत्तित्वनिबन्धनोऽयं यत आकाशं व्याप्य संयोगो नवर्तते इतितदेकदेशे वर्तते इत्यभ्युपगमप्रसक्ति:। व्याप्यवृत्तित्वं हि सामस्त्यवृत्तित्वं, तत्प्रतिषेधश्च पर्युदासपक्षे एकदेशवृत्तित्वमेव, प्रसज्यपक्षे तु वृत्तिप्रतिषेध एव:, नचासौ युक्त: संयोगस्य गुणत्वेन द्रव्याश्रितत्वात्। तदभावे च तदभावात्। न च निरवयवत्त्वे आकाशस्य सन्तानवृत्त्या आगसत्य शब्दस्य श्रोत्रेणाप्युपलब्धि: संभवति अन्याऽन्याकाशदेशोत्पत्तिद्वारेण तस्य श्रोत्रसमवेतत्वा- नुपपत्तेः। जलतरङ्गन्यायेनाऽपराऽपराऽऽकाशदेशादावपरापरशब्दोत्पत्तिप्रक-- ल्पनायां कथं नाऽऽकाशस्य सावयवत्वम् ? किंच-आकाशं शब्दोत्पत्ती समवायिकारणमभ्युपगम्यते, यच्च स मवायिकारणं तत्सावयवं, यथातन्त्वादि, समवायिकारणं च। परेण शब्दोत्पत्तावाकाशमभ्युपगतम्। न च परमाणवात्मादिना व्यभिचार: तस्यापि सावयवत्यात; अन्यथाव्यणुकबुद्ध्या-देस्तत्कार्यस्यसावयत्वंनस्यात् नचबुद्ध्यादे: सावयवत्वमसिद्धम् आत्मन: सावयवत्वेन साधित्वात् तद्विशेषगुणत्वेन बुद्ध्यादे: कथंचित्तादात्म्यसिद्धितः सावयवत्वोपपत्तेः / नच यत एव प्रमाणादणव: सिद्धास्तेषां निरवयवत्वमपि तत एव सिद्धमिति तदग्राहकप्रमाणबाधितत्वात् सावर्यवत्वा-नुमानस्याप्रामाण्यं प्रमाणत: परमाणूनामसिद्धावाश्रयासिद्धित: सावयवत्वानुमानस्याप्रवृत्तिरिति वाच्यं, यत: सावयवकार्यस्य सावयवकारणपूर्वकत्वे साध्ये न पूर्वोक्तदोषावकाशः / न च कार्यकारणयोरात्यन्तिको भेद:, समवायनिषेधे हि हिमवद्-विन्ध्ययोरिव भेदे विशिष्टकार्यकारणरूपतानुपपत्तेः। ततो व्यणुकादे: परमाणुकार्यस्य सावयवत्वात् तदात्मभूताः परमाणव: कथं न सावयवा इति न परमाण्वादिभिर्व्यभिचारः / अपि च-सावयवमाकाशं तद्विनाशान्यथानुपपत्तेः। नचा-ऽऽकाशस्य विनाशित्वमसिद्धम्। तथाहि-अनित्यमाकाशं, तद्विशेषगुणाभिमतशब्दविनाशान्यथानुपपत्तेः। यतो न तावदा-श्रयविनाशाच्छब्दविनाशोऽभ्युपगतस्तन्नित्यवत्वाभ्युपगमविरोधात्; न विरोधिगुणप्रादुर्भावात्, तन्महत्त्वादेरेकार्थसमवायित्वेन रूपरसयोरिव विरोधिताऽसिद्धेः। विरोधित्वे वा श्रवण-समयेऽपि तद्भावप्रसङ्गः तदापि तन्महत्त्वस्य सद्भावात् / नापि संयोगादिविरोधिगुणस्तस्य तत्कारणत्वात्। नाऽपि संस्कार: तस्य गुणत्वेन शब्देऽसं भवात्संभवे वा शब्दस्य द्रव्यत्वप्रसक्तिः | आकाशस्य द्रव्यत्वेन तत्संभवेऽपितपस्याभावे आकाशस्याप्यभावप्रक्ति: तस्य तदव्यतिरेकात् व्यतिरेक वा 'तस्य' इति संबन्धायोगात्। नापिशब्दोपलब्धिप्रापकधर्माद्यभावात् तदभावः तस्य विभिन्नाश्रयस्यानेन विनाशयितुमशक्यत्ववात्। शक्यत्वे वा तदाधारस्यापि विनाशप्रसङ्गस्तस्य तदव्यतिरेकात् ततोऽम्बरविशेषगुणत्वे शब्दस्य तद्विनाशान्यथानुपपत्त्या तस्यापि विनाशितत्वं, ततोऽपि सावयत्वम्। न च बुद्ध्यादिभिर्व्यभिचार: उक्तोत्तरत्वत्! किंच- आश्रितविनाशे आश्रयत्वस्यापि विनाश: आश्रितत्वनिबन्धनत्वात् तस्य धर्मस्य च धर्मिणः कथंचिदव्यतिरेकात् / तथा आकाशस्य विनाशित्वात्सावयवत्वं घटादेरिवोपपन्नम् / किं च सावयवमाकाशम्, हिमवद्विन्ध्यावरुद्धविभिन्नदेशत्वात् तदवष्टब्धदेशभूभागवद्, अन्यथा तयोरूपरसयोरिवैकदेशा- कास्थितिप्रसक्तिः, न चैतदृष्टमितिसर्व वस्तूत्पादविनाश-स्थित्यात्मकत्वात्कथंचित्सावयवं सिद्धम्। सम्म०३ काण्ड 33 गाथाटी०। (आकाशस्य निरालम्बनत्वम्)-"आगासंचेव निरालंबे" (सूत्र-२९४) आकाशमिव निरालम्बो यथाऽऽकाशमनालम्बनं तथा साधुन किञ्चिदालम्बते। प्रश्न०५ संव द्वार! (आकाशं द्विविधम्)दुविहं आगासे पण्णत्ते, तंजहा-लोगागसे चेव, अलोगागासे चेवा (सूत्र-७४+) तत्र लोको यन्नाकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशं लोकाकाशमिति / (स्था.) लोकाऽलोकभेदेनाऽऽकाशद्वैविध्यमुक्तम्। स्था०२ ठा० 1 उ०) (एनमेवार्थं मीमांसयन्नाह)धर्मादिसंयुतो लोको-ऽलोकस्तेषां वियोगतः। निरवधि : स्वयं तस्या-ऽवधित्वं तु निरर्थकम् // 9|| धर्मास्तिकायादिसंयुक्त आकाशो लोकः, तदितरस्त्वलोकः। स च पुनर्निरवधि:- अपार: अलोकः, तस्य- अलोकस्य स्वयम्-आत्मनाऽ-- वधित्वमन्तर्गडु इति। कश्चिदाहात्र- यथा लोकस्य पार्श्वे अलोकस्यापि पारोऽस्ति; तथैवाग्रेऽपि द्वितीयतटे पारो भविष्यतीति ब्रुवाणमुत्तरयन्तिलोकस्तुभावरूपोऽस्ति, तस्यावधित्वं घटते, परंतु अग्ने अलोकस्य केवलमभावात्मकस्याऽवधित्वं कथं कल्पतेशशशृङ्गवत् / यथा असद्अविद्यमानं शशशृङ्ग न कुत्रापि निरीक्ष्यमाणं विद्यमानवदाभाति तथैवैतस्याप्यलोकस्य अविद्यमानस्यावधित्वं न घटामाटीकते। अथ भावरूपात्मकत्वमङ्गीक्रियते तदा तु षडतिरिक्तमन्यद् द्रव्यं नास्तीति व्यवहारात् आकाशदेशरूपस्य तु तदन्तत्वं कथयतां बुद्ध्या धातो जायते। तस्मादलोकाकाशस्तुअनन्त एवं मन्तव्य इति। आकाशो यथा साऽन्तः शंसितो धर्माऽधर्मानुभावात् तस्य भावस्तदभावात्तदभावः। अलोकाकाशोऽपि सान्तो धर्माधर्मानुभावी भवन अतिरिक्तद्रव्यत्वमापत्स्यते। तस्माद्यथोक्तमेवन्याय्यम्। यावताआकाशेनतद्धर्माधर्मांव्याप्त स्थितीतावता