________________ उसभ 1173 - अमिधानराजेन्द्रः - भाग 2 उसभ अस्सावगपडिसेहो,छट्टे अमासि अणुओगो। कालेण य मिच्छत्तं, जिणंतरे साहवुच्छेओ / / 55 / / गमनिका अश्रावकाणां प्रतिषेधः कृत उर्द्धमपि पष्ठे मासेऽनुयोगो बभूव। अनुयोग: परीक्षा कालेन गच्छता मिथ्यात्वमुपगता। कदा नवमजिनान्तरे किमिति यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थ:। साप्रतमुक्तार्थप्रतिपादना परसंग्रह गाथामाह। दाणं च माहणाणं, वेया कासी अपुच्छ निव्वाणं / कुंडाथूम जिणघरे, भरहो कविलस्स दिक्खा य / / 56 // दानं च माहनानां लोको दातुं प्रवृत्तो भरतपूजितत्वात् (वेया कासी य त्ति) आयान् वेदान् कृतवांश्च भरत एव तत्स्वाध्यायनिमित्तमिति / तीर्थकरस्तुतिरूपान् श्रावक धर्मप्रतिपादकांश्च / आचार्यास्तु पश्चात्सुलसा याज्ञवल्क्यादिभिः कृता इति(पुच्छत्ति) भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्यादृग्भूता यूयमेवंविधा: तीर्थकृत: कियन्त: खल्विह भविष्यन्तीत्यादि (निव्वाणं ति) भगवानष्टापदे निर्वाणं प्राप्तो देवैरग्निकुण्डानि कृतानि स्तूपाः कृता: जिनगृहं भरतश्चकार कपिलो मरीचिसकाशे निष्क्रान्तो भरतस्य दीक्षा च संवृत्तेति समुदायार्थः / अवयवार्थ उच्यते। आद्यावयवद्वयं व्याख्यात-मेवा पृच्छावयवार्थ पुणरवि य गाथेत्यादिनाऽऽह || पुणरवि अ समोसरणे, पुच्छा अजिणं तु चक्किणो भरहे। / अप्पुट्ठो अदसारे, तित्थयरो को इहं भरहे / / 57 // गमनिका पुनरपिचसमवसरणे पृष्टवांश्च जिनंतु चक्रवर्ती भरतश्चक्रवर्तिन इत्युपलक्षणं तीर्थकृतश्चेति भरतविशेषणं वा चक्री भरतस्तीर्थकरादीन् पृष्टवान् / पाठान्तरं वा पुच्छी य जिणे य चक्किणो भरहे "पृष्टवान् जिनांश्चक्रवर्तिनश्च भरत: च शब्दस्य व्यवहित: संबन्ध: भगवानपितान् कथितवान् तथा अपृष्टश्च दशारान् तथा तीर्थकर: क इह भरतेऽस्यां परिषदीति पृष्टवान् भगवानपि मरीचिं कथितवानिति गाथाक्षरार्थः / तथा | चाह / नियुक्तिकारः।। जिणचक्किदसाराणं, वन्नपमाणाईनामगुत्ताई। आउपुरमाइपियरो, परियायगई च साही य॥५८॥ गमनिका जिनचक्र वर्तिवासुदेवानामित्यर्थ: / वर्णप्रमाणानि तथा / गामगोत्राणि तथा आयु: पुराणि मातापितरौ यथासंभवं पयार्य गति च / चशब्दाजिनानामन्तराणि च पृष्टवानिति द्वारगाथासमासार्थ: अवयवार्थं तु वक्ष्यामः॥ जारिसया लोगगुरओ, मरहे वासम्मि केवली तुब्भे / एरिसया कइ अन्ने, तया होहिंति तित्थरा || 56 / / यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयमीदृशाः कियन्तोऽन्यऽत्रैवं तात! भविष्यन्ति तीर्थकरा ति गाथार्थः।। अह भणइ जिणवरिंदो, भरहे वासम्मि जारिसो उ अहं। एरिसया तेवीसं, अन्ने होहिंति तित्थयरा / / 60 // होही अजिओ संभव मभिनंदणसुमइसुप्पभसुपासो। ससिपुप्फदंतसीयल सिजंसोवासुपुञ्जो अ॥६१॥ विमलमणंत य धम्मो, संती कुंथू अरो अमल्ली अ। मुणिसुव्वयनमिनेमी, पासो तह बद्धमाणो अ।। 62 / / अह भणइ नरवरिंदो, भरहे वासम्मि जारिसो उ अहं। एरिसया कइ अने, ताया होहिंति रायाणो // 63 // गमनिका अथ भणति नरवरेन्द्रो भरत: भारते वर्षे यादृशस्त्वहं तादृशाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः / / अह भणइ जिणवरिंदो, जारिसओ तं नरिंदस लो। एरिसया इक्कारस, अन्ने होहिंति रायाणो।।६।। होही सगरो मघवं, सणंकुमारो अ रायसङ्कलो। संती कुंथू अ अरो, हवइ सुभूमो अकोरवो / / 65 / / नवमो अमहापउमो, हरिसेणो चेव रायसङ्कलो। जयनामो अनरवई, वारसमो वंभदत्तो अ॥६६॥ होहिंति वासुदेवा, नव अन्ने नीलपीअकोसिज्जा। हलमुसलचक्कजोही, सतालगरुडज्झया दो दो / / 67 // अथ भणति जिनवरेन्द्रो यादृशस्त्वं नरेन्द्रशार्दूल: सिंहपर्याय: ईदृशाः एकादश अन्ये भविष्यन्ति राजानस्ते चैते / (होहिंति) गाथाद्वयं निगदसिद्धमेव यदुक्तमपृष्टश्च दशारान् कथितवान् / तदभिधित्सयाह भाष्यकार: (होहिंति) भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्या: यतो वक्ष्यति स तालगरुलज्झया दो दो तेच सर्वे बलदेवा वासुदेवा यथासंख्यं नीलानि पीतानि च कौशेयानि वस्त्राणि येषां ते तथाविधाः / यथासंख्यमेवाह हलमुशलचक्र योधिनः / हलमुशलयोधिनो बलदेवा: चक्रयोधिनो वासुदेवा इति। सतालगरुडध्वजाभ्यां वर्तन्त इति सतालगरुडध्वजाः एते च भगवन्तो युगपद् द्वौ द्वौ भविष्यः / बलदेववासुदेवावितिगाथार्थ: / आ० म०प्र०। आव०१ अ०॥ "तित्थगरो को इहं भरहेत्ति" तद्व्याचिख्याससयाऽऽह / अह भणइ नरवरिंदो, ताय इमीसित्तियाइ परिसाए। अन्नो विको विहोही, भरहे वासम्मि तित्थयरो।।१।। अत्रान्तरे अथ भणति नरवरेन्द्र: तात ! अस्याः एतावत्याः परिषद:अन्योऽपि कश्चिद्भविष्यति तीर्थकर: अस्मिन् भारते वर्षे भावार्थस्तु सुगम एवेति गाथार्थ: / / तत्थ मरीई नाम, आइपरिव्वायगो उसभनत्ता। सज्झायज्झाणजुत्तो, एगते झायइ महप्पा / / 42 // गमनिका तत्र भगवत: प्रत्यासन्नभूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजक प्रवर्तकत्वात् ऋषभनप्ता पौत्रक इत्यर्थः / स्वाध्याय एव ध्यानं तेन युक्तः एकान्ते ध्यायति महात्मेति गाथार्थः / भरतपृष्टो भगवान्तं मरीचिं दर्शयति। तं दाएइ जिणिंदो, एव नरिंदेण पुच्छिओ संतो। धम्मवरचक्कवट्टी, अपच्छिमो वीरनामुत्ति / / 53 / / जिनेन्द्र: एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवर्ती अपश्चिमोवीरनामा भविष्यतीति गाथार्थः / / आइगरदसाराणं, तिविट्ठ नामेण पोअणाहिवई। पियमित्तचकवट्टी, मूआइविदेहवासम्मि॥४५॥ गमनिका आदिकर: (दसाराणंति) पृष्टनामा पोतना नाम नगरी। तस्या अधिपतिर्भविष्यतीति क्रिया / तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्या (विदेहवासम्मित्ति)महाविदेहे भविष्यतीति गाथार्थः /