________________ आगार 109 अभिधानराजेन्द्रः भाग२ आगास तत्परिमाणशालिना आकाशेनापि भवितव्यं तयोरभावात्त-स्याप्यभाव: सुपरिशीलनीय: इति। द्रव्या. 10 अध्या! (लोकाऽलोकाऽऽकाशौ विस्तरेण)कइविहें णं भंते ! आगासे पण्णत्ते ? गोयमा ! दुविहे आगासे पण्णते,तं जहा-लोयाऽऽगासे य, अलोयाऽऽगासेय। 'कतिविहे णं भंते!' इत्यादि, तत्र लोकाऽलोकाऽऽकाशयोर्लक्षणमिदम्"धर्मादीनां वृत्ति-द्रव्याणां भवति यत्र तत् क्षेत्रम् / तैर्द्रव्यै: सह लोकस्तद्विपरीतं ह्यलोकाख्यम्"शा इति। लोयाऽऽगासे णं भंते ! किं जीवा, जीवदेसा, जीवपएसा, अजीवा, अजीवदेसा, अजीवपएसा? गोयमा! जीवा विजीवदेसा वि, जीवपदेसा वि, अजीवा वि, अजीवदेसा वि, अजीवपदेसा वि। जे जीवा ते नियमा एगिंदिया बेइंदिया तेइंदिया चउरिदिया पंचिंदिया अणिदिया, जे जीवदेसाते नियमा एगिदियदेसाजाव अणिदियदेसा, जे जीवपदेसा ते नियमा एगिदियपदेसा जाव अणिदियपदेसा।जे अजीवा ते दुविहा पण्णत्ता,तं जहारूवीय, अरूवी य / जे रूवी ते चउव्विहा पण्णत्ता, तं जहा-खंधा, खंधदेसा, खंधपदेसा, परमाणुपोग्गला।जे अरूवी ते पंचविहा पण्णत्ता, तं जहा-धम्मत्थिकाए, नो धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पदेसा। अधम्ममित्थकाए नो अधम्मत्थिकायस्स देसे, अधम्मत्थिकायस्स पदेसा। अद्धासमए / (सूत्र-१२१) 'लोगागासेणमि' त्यादौ षट् प्रश्ना। तत्र लोकाकाशेऽधिकरणे 'जीव' त्ति-सम्पूर्णानि जीवद्रव्याणि 'जीवदेस' त्ति-जीवस्यैव बुद्धिपरिकाल्पता व्यादया विभागाः। 'जीवप्पएस' त्ति-तस्यैव बुद्धिकृता एव प्रकृष्टा देशा: प्रदेशा निर्विभागा; भागा इत्यर्थ: / 'अजीव' ति-धर्मास्तिकायादयः, ननुलोकाकाशे जीवा अजीवाश्चित्युक्तेतद्देशप्रदेशास्तत्रोक्ता एव भवन्ति, जीवाद्यव्यतिरिक्तत्वाद्देशादीनां, ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति? नैवम्- निरदयवा जीवादय इति मतव्यवच्छदार्थत्वादस्येति। अत्रोत्तरम्- 'गोयमा! जीवाऽवी' त्यादि, अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम्। अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह- 'रूवीय' त्तिमूर्ताः; पुद्गला इत्यर्थः, अरूवीय' ति-अमूर्त्ता; धर्मास्तिकायादय इत्यर्थः, 'खंध' त्ति-परमाणुप्रचयात्मका: स्कन्धा:स्कन्धदेशा व्यादयो विभागा: स्कन्धप्रदेशास्तस्यैव निरंशा अंशा: परमाणुपुद्गला: स्कन्धभावमनापन्ना: परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजीवा वि अजीवदेसावि अजीवप्पएसावि' इत्येतदर्थतः स्यादणूनां स्कन्धानाचाजीवग्रहणेन ग्रहणात्, 'जे अरूवी ते पंचविहे' त्यादिअन्यत्राप्यरूपिणो दशविधा उक्ता:, तद्यथा-आकाशास्तिकायस्तद्देशस्तत्प्रदेशश्चेत्येवं धर्माधर्मास्तिकायौ समयश्चेति दश इह तु सभेदस्याकाशस्याधारत्वन विवक्षितत्वात्तदाधेया: सप्त वक्तव्या भवन्ति, नचतेऽत्र विवक्षिता: वक्ष्यमाणकारणात्,येतुविवक्षितास्तानाह पञ्चेति, कथमित्याह- 'धम्ममित्थकाये' त्यादि- इह जीवानां पुद्गलानां च बहुत्वादे कस्यापि जीवस्य पुद्गलस्य वा, स्थाने सङ्कोचादि तथाविधपरिणामवशाद्वहवो जीवा: पुद्गलाश्च तथा तद्देशास्तत्प्रदेशाश्च सम्भवन्तीति कृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाश्व तथा रूपिद्रव्यापेक्षया अजीवाश्चाजीवदेशाश्चा- जीवप्रदेशाश्चेति सङ्गतम्, एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात्। धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतो यदा सम्पूर्ण वस्तु विवक्ष्यते तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति तेषामवस्थितरूपत्वात्, तद्देशकल्पना त्वयुक्ता, तेषामनवस्थितरूपत्वादिति। यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथापि तेषामेकत्राश्चयं भेदेन सम्भव: प्ररूपणाकारणम् इह तुतन्नअस्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाचेति। अत एव धर्मास्तिकायादिदेशनिषेधायाह- "नो धम्मत्थिकायस्स देसे" तथा- "नो अधम्मत्थिकायस्स देसे" त्ति-, चूर्णिकारोऽप्याह- 'अरूविणो दव्या समुदयसदेणं भण्णंतिानीसेसा पएसेहिं वानीसेसा भणेज्जा, नो देसेणं तस्स अणवट्ठियपमाणत्तणओ, तेणं न देसेण निद्देसो, जो पुण देससद्दो एएसुकओ सो विसयगयववहारत्थं परदव्वपुसणादिगयववहारत्थं चेति, तत्र स्वविषये धास्तिकायादिविषये यो देशस्य व्यवहारो यथाधर्मास्ति-काय: स्वदेशेनोर्ध्वलोकाकाशं व्याप्नोतीत्यादि तदर्थ, तथा पर- द्रव्येण ऊर्ध्वलोकाकाशादिना य: स्वस्य स्पर्शनादिगतो व्यवहारो यथा ऊर्ध्वलोकाकाशेन धर्मास्तिकायस्य देश: स्पृश्यते इत्यादि: तदर्थमिति 'अद्धासमए' त्ति-अद्धाकालस्तल्लक्षण: समय:क्षणोऽद्धासमय:, स चैक एव वर्तमानक्षणलक्षणः, अतीताना-गतयोरसत्त्वादिति,। कृतं लोकाकाशगतप्रश्नषट्ककस्य निर्वचनम्। अथाऽलोकाऽऽकाशं प्रति प्रश्नयन्नाहअलो(गाऽऽ) याकासे णं भंते ! किं जीवा ? पुच्छा तह चेव, गोयमा! नो जीवाजाव नो अजीवप्पदेसा। एगे अजीवदव्वदेसे अगुरुयलहुए अणंतेहिं अगरयलहुयगुणेहिं संजुत्ते सव्वाऽऽगासे अणंतभागूणे। (सूत्र-१२२) 'पुच्छा तह चेव' त्ति- यथा लोकाकाशप्रश्ने, तथाहि-'अलोकाकासे णं भंते ! किं जीवा जीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवप्पएस' त्ति- निर्वचनं त्वेषां षण्णामपि निषेधस्तथा- 'एगे अजीवदव्वदेस' त्ति- अलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् 'अगरुअलहुए' त्ति- गुरुलघुत्वाव्यपदश्यत्वात् 'अणंतेहिं अगुरुयलहुयगुणेहिं ति-अनन्तैः स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलघुस्वभावैरित्यर्थः / 'सव्वागासे अणंतमागूणे' त्तिलोकाकाशस्यालोकाकाशा- पक्षयाऽऽनन्तभोगरूपत्वादिति। भ.२ श० 10 उ०। (एकेकस्या- काशप्रदेशस्यागुरुलघुपर्याया अनन्ता इति 'अगरुलहुय' शब्दे प्रथमभागे द्रष्टव्यम्।) आकाशस्य पर्याया:- नभोव्योमा-5-न्तरिक्षाऽऽ-काशादयः। विशेआकाशंनभस्तारापथोध्यो