________________ आगारेउण 107 अमिधानराजेन्द्रः भाग 2 आगास आगारेऊण-अव्य, (आकार्य्य) रे क्यास्यसीदानीमित्येव-माहूयेत्यर्थे, आवा आगारेऊण परं, रणि व्व जइ सो करिज उस्सग्गं / / 14554|| 'आगारेऊण' त्ति- आकार्य रे रे क्व यास्यसीदानीम्, एवं परम्- अन्य कञ्चन 'रणि' व्व संग्राम इव यदिस: कुर्यात्कायोत्सर्गम्। आव०५ अ। आगाल- पुं. (आगाल) आगालनमागाल:। समप्रदेशावस्थाने, आचा०। सोऽपि चतुर्की-व्यतिरिक्त उदकादेर्निम्नप्रदेशावस्था- नम्, भावागालो ज्ञानादिक एव तस्यात्मनि रागादिरहितेऽव- स्थानमिति कृत्वा। आचा, १श्रु०५१०१ उ०। उदीरणाविशेषेचा प्रथमस्थितौ च। यत्पुनर्द्वितीयस्थिते: सकाशादुदीरणाप्रयोगेणैव दलिकं समाकृष्योदये प्रक्षिपति सा उदीरणाऽपि पूर्वसूरिभिर्विशेषप्रतिपत्त्यर्थमागाल इत्युच्यते / कर्म, 5 कर्म। (अधिकम् 'उवसमसेढि' शब्देऽस्मिन्नेव भागे वक्ष्यते) आगास- पुं. (आकाश) ना आकाशन्ते-दीप्यन्तेस्वधर्मोपेता आत्मादयो यत्र। तस्मिन्, दश. 1 अ। आ-समन्तात् सर्वाण्यपि द्रव्याणि काशन्ते दीप्यन्ते अत्र व्यवस्थितानि। जी०१ प्रतिका आ-मदियाऽभिविधिना वा सर्वेऽर्था: काशन्ते- प्रकाशन्तेस्वस्वभावं लभन्ते यत्र तदाकाशम्। भ० 2 श.१ उ०। आडिति मर्यादया स्वस्वभावापरित्यागरूपया काशन्तेस्वरूपेण प्रतिभासन्तेऽस्मिन् व्यवस्थिता: पदार्था इत्याकाशम्, यदा त्वभिविधावाङ्तदा आडिति सर्वभावाभिव्याप्त्या काशते इत्याकाशम् / (सूत्र-टी०३) प्रज्ञा.१ पद। उत्त। सर्वभावाव-काशनादाकाशम्। आभदिया तत्संयोगेऽपि स्वकीय- स्वकीयरूपेऽवस्थानत: सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया काशन्ते स्वभावलाभेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति / अथवा-अभिविधिना सर्वात्मना तत्संयोगा-नुभवलक्षणेन काशन्ते दीप्यन्त पदार्था यत्र तदाकाशम्। अनु०९७ सूत्रटीला सर्वद्रव्यस्वभावानाकाशयति-आदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम् / आङ्-मर्यादाऽभिविधिवाची, तत्र मादायाम् - आकाशे भवन्तोऽपि भावा: स्वात्मन्येवासतेनाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद् अभिविधौ तु-सर्वभावव्यापनादाकाशमिति। स्था०२ ठा०१ उ०७४ सूत्रटीका आसमन्तात् काशतेऽवगाहदानतया प्रतिभासते इत्याकाशम्। कर्म४ कर्मः। लोकालोकव्याप्यनन्तप्रदेशा-त्मकाऽमूर्तद्रव्यविशेषे, अनु० आकाशंतु जीवादिपदार्थानामा- धारान्यथानुपपत्तेरस्तीति श्रद्धेयम् / न च धम्मधिमास्ति-कायावेव तदाधारौ भविष्यत इति वक्तव्यं, तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात्, न चान्यसाध्यं कार्यमन्यः प्रसाधयत्यतिप्रसङ्गादिति। अनु / 97 सूत्रटी०। "जीवानां पुद्गलानांच, धर्माधर्मास्तिकाययो:। बादराणां घटादीना-माकाशमवकाशदम्॥१॥" इति। आव.४ अ।जीवानां पुद्गलानांधर्माधर्मास्तिकाययोर्बादरघटादीनां चोपग्रहवदवकाशदम्। दर्श.४ तत्त्व। अथाऽऽकाशद्रव्यस्य लक्षणमाविष्करोति यो दत्ते सर्वद्रव्याणां,साधारणावगाहनम्। लोकालोकप्रकारेण, द्रव्याकाश: स उच्यते / / यः आकाशास्तिकाय: सर्वद्रव्याणां साधारणावगाहनम् - सामान्यावकाशं दत्ते स द्रव्याकाशो लोकालोकप्रकारेण उच्यते इति। यत: सर्वद्रव्याणां य: सर्वदा साधारणावकाशदाता स: अनुगत एक आकाशास्तिकाय: कथितः सर्वाऽऽधार इति। यथा पक्षिणां गगनमिवेति व्यवहारनयदेशभेदेन भवेत्, तद्देशीयानुगत आकाश एव पर्यवसन्न: स्यात्। तथा च-तत्तद्देशोर्ध्व- भागावच्छिन्नमू भावादिना तद्व्यवहारोपपत्तिरिति वर्द्धमाना- धुक्तं नाऽनवद्यम्। तस्याभावादिनिष्ठत्वेनानुभूयमानद्रव्या-धारांशापलपप्रसङ्गात्तावद्गतिसन्धानेऽपि लोकव्यवहारेणाकाशदेशप्रतिसंधतयोक्तव्यवहाराचा द्रव्या.१० अध्या! भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं / / 5 / यत्पुन: सर्वद्रव्याणां-जीवादीनां भाजनम्- आधाररूपंनभ:- आकाशम् उच्यते। तच नभः अवगाहलक्षणं अवगाढ़ प्रवृत्तानां जीवानां पुद्गलानां आलम्बो भवति इति / अवगाह:- अवकाश: स एव लक्षणं यस्य तत् अवगाहलक्षणं नम उच्यते। उत्त०२८ अ०। (आकाशस्य नित्यत्वं द्रव्यत्वञ्च)आकाशाख्यैकनित्य- द्रव्यप्रसिद्धये शब्दं गुणत्वाल्लिङ्गत्वेन प्रतिपादयन्ति। तथा च परेषां प्रयोग:- ये विनाशित्वोत्पत्तिमत्त्वादिधर्माध्यासितास्ते क्वचिदाश्रिताः, यथा घटादयः, तथा चशब्दास्तस्मादेभिराश्रितैः क्वचिद् भवितव्यं, यश्चैषामाश्रय: स पारिशेष्यादाकाश:, तथाहि-नायं शब्दः पृथिव्यादीनां वायु-पर्यन्तानां गुणः, अध्यक्षग्राह्यत्वेसत्यकारणगुणपूर्वकत्वात्, येतुपृथिव्यादीनां चतुर्णां गुणास्ते बाह्येन्द्रियाऽध्यक्षत्वे सति-अकारणगुणपूवका न भवन्ति, यथा रूपादयो, न च तथा शब्द: एवम्-'अयावद्रव्यभावित्वाद्' 'आश्रयाद्रेर्यादेरन्यत्रोपलब्धेश्व' इत्यादयो हेतवो द्रष्यव्या:। स्पर्शवतां यथोक्तविपरीता गुणा उपलब्धाः। 'प्रत्यक्षत्वे सति' इति च विशेषणं परमाणुगतै: पाकजैरनैकान्तिकत्वं मा भूदित्युपात्तम्। न च-आत्मगुण: अहंकारेण विभक्तग्रहणाबाह्येन्द्रियाध्यक्षत्वात् आत्मान्तरग्राह्यत्वाच्च, बुध्यादीनामात्मगुणानां तद्वैपरीत्योपलब्धेः। न दिक्-काल-मनसां श्रोत्रग्राह्य- त्वात्। अत: पारिशेष्यात् गुणो भूत्वा आकाशस्य लिङ्गम् आकाशं च शब्दलिङ्गाविशेषात् विशेषलिङ्गाभावच एकं विभु च सर्वत्रोपलभ्यमानगुणत्वात् समवायित्वे सत्यनाश्रितत्वाच, द्रव्यम्, अकृतकत्वान्नित्यम्। सम्म०३ काण्ड 49 गाथाटी।। (आकाशस्य सावयवत्त्वम्)न च सावयवत्वमसिद्धं प्रदेशव्यवहारस्याऽऽकाशे दर्शनात् / न च'आकाशस्य प्रदेशाः' इति व्यवहारो मिथ्या, मिथ्या-त्वनिमित्ताभावात्। न च संयोगस्याव्याप्यवृत्तित्वनिमित्त: सावयवत्वाध्यारोपो मिथ्यात्वकारणं निरवयवे अव्याप्यवृत्ति: संयोगाधारत्वस्याध्यारोपनिमित्तस्यैवानुपपत्तेः। यदि च-सावयवं नभो न भवेत् तदा श्रोत्राकाश